________________
भाष्यगाथाः ४५४७-५३ ]
तृतीय उद्देशः ।
परिवारो से सुविहितों, परिसगतो साहती व वेरगं । माणी दारुणभावो, णिसंस पुरिसाधमो पुरिसो ॥। ४५५१ ।। लोगपगतो निवे वा, अहवण रायादिदिक्खितो होजा । खित्तं विमादि अभावियं व कालो यऽणाकालो ।। ४५५२ ॥
“से” तस्य पार्श्वस्थादेर्यः परिवारः सः 'सुविहितः' विहितानुष्ठानयुक्तो वर्त्तते । 'पर्षदि 5 गतो वा' सभायामुपविष्टः 'वैराग्यम्' इति कारणे कार्योपचारात् संसारवैराग्यजनकं धर्म स कथयति येन प्रभूताः प्राणिनः संसारविरक्तचेतसः सञ्जायन्ते । तथा कश्चित् पार्श्वस्थादिः स्वभावादेव ‘मानी' साहङ्कारः तथा 'दारुणभावः ' रौद्राध्यवसायः 'नृशंसो नाम' क्रूरकर्मा अवन्द्यमानो वध-बन्धादिकं कारयतीत्यर्थः, अंत एव पुरुषाणां मध्येऽधमः पुरुषाधमः एतादृशः पुरुष इह गृह्यते ॥ ४५५१ ॥
Jain Education International
१२२९
यद्वा ‘लोकप्रकृतः” बहुलोकसम्मतः, 'नृपप्रकृतो वा' धर्मकथा दिलब्धिसम्पन्नतया राजबहुमतः, “अहवण” त्ति अथवा राजादिदीक्षितोऽसौ शैलकाचार्यादिवद् एवंविधः पुरुष इह प्रतिपत्तव्यः । क्षेत्रं नाम विहादिकमभावितं वा । विहं - कान्तारम्, आदिशब्दात् प्रत्यनी - काद्युपद्रवयुक्तम्, तत्र वर्तमानानां साधून / मसावुपग्रहं करोति । 'अभावितं नाम' संविग्नसाधुविषयश्रद्धाविकलम्, पार्श्वस्थादिभावितमित्यर्थः, तत्र तेषामनुवृत्तिं विदधानैः स्थातव्यम् । 15 कालश्च " अणागालो" दुष्काल उच्यते, तत्र साधूनां वर्त्तापनं करोति । एवं परिवारादीनि कारणानि विज्ञाय कृतिकर्म विधेयम् ॥ ४५५२ ॥ आगमग्रहणेन च द्वारगाथायां दर्शन - ज्ञानादिको भावः सूचितः, अतस्तमङ्गीकृत्य विधिमाह—
दंसण - नाण-चरित्तं तव विषयं जत्थ जत्तियं जाणे । जिणपन्नत्तं भत्तीइ पूयए तं तहिं भावं ।। ४५५३ ॥
दर्शनं च - निःशङ्कितादिगुणोपेतं सम्यक्त्वं ज्ञानं च- आचारादि श्रुतं चारित्रं च-मूलोत्तरगुणानुपालनात्मकं दर्शन -ज्ञान- चारित्रम्, द्वन्द्वैकवद्भावः । एवं तपश्च- अनशनादि विनयश्वअभ्युत्थानादिः तपो-विनयम् । एतद् दर्शनादि 'यत्र' पार्श्वस्थादौ पुरुषे 'यावद्' यत्परिमाणं खल्पं बहु वा जानीयात् तत्र तमेव भावं जिनप्रज्ञप्तं स्वचेतसि व्यवस्थाप्य तावत्यैव 'भक्तत्या ' कृतिकर्मादिलक्षणया पूजयेत् ॥ ४५५३ ॥
25
॥ कृतिकर्मप्रकृतं समाप्तम् ॥
ܕ
१ °ति ॥ ४५५२ ॥ एवमादौ कारणे किं विधेयम् ? इत्याह- दंस भा० ॥
For Private & Personal Use Only
10
20
www.jainelibrary.org