SearchBrowseAboutContactDonate
Page Preview
Page 372
Loading...
Download File
Download File
Page Text
________________ भाष्यगाथाः ४५७४-८४] तृतीय उद्देशः । १२३७ अपि च नायमेकान्तो यदेकत्रानवद्यतया दृष्टं तदन्यत्राप्यनवद्यमेव भवति, तथाहि चिरपाहुणतो भगिणिं, अवयासितो अदोसवं होति । तं चेव मज्झ सक्खी, गरहिजइ अण्णाहिं काले ॥ ४५७९ ॥ चिरकालादायातः प्राघूर्णको भगिनीम् 'अवकाशमानः' सस्नेहमालिङ्गन् अदोषवान् भवति, तथा चात्र त्वमेव मम 'साक्षी' प्रमाणम् , साम्प्रतमेव भवता चिरप्राघूर्णकतया भगिनीपरिष्व-5 ङ्गस्य कृतत्वादिति भावः । तामेव च भगिनीमन्यस्मिन् काले परिष्वजन् 'गीते' निन्द्यते, अत्रापि त्वमेव प्रमाणमिति ॥ ४५७९ ॥ तथा पादेहिँ अधोतेहि वि, अकमितूणं पि कीरती अच्चा । सीसेण वि संकिजति, स चेव चितीकया छिविउं ॥ ४५८० ॥ _ 'अर्चा' प्रतिमा सा यावद् नाद्यापि प्रतिष्ठिता तावदधौतैरपि पादैः ‘आक्रम्य उपरि चटि-10 त्वाऽपि क्रियते । सैव प्रतिमा 'चितीकृता' चैत्यत्वेन व्यवस्थापिता शीर्षेणापि स्प्रष्टुं शक्यते, शिरसा स्पृशद्भिरपि शङ्का विधीयत इति भावः ॥ ४५८० ॥ केइ सरीरावयवा, देहत्था पूइया न उ विउत्ता। सोहिजंति वणमुहा, मलम्मि बूढे ण सव्वे तु ॥ ४५८१॥ केचित् शरीरावयवाः' दन्त-केश-नखादयो देहस्थाः सन्तः 'पूजिताः' प्रशस्ता भवन्ति, न15 पुनः 'वियुक्ताः' शरीरात् पृथग्भूताः । तथा 'व्रणमुखान्यपि' श्रोत्र-चक्षुः-पायुप्रभृतीनि मले व्यूढे सति न सर्वाण्यपि शोध्यन्ते किन्तु कानिचिदेवेति ॥ ४५८१ ॥ जइ एगत्थुवलद्धं, सव्वत्थ वि एव मण्णसी मोहा । भूमीतों होति कणगं, किण्ण सुवण्णा पुणो भूमी ॥ ४५८२ ॥ यदि नाम एकत्र यद् उपलब्धं सर्वत्रापि तेन भवितव्यम् इत्येवं 'मोहाद्' अज्ञानाद् 20 मन्यसे, ततः कथय भूमीतः कनकमुत्पद्यमानं दृश्यते ततः सुवर्णात् पुनरपि किं न भूमिरुत्पद्यते ॥ ४५८२ ॥ तम्हा उ अणेगंतो, ण दिट्टमेगत्थ सव्वहिं होति । लोए भक्खमभक्खं, पिजमपिजं च दिट्ठाई ॥ ४५८३ ॥ तस्माद् 'अनेकान्तः' अनियमोऽयम् , कीदृशः ? इत्याह-नैकत्र दृष्टं सर्वत्रापि भवतीति । 25 तथा च लोके प्राण्यङ्गत्वे समानेऽप्योदन-पक्कान्नादिकं भक्ष्यं मांस-वसादिकमभक्ष्यम् , तक-जलादिकं पेयं मद्य-रुधिरादिकमपेयम्, इत्यादीनि पृथग् व्यवस्थान्तराणि दृष्टानि; तथाऽत्राप्युदकसमारम्भादौ मन्तव्यानि ॥ ४५८३ ॥ गतमेकज्ञातम् , अथैकव्याकरणेन यथा धर्मोऽभिधीयते तथा दर्शयति जं इच्छसि अप्पणतो, जं च ण इच्छसि अप्पणतो । तं इच्छ परस्स वि या, एत्तियगं जिणसासणयं ॥ ४५८४ ॥ यद् 'आत्मनः' खजीवस्य सुखादिकमिच्छसि यच्च दुःखादिकमात्मनो नेच्छसि तत् 'परस्यापि' आत्मव्यतिरिक्तस्य जन्तोः इच्छ, आत्मवत् परमपि पश्येति भावः । 'एतावद् 30 Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002513
Book TitleAgam 35 Chhed 02 Bruhatkalpa Sutra Part 04
Original Sutra AuthorBhadrabahuswami
AuthorChaturvijay, Punyavijay
PublisherAtmanand Jain Sabha
Publication Year2002
Total Pages444
LanguageSanskrit, Prakrit
ClassificationBook_Devnagari, Agam, Canon, & agam_bruhatkalpa
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy