________________
भाष्यगाथाः ४५६०-६६] तृतीय उद्देशः ।
१२३३ आयाणगुत्ता विकहाविहीणा, अच्छण्ण छण्णे व ठिया व विट्ठा ।
अच्छंति ते संतमुहा णिविटुं, भजंति वा सेसपदे जहुत्ते ॥ ४५६४ ॥ आदानैः-इन्द्रियैर्गुप्ताः तथा विकथया-भक्तकथादिरूपया विशेषेण हस्तसंज्ञादेरपि परिहारेण हीनाः-त्यक्ताः तत्र गृहान्तरेऽच्छन्ने वा छन्ने वा प्रदेशे ऊर्द्धस्थिता उपविष्टा वा 'ते' साधवः शान्तमुखा आसते। 'निविश्य च' उपविश्य शेषाण्यपि-खाध्यायविधानादीनि यथोक्तानि । पदानि यथायोगं भजन्ते, न च दोषमापद्यन्ते ॥ ४५६४ ॥ कथम् ? इति चेद् उच्यते
थाणं च कालं च तहेव वत्थु, आसज जे दोसकरे तु ठाणे ।
ते चेव अण्णस्स अदोसवंते, भवंति रोगिस्स व ओसहाई ॥ ४५६५ ॥ 'स्थानं च' स्त्री-पशु-पण्डकसंसक्तभूभागादि 'कालं च' ऋतुबद्धादिकं तथैव 'वस्तु' तरुण-नीरोगादिकं पुरुषद्रव्यमासाद्य यान्येकस्य गृहान्तरे स्थान-निषदनादीनि स्थानानि दोष-10 कारीणि भवन्ति तान्येवान्यस्य पूर्वोक्तविपरीतस्थान-काल-पुरुषवस्तुसाचिव्याद् अदोषवन्ति भवन्ति । रोगिण इवौषधानि-यथा किल यान्यौषधान्येकस्य पित्तरोगिणो दोषाय भवन्ति तान्येवापरस्य वातरोगिणो न कमपि दोषमुपजनयन्ति, एवमत्रापि भावनीयम् ॥ ४५६५ ।।
॥ अन्तरगृहस्थानादिप्रकृतं समाप्तम् ॥
20
अन्त र गृ हा ख्या ना दि प्रकृतम् सूत्रम्
नो कप्पति निग्गंथाण वा निग्गंथीण वा अंतरगिहंसि जाव चउगाहं वा पंचगाहं वा आइक्खित्तए वा विभावित्तए वा किहित्तए वा पवेइत्तए वा; न. ऽन्नत्थ एगणाएण वा एगवागरणेण वा एगगाहाए वा एगसिलोएण वा; से वि य ठिच्चा नो चेव णं
अट्ठिच्चा २०॥ अस्य सम्बन्धमाह
अइप्पसत्तो खलु एस अत्थो, जं रोगिमादीण कता अणुण्णा । अण्णो वि मा भिक्खगतो करिजा, गाहोवदेसादि अतो तु सुत्तं ॥ ४५६६ ॥ 25 अतिप्रसक्तः खल्वेषोऽर्थः, यदनन्तरसूत्रे रोगिप्रभृतीनामन्तरगृहे स्थानादीनामनुज्ञा कृता । एवं हि तत्र स्थानादिपदानि कुर्वन् कश्चिद् धर्मकथामपि कुर्वीत, ततश्चातिप्रसङ्गो भवति, अतोऽन्योऽपि भैक्षगतो मा गाथोपदेशादिकं कार्षीदितीदं सूत्रमारभ्यते ॥ ४५६६ ॥
अनेन सम्बन्धेनायातस्यास्य व्याख्या-नो कल्पते निम्रन्थानां वा निम्रन्थीनां वा अन्तर
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org