________________
१२३६ सनियुक्ति-लघुभाष्य-वृत्तिके बृहत्कल्पसूत्रे [अन्तर० प्रकृते सूत्रम् २०
परितावऽणगाढाती, लहुगाती जाव चरिमपदं ।। ४५७४ ॥ कालातिक्रमेण च ग्लानस्य भक्त-पानदाने रोगपरिवृद्धिर्भवति । ततश्च यदसावनागाढपरितापनादिकं प्रामोति तत्र चतुर्लघुकादि प्रायश्चित्तं यावत् कालगते 'चरमपदं' पाराश्चिकम् । द्वितीयपदे गोचरप्रविष्टोऽपि परेण पृष्टः सन् कथयेत् ॥ ४५७४ ॥ 6 किं कारणम् ? इति चेद् उच्यते
कि जाणंति वरागा, हलं जहित्ताण जे उ पव्वइया ।
एवंविधो अवण्णो, मा होहिइ तेण कहयंतिः॥४५७५ ॥ यदा परेण प्रनिता अपि न कथयन्ति तदा स चिन्तयति-किमेते वराका जानन्ति ये हलं परित्यज्य प्रव्रजिताः ? । एवंविधोऽवर्णः प्रवचनस्य मा भूत् तेन कारणेन कथयन्ति 10॥ ४५७५ ॥ अथ 'एगनाएण वा” इत्यादिसूत्रपदव्याचिख्यासयाऽऽह
एगं नायं उदगं, वागरणमहिंसलक्खणो धम्मो।
गाहाहिँ सिलोगेहि व, समासतो तं पि ठिचाणं ॥ ४५७६ ॥ परप्रनितेन विवक्षितार्थसमर्थनार्थमेकं ज्ञातमभिधातव्यम् , तत्र च उदकदृष्टान्तो भवति । 'व्याकरणं' निर्वचनम् , यथा-केनचिद् धर्मलक्षणं पृष्टस्ततः प्रतिब्रूयात्-अहिंसा16 लक्षणो धर्म इति; अथवा गाथाभिः श्लोकैर्वा समासतो धर्मकथनं कर्तव्यम् । तदपि च स्थित्वा नोपविष्टेन न वा भिक्षां हिण्डमानेनेति नियुक्तिगाथासमासार्थः ॥ ४५७६ ॥ अथैनामेव विवृणोति
नजइ अणेण अस्थो, णायं दिटुंत इति व एगहुँ ।
वागरणं पुण जा जस्स धम्मता होति अत्थस्स ॥ ४५७७॥ 20 ज्ञायतेऽनेन दान्तिकोऽर्थ इति ज्ञातं दृष्टान्त इति चैकार्थम् । व्याकरणं पुनर्या यस्य मोक्षादेरर्थस्य 'धर्मता' खभावस्तस्य निर्वचनम् ॥ ४५७७ ॥
अथोदकदृष्टान्तो भाव्यते-एगो साहू उब्भामगभिक्खायरियाए अन्नं गामं वच्चइ । तत्थ अंतरा गिहत्थो मिलितो । ते दो वि वच्चंता अंतरापहे उदगं उत्तिण्णा । सो अगारो गामं पविट्टो। तत्थ य तस्स भगिणी अस्थि तीए घरं पाहुणयो गतो । साहू वि भिक्खं हिंडंतोतं 25 घरं गतो । भगिणीए से पुरेकम्मं कयं । साहुणा पडिसिद्धं । कीस न गिण्हसि । साहू भणइ-उदगसमारंभो, न वट्टइ । अगारो भणति-जं मए समं पंथे उदगं उत्तिण्णो सि तं किह कप्पइ ? अहो! मायाविणो दुद्दिधम्माणो त्ति । साहू भणति-न वयं मायाविणो न वा दुद्दिधम्माणो । किन्तु
पप्पं खु परिहरामो, अप्पप्पविवजओ ण विजति हु। 30
पप्पं खलु सावजं, वजेंतो होइ अणवजो ॥ ४५७८ ॥ __ 'प्राप्यमेव' परिहत्तुं शक्यमेव वयं परिहरामः, अप्राप्यस्य-परिहर्तुमशक्यस्य मार्गक्रमायातोदकवाहकादेः विवर्जकः-परिहर्ता न विद्यते । अत एव प्राप्यं 'सावा' पुरःकर्मादिकं वर्जयन 'अनवद्यः' निदोषो भवति ॥ ४५७८ ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org