________________
१२३१
15
भाष्यगाथाः ४५५४-५९] तृतीय उद्देशः । एतस्मिन् द्विविधेऽपि भिक्षाद्यर्थं निर्गतस्य स्थानादि कर्तुं न कल्पते ॥ ४५५५॥
__ कुड्डंतर भित्तीए, निवेसण गिहे तहेव रच्छाए।।
ठायंतगाण लहुमा, तत्थ वि आणादिणो दोसा ॥ ४५५६ ॥ द्वयोः कुड्ययोरन्तरे, “भित्तीए" ति शटित-पतितस्याभिनवक्रियमाणस्य वा गृहस्य भित्तौ, 'निवेशने वा' त्रिप्रभृतीनां गृहाणामाभोगे, "गिहि" ति गृहपाश्र्वे, 'स्थयायां' प्रतीतायाम् । एतेषु स्थानेषु तिष्ठतश्चतुर्लघुकाः, तत्राप्याज्ञादयो दोषा मन्तव्याः, तन्निमित्तं प्रायश्चित्तं पृथग् भवतीति भावः ॥ ४५५६ ॥ तथा
खरए खरिया सुण्हा, गढे वक्खुरे व संकिजा ।
खण्णे अगणिकाए, दारे वति संकणा तिरिए ॥ ४५५७॥ 'खरकः' दासः : 'खरिका' दासी 'स्नुषा' वधूः 'वृत्तखुरः' तुरङ्गमः, एतेषु नष्टेषु साधुः 10 शङ्कयेत—यः श्रमणकः कल्येऽत्र गृहान्तरे उपविष्ट आसीत् तेन हृतं भविष्यति, द्वारे वा श्रमणेनोद्घाटिते स्तेनः प्रविश्य हृतवानिति । "खन्नि" त्ति खत्रं केनचित् खातम् दत्तमित्यर्थः, अग्निकायो वा केनापि दत्तो भवेत् , द्वारेण वा प्रविश्य वृति वा छित्त्वा केनापि सुवर्णादिकमपहृतं स्यात् , तिर्यग्योनीयो वा गो-महिषीप्रभृतिको हतो भवेत् , तत्रापि शङ्कायां ग्रहणा ऽऽकर्षणादयों दोषाः । यत एवमतो गृहान्तरे न स्थातव्यम् ॥ ४५५७ ।। अथ सूत्रोक्तं द्वितीयपदं भावयति
उच्छुद्धसरीरे वा, दुब्बल तवसोसिते व जो होजा।
थेरे जुण्ण-महल्ले, वीसंभणवेस हतसंके ।। ४५५८॥ उच्छुद्धं-रोगाघ्रातं शरीरं यस्य स उच्छुद्धशरीरः, वाशब्द उत्तरापेक्षया विकल्पार्थे, 'दुर्बलः' अधुनोत्थितग्लानः, 'तपःशोषितो वा' विकृष्टतपोनिष्टप्तदेहो यो भवेत् , यो वा 20 स्थविरः 'जीर्णः' षष्टिवर्षातिक्रान्तजन्मपर्यायः सोऽपि यदि 'महान्' सर्वेभ्योऽपि वृद्धतरः, एते विश्रामग्रहणार्थ गृहान्तरे तिष्ठेयुः । इह च व्याधितादय उत्सर्गतो भिक्षाटनं न कार्यन्ते, परम् आत्मलब्धिकादिकारणापेक्षया भिक्षामटतां प्रकृतसूत्रावतारो मन्तव्यः । स च व्याधितादिः 'विश्रम्भणवेषः' संविमवेषधारी 'हतशङ्कश्च' हास्यादिविकारविकलतया असम्भावनीयव्यलीकशङ्कः सन् तत्र स्थानादीनि पदानि कुर्यात् ॥ ४५५८ ।।
25 अहवा ओसहहेङ, संखडि संघाडए व वासासु ।
वाघाए वा तत्थ उ, जयणाए कप्पती ठातुं ॥४५५९ ॥ सूत्रोक्तस्तावदपवादो दर्शितः, अथार्थतः प्रकारान्तरेणाप्युच्यते इत्यथवाशब्दार्थः । औषधहेतोर्दातारं गृहेऽस्वाधीनं प्रतीक्षते, सङ्खड्यां वा यावद् वेला भवति, सङ्घाटकसाधुर्वा यावद् भक्त-पानभृतं भाजनं वसतौ विमुच्य समागच्छति, वर्षांसुः वा गृहं प्रविष्टानां वर्षे 30 निपतेत् , वधू-वराद्यागमनेन वा रथ्यायां व्याघातो भवेत् तावत् तत्रैव गृहान्तरे 'यतनया' । वक्ष्यमाणया स्थातुं कल्पते । एवं द्वारगाथासमासार्थः ॥ ४५५९ ॥
१°ष समाहगाथासमासार्थः ॥ ३५५९ ॥ अथैनामेव प्रतिपदं विवृणोति-पीसंति भा० ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org