________________
भाष्यगाथाः ४५९१-९७ ]
तृतीय उद्देशः ।
सोतार वियारगते, हा ह त्ति सवित्तिणी कुणती ॥। ४५९४ ॥ अविरतिकाया अग्रे स धर्मं कथयति सा चापान्तराले कायिक्यर्थं निर्गता, ततस्तस्यां 'श्रोत्र्यां' श्राविकायां विचारभूमौ गतायां सपत्नी तदीयं पुत्रं तस्य साधोरप्रत उत्क्षिप्य भूमौ सहसैव निपातयति, निपात्य च 'अहो ! अनेन श्रमणेनायं पुत्र उत्क्षिप्तः सन्नेतदीयहस्ताच्युतो विपन्नः' इति महता शब्देन 'हा हा !' इति पूत्कारं करोति, ततो भूयाँल्लोको मिलितस्तं साधुं तत्र स्थितं दृष्ट्वा शङ्कां कुर्यात् — किं मन्ये सत्यमेवेदम् ? इति । मृषावाददोषः प्राक् सप्रपञ्चमुक्त इति न भूयो भाव्यते ॥ ४५९४ ॥ अथादत्तादान-मैथुनयोर्दोषानाह
सयमेव कोइ लुद्धो, अवहरती तं पडुच्च कम्मकरी |
वाणिगणी मेहुणे, बहुसो य चिरं च संकाय ॥ ४५९५ ॥
कश्चिद् व्रती लुब्धः सन् विजनं मत्वा स्वयमेव सुवर्णसङ्कलिका - मुद्रिकादिकमपहरति, 10 एवमदत्तादानमापद्यते; तं वा संयतं प्रतीत्य 'साधुत्रार्थे शङ्किष्यते नाहम्' इति कृत्वा कर्मकरी काचिदपहरेत् । वाणिजिका वा काचित् प्रोषितभर्तृका तया समं मैथुनविषया आत्म-परोभयसमुत्था दोषा भवन्ति; अथवा यत्र योषितपतिका स्तिष्ठन्ति तत्रासौ 'बहुशः ' वारं वारं व्रजति चिरं च ताभिः सह कन्दर्पं कुर्वाणस्तिष्ठति ततश्चतुर्थविषये शक्येत ॥ ४५९५ ॥
अथ परिग्रहदोषानाह -
धम्मं कहे जस्स उ, तम्मि उ वीयारए गए संते । सारक्खणा परिग्गहों, परेण दिट्ठम्मि उड्डाहो ॥ ४५९६ ॥
गतार्था ( गा० ४५७६ ) ॥ ४५९७ ॥
Jain Education International
१२४१
‘यस्य' श्रावकादेरग्रे धर्मं कथयति स ब्रूयात् - यावदहं कायिकां व्युत्सृज्य समागच्छामि तावद् भवता गृहं रक्षणीयम्; एवमुक्त्वा तंत्र विचारभूमौ गते स संयतो यावत् तद् गृहं संरक्षति तावत् परिग्रहदोषमापद्यते । तदेवं गृहं रक्षन् परेण दृष्टः स शङ्कां कुर्यात् — नूनमेत - 20 स्यापि हिरण्यं सुवर्णं वा विद्यते; उड्डाहं च स कुर्यात् - अहो ! अयं श्रमणकः सपरिग्रह इति । त एते दोषा अतो नान्तरगृहे धर्मकथा कर्त्तव्या ॥ ४५९६ ॥ द्वितीयपदमाह-एगं णायं उदगं, वागरणमहिंस लक्खणो धम्मो ।
गाहाहि सिलोगेहि य, समासतो तं पि ठिच्चाणं ।। ४५९७ ।।
॥ अन्तरगृहस्थानादिप्रकृतं समाप्तम् ॥
For Private & Personal Use Only
15
25
www.jainelibrary.org