________________
10
भाष्यगाथाः ४५६७-७३) तृतीय उद्देशः ।
१२३५ "साहारणं" ति 'साधारणं' सर्वेषु मिलितेषु यद् मण्डल्यां भोजनं तन्निमित्तमितरे साधवस्तं प्रतीक्षमाणास्तिष्ठन्ति । “पडिणत्ति" ति तेन साधुना कश्चिद् ग्लानः 'प्रतिज्ञप्तः' अद्याहं भवतः प्रायोग्यमानेष्यामीति, ततस्तेन वेलाविलम्बेन यदसौ ग्लानः परितापादि प्राप्नोति तत्र चतुर्लघुकादि 'चरमं' पाराञ्चिकं यावत् प्रायश्चित्तमिति द्वारगाथासमासार्थः ॥ ४५६९ ॥ साम्प्रतमेनामेव व्याख्याति
भग्गविभग्गा गाहा, भणिइहीणा व जा तुमे भणिता।
अद्धं से करेमि अहं, तुमं से अद्ध पसाहेहि ॥४५७०॥ साधुर्भिक्षां गतः स्वपाण्डित्यख्यापनार्थ गृहस्थं पठन्तं श्रुत्वा ब्रवीति-येयं त्वया गाथा भणिता सा भग्नविभमा भणितिहीना वा कृता, यद्वा अर्धं "से" तस्या गाथाया अहं करोमि अर्धं पुनस्त्वं प्रसाधय इत्येवमभिनवा गाथा क्रियते ॥ ४५७० ॥
पोत्थगपच्चयपढियं, किं रडसे रासहु व्य असिलायं । . अकयमुह ! फलयमाणय, जा ते लिक्खंतु पंचग्गा ॥ ४५७१ ॥ पुस्तकप्रत्ययादेव भवता पठितं न गुरुमुखाद् अतः किमेतेन प्रयासेन ?, किं वा त्वमेवं रासभ इव "असिलायं" विखरमारटसि ?, यद्वा अकृतम्-अक्षरसंस्कारेणासंस्कृतं मुखं यस्यासावकृतमुखस्तस्यामन्त्रणं हे अकृतमुख ! पठितशिक्षित एव भवान् किमपि ज्ञास्यति, अतः15 'फलकं' पट्टिकामानय येन तव योग्यानि 'पञ्चाग्राणि' अक्षराणि लिख्यन्तामस्माभिः ॥ ४५७१॥ एवं भिक्षां पर्यटन् यदि विकत्थते तत इदं प्रायश्चित्तम्
लहुगादी छग्गुरुगा, तव-कालविसेसिया व चउलहुगा ।
अधिकरणमुत्तरुत्तर, एसण-संकाइ फिडियम्मि ॥ ४५७२ ॥ गाथायाम् अर्धीकारके च चतुर्लघु, पुस्तके चतुर्गुरु, अक्षरशिक्षणे षड्लघु, खररटने षड्-20 गुरु । अथवा तपः-कालविशेषिताश्चतुर्लघुकाः, तद्यथा-गाथा-ऽर्थीकारकयोस्तपः-कालाभ्यां लघुकाः, पुस्तके कालेन गुरुकाः, अक्षरेषु तपसा गुरुकाः, खररटने तपसा कालेन च गुरुकाः। 'अधिकरणं च कलहस्तेन समं भवति, 'उत्तरोत्तराः' उक्तिप्रत्युक्तीः कुर्वाणस्य च तस्य भिक्षाया देशकालः स्फिटति, तस्मिन् स्फिटिते पर्यटन्नेषणायाः प्रेरणं कुर्यात् , अकालचारिणश्च शङ्कादयो दोषा भवन्ति ॥ ४५७२ ॥
वामद्दति इय सो जाव तेण ता गहियभोयणा इयरे ।
अच्छंतें अंतरायं, एमेव य जो पडिण्णत्तो॥ ४५७३ ॥ यावदसौ तेन सममुत्तरप्रत्युत्तरिकां कुर्वन् 'व्यामृगाति' व्याक्षेपेण वेलां गमयति तावदितरे साधवो गृहीतभोजनाः सन्त आसते, ततोऽन्तरायदोषः । एवमेव च यो ग्लानः 'प्रतिज्ञप्तः' 'त्वद्योग्यं प्रायोग्यमद्य मया आनेतव्यम्' इत्यभ्यर्थितः तस्मिन्नपि तावन्तं कालं बुभुक्षिते तिष्ठति 30 तस्य साधोरन्तरायं भवति ॥ ४५७३ ॥
कालाइक्कमदाणे, होइ गिलाणस्स रोगपरिवुड्डी । १°ख्यानयति डे॥
26
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org