________________
10
१२३२
अथैनामेव विवरी पुरौषध- सङ्खडिद्वारे व्याख्यानयति
सनिर्युक्ति-लघुभाष्य-वृत्तिके बृहत्कल्पसूत्रे [ अन्तर ० प्रकृते सूत्रम् १९
ग्लानस्यौषधानि पेष्टव्यानि, तत्र पेषणशिला प्रतिश्रये नेतुं न लभ्यते ततस्तेषामेवागारिणां 5 गृहान्तरे स्थित्वा तानि पिंषन्ति । औषधमार्गणार्थं वा कस्यापि गृहं गताः, स चौषधदाता तदानीं तत्राखाधीनः, अतस्तं प्रतीक्षमाणैः स्थातव्यम् । सङ्खडी च क्वापि वर्त्तते, तत्र च ‘असत्कालः' अद्यापि देशकालो न भवति, गृहखामिना चोक्तम् — प्रतीक्षध्वं क्षणमेकं यावद् वेला भवति, ततस्तस्मिन्नन्यस्मिन् वा गृहे प्रतीक्षणीयम्; अगारिणो वा तदानीं गृहाङ्गणमापूर्य भोक्तमुपविष्टाः सन्ति ततस्तान् उतिष्ठतः प्रतीक्षन्ते ॥ ४५६० ॥ सङ्घाटकद्वारमाहएगयर उभयओ वा, अलंमें आहच वा उभयलंभो । सहिं जा एगो, ता इअरो चिट्ठई दूरे ।। ४५६१ ॥
'एकतरस्य' भक्तस्य वा पानकस्य वा उभयोर्वा 'अलाभे' दुर्लभतायामित्यर्थः, “आहच्च" कदाचिदुभयमपि प्रचुरतरं लब्धम्, तेन च भाजनमापूरितम्, ततः सङ्घाटकस्य मध्याद् यावदेकः तद् भाजनं वसतिं नयति तावदितरः साधुरगारिणां दूरे भूत्वा तिष्ठति । एष चूर्ण्यभिप्रायः । [[विशेषेचूर्ण्यभिप्रायः ] पुनरयम् — भक्तस्य पानस्य वा उभयस्य वा दुर्लभस्य लाभः समुपस्थितः, मात्रकं च तस्मिन् दिने अनाभोगेन न गृहीतम् ततो यावदेको मात्रकं वसतेरानयति तावदितरस्तत्र गृहिणां दूरे तिष्ठतीति ॥ ४५६१ ॥ वर्षाद्वारमाह
15
पीसंति ओसहाई, ओसहदाता व तत्थ असहीणो । संखडि असतीकालो, उट्ठिते वा पडिच्छंति ॥ ४५६० ॥
वासासु व वासंते, अणुण्णवित्ताण तत्थऽणाबाहे ।
अंतरगिहे गिहे वा, जयणाए दो वि चिट्ठति ॥ ४५६२ ॥
20
वर्षासु वा क्वापि गृहे गतानां वर्षे वर्षति गृहस्वामिनमनुज्ञाप्य तत्रानाबाधेऽवकाशेऽन्तरगृहे वा गृहे वा 'द्वावपि' सङ्घाटकसाधू 'यतनया' विकथादिपरिहारेण तिष्ठतः ॥ ४५६२ ॥
प्रत्यनीक द्वारमाह
पडिणीय णिवे एंते, तस्स व अंतेउरे गते फिडिए ।
gure णिव्वहणाती, वाघातो एवमादीसु ॥ ४५६३ ॥
25
प्रत्यनीकं समागच्छन्तं दृष्ट्वा यावदसौ व्यतित्रजति तावदेकान्ते निलीय तिष्ठन्ति । नृपो वा सम्मुखमेति, तस्य वा नृपस्यान्तःपुरं ' गजो वा' हस्ती निर्गच्छति, ततो यावदसौ स्फिटितो भवति तावत् तत्रैवासते । “वुग्गह" चि दण्डिकौ द्विजौ वा द्वौ परस्परं विग्रहं कुर्वन्तौ समागच्छतः, "निवहणं" ति वधू-वरं तद् महता विच्छर्देन समायाति, आदिशब्देन गौष्ठिका गीतं गायन्तः समायान्ति, एवमादिषु कारणेषु 'व्याघातः' तत्रैव प्रतीक्षणलक्षणो भवति 30 ॥ ४५६३ ।। तत्र च तिष्ठतामियं यतना
Jain Education International
१ "संघाडए व ति--' एगतरे' भत्तं वा पाणं वा 'अलंमे' त्ति दुर्लभं तं च लद्धं, कदाचित् पउरलंमे वा भरितं भाणं । वस० पच्छद्धं । दूरे गंतव्वेत्यर्थः ॥” इति चूर्णिः ॥
२ “एगयर • गाहा ॥ 'एगतरे' भत्तं पाणं वा 'अलंमे' त्ति दुल्लभं तं च लद्धं, मत्तओ य ण गहिओ, ताहे मत्तगस्स आणणट्ठाए एगो तत्थ अच्छइ जाव बिइओ मत्तयं घेत्तुं एइ ॥” इति विशेषचूर्णिः ॥
For Private & Personal Use Only
www.jainelibrary.org