________________
१२३८
सनिर्युक्ति-लघुभाष्य-वृत्तिके बृहत्कल्पसूत्रे [ अन्तर० प्रकृते सूत्रम् २०
जिनशासनं' इयन्मात्रो जिनोपदेश इति ॥ ४५८४ ॥ गाथया पुनरित्थं धर्म उपदिश्यतेसव्वारंभ-परिग्गहणिक्खेवो सव्वभूतसमया य ।
एकग्गमणसमाहाणया य अह एत्तिओ मोक्खो ।। ४५८५ ।।
सर्वस्य – सूक्ष्म- बादराद्यशेषजीव विषयस्यारम्भस्य सर्वस्य च - सचित्ताऽचित्त - मिश्रभेदभिन्नस्य B परिग्रहस्य यो निक्षेपः- संन्यासो या च सर्वभूतेषु समता या चैकाग्रमनः समाधानता 'अथ' एष एतावान् मोक्ष उच्यते, कारणे कार्योपचाराद् एष मोक्षोपाय इत्यर्थः ॥ ४५८५ ॥ श्लोकेन यथा
10
यत्र प्राणिवधो नास्ति, यत्र सत्यमनिन्दितम् । यत्रात्मनिग्रहो दृष्टस्तं धर्ममभिरोचयेत् ॥
अथ किं कारणं स्थित्वा धर्मः कथनीयः ? इत्याशङ्कयाह
इरियावहियाऽवण्णो, सिहं पि न गिण्हए अतो ठिच्चा । भड्डी पडिणी, अभियोगें चउण्ह वि परेण ॥ ४५८७ ॥ ईर्यापथिकी- चङ्क्रमणक्रिया तां कुर्वन् यदि कथयति तदा लोकेऽवर्णो भवति — दुर्हष्टधर्माणोऽमी यदेवं गच्छन्तो धर्मं कथयन्ति । अपि च – 'शिष्टमपि' कथितमपि धर्ममेवं 20 श्रोता न गृह्णाति अतः स्थित्वा एकश्लोकादि कथनीयम् । अथापवादापवाद उच्यतेकश्चिद् भद्रको धर्मश्रद्धालुर्ऋद्धिमान् धर्मं पृच्छति ततः सत्त्वानुकम्पया 'प्रवचनोपग्रहकरश्च भविष्यति' इति कृत्वा तिस्रश्चतस्रः पञ्च वा बहुतरा वा गाथा उपविश्य कथयितव्याः । प्रत्यनीको वा कश्चिद् व्यतिव्रजति तं प्रतीक्षमाणस्तावद् धर्मं कथयेद् यावदसौ व्यतीतो भवति । यद्वा स प्रत्यनीकः सहसा दृष्टों भवेत् ततो यः सलब्धिकः स उपशामनानिमित्तं बहुविधम्25 पदेशं दद्यात् । दुण्डिकस्य वा 'अभियोगः' बलात्कारो भवेत् । किमुक्तं भवति ? – एक श्लोकेन धर्मे उपदिष्टे दण्डिको ब्रूयात् - कथय कथय मम सम्प्रति महती श्रद्धा वर्तते; ततश्चतुर्णां लोकानां परतोऽपि कथयेत् ॥ ४५८७ ॥
आह— कीदृशी पुनः कथा कथयितव्या ? कीदृशी वा न ? इति उच्यतेसिंगाररसुतुइया, मोहमई फुंफुका हसहसेति ।
जं सुणमाणस्स कहं, समणेण न सा कहेयच्वा ।। ४५८८ ॥ यां कथां शृण्वतः श्रोतुः स्त्रीवर्णकादिश्रवणजनितो यः शृङ्गारो नाम रसस्तेनोतेजिता सती
15
सव्वभूतऽप्पभूतस्स, सम्मं भूताइँ पासओ ।
पिहियासवस्स दंतस्स, पावं कम्मं न बंधई ॥ ४५८६ ॥ पाठसिद्धः । ये तु संस्कृतरुचयस्तेषामित्थं गाथया श्लोकेन वा धर्मकथा क्रियतेव्रत-समिति - कषायाणां धारण-रक्षण - विनिग्रहाः सम्यक् । दण्डेभ्यश्च परमो धर्मः पञ्चेन्द्रियदमश्च ॥
30
Jain Education International
-
१ 'ष्टः, स धर्मो मम रोचते भा० ॥ २ एतदनन्तरं कां० पुस्तके रूपकद्वयमपि सुगमम् ॥ अथ किं इति पाठः ॥
For Private & Personal Use Only
॥ ४५८६ ॥
www.jainelibrary.org