________________
10
भाष्यगाथाः ४५८५-९०] तृतीय उद्देशः।
१२३९ मोहमयी फुम्फुका 'हसहसति' जाज्वल्यते सा कथा श्रमणेन न कथयितव्या ॥ ४५८८ ॥
समणेण कहेयव्वा, तब-णियमकहा विरागसंजुत्ता।
जं सोऊण मणूसो, बच्चइ संवेग-णिवेयं ॥ ४५८९ ॥ तपः-अनशनादि नियमाः-इन्द्रिय-नोइन्द्रियनिग्रहास्तत्प्रधाना कथा तपो-नियमकथा 'विरागसंयुक्ता' न निदानादिना रागादिसङ्गता श्रमणेन कथयितव्या, यां श्रुत्वा 'मनुष्यः' । श्रोता संवेग-निर्वेदं व्रजति । संवेगः-मोक्षाभिलाषः, निर्वेदः-संसारवैराग्यम् ॥ ४५८९ ॥ सूत्रम्
नो कप्पति निग्गंथाण वा निग्गंथीण वा अंतरगिहंसि इमाइं पंच महव्वयाइं सभावणाई आइक्खित्तए वा विभावित्तए वा किहित्तए वा पवेयत्तए वा, नऽन्नत्थ एगनाएण वा जाव सिलोएण वा, से वि य
ठिच्चा नो चेव णं अठिच्चा २१ ॥ अस्य व्याख्या प्राक्सूत्रवद् द्रष्टव्या । नवरम् 'इमानि' खयमनुभूयमानानि पञ्च महाव्रतानि 'सभावनानि' प्रतिव्रतं भावनापञ्चकयुक्तान्याख्यातुं वा विभावयितुं वा कीर्चयितुं वा प्रवेदयितुं वा न कल्पन्ते । आख्यानं नाम-साधूनां पञ्च महाव्रतानि पञ्चविंशतिभावनायुक्तानि 15 षट्कायरक्षणसाराणि भवन्ति । विभावनं तु-प्राणातिपाताद् विरमणं यावत् परिग्रहाद् विरमणमिति । भावनास्तु-“इरियासमिए सया जए०" (आव० प्रति० संग्र० पत्र ६५८-२) इत्यादिगाथोक्तखरूपाः । षटकायास्तु-पृथिव्यादयः । कीर्तनं नाम-या प्रथमव्रतरूपा अहिंसा सा भगवती सदेव-मनुजा-ऽसुरस्य लोकस्य पूज्या द्वीपः त्राणं शरणं गतिः प्रतिष्ठेत्यादि, एवं सर्वेषामपि प्रश्नव्याकरणाङ्गोक्तान् (संवराध्ययनानि ५ तः १०) गुणान् कीर्तयति । प्रवेदनं 20 तु-महाव्रतानुपालनात् खर्गोऽपवर्गो वा प्राप्यत इति सूत्रार्थः ॥ परः प्राह-ननु पूर्वसूत्रेण गतार्थमिदम् अतः किमर्थमारभ्यते ? उच्यते--
गहिया-ऽगहियविसेसो, गाधासुत्तातों होति वयसुत्ते ।
णिद्देसकतो व भवे, परिमाणकतो व विण्णेतो ॥ ४५९० ॥ गाथासूत्राद् व्रतसूत्रे प्रथिता-ऽप्रथितविशेषो मन्तव्यः । किमुक्तं भवति ?--अनन्तरसूत्रे 25 "चउगाहं वा पंचगाहं वा" इत्युक्तं ताश्च गाथा ग्रथिता भवन्ति, इमानि तु महाव्रतानि प्रथितानि अग्रथितानि वा भवेयुः । प्रथितानि नाम-पद-पाठबन्धेन वा श्लोकबन्धेन वा बद्धानि, अग्रथितानि तु-मुत्कलैरेव वचनैर्यान्यभिधीयन्ते । यद्वा निर्देशकृतोऽत्र विशेषो भवति--- अनन्तरसूत्रे "चतुर्गाथं पञ्चगाथं वा कथयितुं न कल्पते" इत्युद्देशमात्रमेव कृतम् , अत्र तु "महाव्रतानि सभावनाकानि" इत्यनेन तस्यैव विशेषनिर्देशः क्रियते । परिमाणकृतो वा विशेषो 30 १ एतचिहान्तर्गतः पाठः भा० नास्ति ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org