________________
१२४० सनियुक्ति-लघुभाष्य-वृत्तिके बृहत्कल्पसूत्रे [ अन्तर० प्रकृते सूत्रम् २१ विज्ञेयः-यदधस्तनसूत्रे धर्मखरूपमुक्तं तदेवात्र "महाव्रतपञ्चकम्" इति सङ्ख्यया विशेषितं निरूप्यते ॥ ४५९० ॥ अथात्रैव दोषानाह
पंचमहव्वयतुंगं, जिणवयणं भावणापिणिद्धार्ग।
साहणे लहुगा आणाइ दोस जं वा णिसिज्जाए ॥४५९१॥ । इह जिनवचनं मेरुसदृशं पञ्चभिर्महाव्रतैस्तुङ्गम्-उच्छ्रितम् , पञ्चमहाव्रतमयोच्छ्यमित्यर्थः। तस्यैव च महाव्रतोच्छ्यस्य रक्षणार्थ भावनाभिः पञ्चविंशतिसङ्ख्याकाभिः पिनद्धं-गाढतरं नियनितम् । ईदृशं जिनवचनमन्तरगृहे उपविश्य कथयतश्चतुर्लघुकाः आज्ञादयश्च दोषाः । यद् वा गृहनिषद्यायां वाहितायां प्रायश्चित्तं यच्च दोषजालं तद् आपद्यते । तथा महाव्रतपञ्चकविषया दोषा भवन्ति, तथाहि-प्राणवधमापद्येत प्राणवधे वा शयेत, एवं यावत् परिग्रह10 मापद्येत परिग्रहे वा शङ्कयेत ॥ ४५९१ ॥ तथाहि
पाणवहम्मि गुरुव्विणि, कप्पट्ठोदाणए य संका उ ।
भणिओ ण ठाइ कोयी, मोसम्मि य संकणा साणे ॥ ४५९२ ॥ गृहे उपविश्य साधुधम कथयति, गुर्विणी च तस्यान्तिके उपविष्टा शृणोति, यावच्चासौ तत्र तिष्ठति तावत् तदीयगर्भस्य आहारव्यवच्छेदेन विपत्तिर्भवति, एवं प्राणवधे लगति । 16 तथा धर्म कथयतः काचिदविरतिका शृण्वत्येवापान्तराले कायिकाभूमि गच्छेत् , तस्याः पुत्रस्तत्रैवास्ते, ततः सपत्नी च्छिद्रं लब्ध्वा तमुत्क्षेपणमिषेण साधोरगतो निपात्यापद्रावयति, एवं प्राणातिपातविषया शङ्का भवेत् । तथा 'यत् तीर्थकरैः प्रतिषिद्धं तद् मया न कर्त्तव्यम्' इति प्रतिज्ञाय तैः प्रतिषिद्धां निषद्यां वाहयतो मृषावादो भवति । यद्वा खमुखेनैव गृहनिषद्यां निषिध्य पश्चादात्मनैव तां परिभुञ्जानो मृषावादमापद्यते । अथवा स दिने दिने तस्या अविरतिकाया 20 अग्रे धर्म कथयति ततो गृहखामिना भणितः—मा मम गृहमायासीरिति; साधुना भणितम्
आगमिष्यन्ति ते गृहं पाणशुनकाः; एवमुक्त्वाऽपि जिह्वालोलतादोषेण तदेव गृहं ब्रजन् 'भणितोऽपि' तेन गृहस्थेन वारितोऽपि कश्चिद् न तिष्ठति, एवं मृषावादमामोति; स च गृहस्थो ब्रूयात्-किं पाणशुनकः संवृत्तोऽसि ? इति । यद्वा गृहस्थो भोजनं कुर्वन् धर्म शृण्वतीमगारी किमप्युत्कृष्टं द्वितीयाङ्गं याचेत, सा ब्रूयात्-शुना भक्षितम् ; अगारो ब्रूयात्-जानाम्यहं तं श्वानं 25 येन भक्षितमिति; एवं मृषावादविषया शङ्का भवेत् ॥४५९२॥ अथास्या एव पूर्वाधं व्याचष्टे
खुहिया पिपासिया वा, मंदक्खेणं न तस्स उद्वेइ ।
गम्भस्स अंतरायं, बाधिजइ सनिरोघेणं ॥ ४५९३ ॥ गुर्विणी धर्मकथां शृण्वती क्षुधिता वा पिपासिता वा भवेत् , सा च तस्य साधोः सम्बन्धिना 'मन्दाक्षेण' लज्जया नोतिष्ठति, ततो गर्भस्यान्तरायं भवति । तेन चाऽऽहारव्यवच्छेदलक्षणेन 30 सन्निरोधेन स गर्भो बाध्यते, ततो विपत्तिमप्यसौ प्राप्नुयादिति प्राणवधमापद्यते ॥ ४५९३ ॥ 1 अथ प्राणिवधविषयां शङ्कां दर्शयति--
उक्खिवितो सो हत्था, चुतो ति तस्सऽग्गतो णिवाडित्ता । १२ एतदन्तर्गतमवतरणं भा० नास्ति ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org