SearchBrowseAboutContactDonate
Page Preview
Page 365
Loading...
Download File
Download File
Page Text
________________ १२३० सनियुक्ति-लघुभाष्य-वृत्तिके बृहत्कल्पसूत्रे [अन्तर० प्रकृते सूत्रम् १९ अन्त र गृह स्था ना दि प्रकृतम् सूत्रम् नो कप्पति निग्गंथाण वा निग्गंथीण वा अंतरगि. हंसि चिहित्तए वा निसीयत्तए वा जाव काउस्सग्गं का ठाणं ठाइत्तए। अह पुण एवं जाणिज्जा-वाहिए जराजुण्णे तवस्सी दुब्बले किलंते मुच्छिज वा पवडिज वा, एवं से कप्पइ अंतरगिहंसि चिहित्तए वा जाव ठाणं ठाइत्तए १९ ॥ अस्य सूत्रस्य का सम्बन्धः ? इत्याह राइणिओ य अहिगतो, स चावि थेरो अणंतरे सुत्ते । तस्संतराणि कप्पंति चिट्ठणादीणि संबंधों ।। ४५५४ ॥ वस्त्रपरिभाजनसूत्रादारभ्य पूर्वसूत्रेषु 'रात्रिकोऽधिकृतः' रत्नाधिकस्याधिकारोऽनुवर्तते । 'सचापि' रात्निकः कृतिकर्मसूत्रादनन्तरस्मिन् सूत्रे शय्यासंस्तारकविषये 'स्थविरः' षष्टिवर्षपर्याय उक्तः । उपलक्षणमिदम् , तेन ग्लानस्तपखी च यः पूर्व रातिकतया व्याख्यातः सोऽप्यत्राधि15 क्रियते । 'तस्य च' स्थविरादेः 'आन्तराणि' गृहद्वयान्तरालभावीनि स्थानादीनि कर्तुं कल्पन्ते, न शेषस्य तरुणादेः समर्थशरीरस्येत्येतदत्र सूत्रे प्रतिपाद्यते ॥ ४५५४ ॥ अनेन सम्बन्धेनायातस्यास्य व्याख्या-नो कल्पते निर्ग्रन्थानां वा निर्ग्रन्थीनां वा 'अन्तरगृहे' गृहस्य गृहयोर्वा अन्तराले, राजदन्तादित्वाद् आर्षत्वाद् वा अन्तरशब्दस्य पूर्वनिपातः, स्थातुं वा निषत्तुं वा; यावरकरणात् त्वग्वर्तयितुं वा निद्रायितुं वा प्रचलायितुं वा, अशनं वा पानं 20 वा खादिमं वा खादिमं वा [ आहारं ] आहर्तुम् , उच्चारं वा प्रश्रवणं वा खेलं वा सिंचानं वा परिष्ठापयितुम् , खाध्यायं वा कर्तुम् , ध्यानं वा ध्यातुम् , “काउस्सग्गं" ति कायोत्सर्गलक्षणं वा स्थानं 'स्थातुं' कर्तुम् । सूत्रेणैवापवादं दर्शयति-अथ पुनरेवं जानीयात् “वाहिए" इत्यादि 'व्याधितः' ग्लानः 'जराजीर्णः' स्थविरः 'तपखी' क्षपकः 'दुर्बलः' ग्लानत्वादधुनैवोस्थितोऽसमर्थशरीरः, एतेषां मध्यादन्यतमस्तपसा भिक्षापर्यटनेन वा 'क्लान्तः' परिश्रान्तः सन् 25 मूर्च्छदा प्रपतेद्वा; एवं कारणमुद्दिश्य कल्पते अन्तरगृहे स्थातुं वा यावत् कायोत्सर्ग वा कर्तुमिति सूत्रार्थः ॥ अथ भाष्यविस्तरः-- ‘सम्भावमसब्भावे, दुण्ह गिहाणंतरं तु सम्भावे । पास पुरोहड अंगण, मज्झम्मि य होतऽसब्भावं ॥ ४५५५ ॥ गृहान्तरं द्विधा-सद्भावतोऽसद्भावतश्च । द्वयोर्गृहयोर्यद 'अन्तरं' मध्यं तत् सद्भावगृहा30न्तरम् । यत्तु गृहस्य पार्श्वतः पुरोहडेऽङ्गणे गृहमध्ये वा तद् असद्भावगृहान्तरं भवति । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002513
Book TitleAgam 35 Chhed 02 Bruhatkalpa Sutra Part 04
Original Sutra AuthorBhadrabahuswami
AuthorChaturvijay, Punyavijay
PublisherAtmanand Jain Sabha
Publication Year2002
Total Pages444
LanguageSanskrit, Prakrit
ClassificationBook_Devnagari, Agam, Canon, & agam_bruhatkalpa
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy