________________
१२३४
सनियुक्ति-लघुभाष्य-वृत्तिके बृहत्कल्पसूत्रे [अन्तर० प्रकृते सूत्रम् २० गृहे यावत् चतुर्गाथं वा पश्चगाथं वा आख्यातुं वा विभावयितुं वा कीर्तयितुं वा प्रवेदयितुं वा । एतदेवापवदन्नाह-"नऽन्नथ" इत्यादि, "न कल्पते" इति योऽयं निषेधः स एक ज्ञाताद्वा एकव्याकरणाद्वा एकगाथाया वा एकश्लोकाद्वा अन्यत्र मन्तव्यः । सूत्रे च पञ्चम्याः स्थाने तृतीयानिर्देशः प्राकृतत्वात् । तदपि च एकज्ञातादिव्याख्यानं स्थित्वा कर्तव्यम् , नैव 5 'अस्थित्वा' भिक्षां पर्यटतोपविष्टेन वा इति सूत्रार्थः ॥ अत्र विषमपदानि भाष्यकृद् विवृणोति
संहियकड्डणमादिक्खणं तु पदछेद मो विभागो उ।
सुत्तत्थोकिट्टणया, पवेतणं तप्फलं जाणे ॥ ४५६७ ॥ इह संहितायाः-अस्खलितपदोच्चारणरूपाया यद् आकर्षणं तद् आख्यानमुच्यते; तच्चेदम्10
व्रत-समिति-कषायाणां, धारण-रक्षण-विनिग्रहाः सम्यक् ।
दण्डेभ्यश्चोपरमो, धर्मः पञ्चेन्द्रियदमश्च ॥ एवं भिक्षां गतो गृहस्थानां धर्मकथनार्थ संहिताकर्षणं करोति । यस्तु पदच्छेदः “मो" इति पादपूरणे सः 'विभागः' विभावना भण्यते, यथा-व्रतानां धारणं समितीनां रक्षणं कषायाणां निग्रह इत्यादि । यत्तु सूत्रार्थकथनं सा उत्कीर्चना, सा चेयम्-व्रतानि-प्राणाति15 पातादिविरमणरूपाणि तेषां सम्यग्-अप्रमत्तेन धारणं कर्त्तव्यम् , समितयः-ईर्यासमित्यादयस्ता
सामेकाग्रचेतसा रक्षणं विधेयमित्यादि । तस्य-धर्मस्य यत् फलम् ऐहिका-ऽऽमुष्मिकलाभलक्षणं तत्परूपणं प्रवेदनं जानीयात् , यथा-भगवत्प्रणीतममुं धर्ममनुतिष्ठत इहैव भुवनवन्दनीयतायशःप्रवादादयो गुणा उपढौकन्ते, परत्र च स्वर्गा-ऽपवर्गसौख्यप्राप्तिर्भवतीति ॥ ४५६७ ॥ ___ एवं श्लोकादेराख्यानादिषु भिक्षां गतेन विधीयमानेषु दोषानाह--
एक्का वि ता महल्ली. किमंग पुण होंति पंच गाहाओ।
साहणे लहुगा आणादिदोस ते चेविमे अण्णे ॥ ४५६८ ॥ एवं संहितादिविस्तरेण व्याख्यायमाना तावदेकाऽपि गाथा 'महती' महाप्रमाणा भवति, किमङ्ग पुनः पञ्च गाथाः ? । अतो यद्येकामपि गाथां कथयति तदा चतुर्लघुका आज्ञादयश्च
दोषाः, तथा तुरङ्गमादिहृत-नष्टशङ्कादयः 'त एव' अन्तरगृहोक्ता दोषा भवन्ति, 'इमे च' 25 वक्ष्यमाणा अन्ये दोषाः ॥ ४५६८ ॥ तानेवाह
___ गाहा अद्धीकारग, पोत्थग खररडणमक्खरा चेव ।
साहारण पडिणत्ते, गिलाण लहुगाइ जा चरिमं ॥ ४५६९ ॥ भिक्षा पर्यटन कमप्यगारिणमशुद्धां गाथां पठन्तं श्रुत्वा ब्रवीति-विनाशितेयं त्वया गाथा, तथा "अद्धीकारग" ति गाथाया अर्धमहं करोमि अर्धं पुनस्त्वया कर्त्तव्यम् , "पुत्थग" त्ति 30 पुस्तकादेव भवता शास्त्रमधीतं न पुनर्गुरुमुखात्, "खररडणं" ति किमेवं खर इवारटनं करोषि ?, “अक्खरा चेव" त्ति अक्षराण्येव तावद् भवान् जानीते अतः पट्टिकामानय येनाहं भवन्तं तानि शिक्षयामि । इत्यादि ब्रुवाणो यावत् तत्र व्याक्षेपं करोति तावदिमे दोषाः१ » एतचिह्नान्तर्गतमवतरणं भा० नास्ति ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org