________________
१२२८
सनिर्युक्ति-लघुभाष्य-वृत्तिके बृहत्कल्पसूत्रे [कृतिकर्मत्रकृते सूत्रम् १८
मन्यमानः सुखशीलविहारितां परिहरति । " इय" एवंविधमपि कारणमवलम्ब्य परिहार्यः कृतिकर्मणि सुखशीलजनः, न केवलं पूर्वोक्तं दोषजालमाश्रित्येत्यपिशब्दार्थः । अपि च तस्य कृतिकर्मणि विधीयमाने तदीयायाः सावद्यक्रियाया अप्यनुमतिः कृता भवति, अतः सा मा भूदिति बुद्ध्याऽपि न वन्दनीयोऽसौ || ४५४६ ॥ किञ्च—
लोए वेदे समए, दिट्ठो दंडो अकजकारीणं । [ आव.नि. १६०५ ] दम्मंति दारुणा वि हु, दंडेण जहावराहेण ॥। ४५४७ ।।
'लोके' लोकाचारे 'वेदे' समस्तदर्शनिनां सिद्धान्ते 'समये' राजनीतिशास्त्रे 'अकार्यकारिणां ' चौरिकाद्यपराधविधायिनां ‘दण्ड : ' असम्भाव्यता - शलाका - निर्यूहणादिलक्षणः प्रयुज्यमानो दृष्टः । कुतः पुनरसौ प्रयुज्यते ? इत्याह – 'दारुणाः' रौद्रास्तेऽपि 'यथापराधेन' अपराधानुरूपेण 10 दण्डेन दीयमानेन 'दम्यन्ते' वशीक्रियन्ते । अत इहापि मूलगुणाद्यपराधकारिणां कृतिकर्मवर्जनादिको दण्डः प्रयुज्यते । एतच्च कारणाभावमङ्गीकृत्योक्तम्, कारणे तु वाइनमस्कारादिकं वन्दनकपर्यन्तं सर्वमपि कर्तव्यम् ॥ ४५४७ ॥ यत आह
वायाए कम्मुणावा, तह चिट्ठति जह ण होति से मनुं । पस्सति जतो अवायं, तदभावे दूरतो वजे ।। ४५४८ ॥
15 'यतः' पार्श्वस्थादेः सकाशात् कृतिकर्मण्यविधीयमाने 'अपायं' संयमा - ऽऽत्मविराधनादिकं पश्यति तं प्रति 'वाचा' मधुरसम्भाषणादिना 'कर्मणा' शिरः प्रणामक्रियया तथा चेष्टते यथा तस्य 'मन्युः ' स्वल्पमप्यप्रीतिकं न भवति । अथावन्दनेऽपि संयमोपघातादिरपायो न भवति ततस्तस्य- अपायस्याभावे दूरतस्तं सुखशीलजनं वर्जयेत्, एष विषयविभागः कृतिकर्मकरणाSकरणयोरिति भावः ॥ ४५४८ ॥ न पुनस्तेषां वन्दने कारणानीत्याह
एताइँ अकुव्वतो, जहारिहं अरिहदेसिए मग्गे ।
5
20
ण भवति पवयणभत्ती, अभत्तिमता दिया दोसा ।। ४५४९ ।। ‘एतानि' वाङ्नमस्कारादीनि पार्श्वस्थादीनां 'यथाऽर्ह' यथायोग्यमर्हद्देशिते मार्गे स्थितः सन् कषायोत्कटतया यो न करोति तेन प्रवचने भक्तिः कृता न भवति, किन्तु अभक्तिमत्त्वादयो दोषा भवन्ति; तत्राऽऽज्ञाभङ्गेन भगवतामभक्तिमत्त्वं भवति, आदिशब्दात् स्वार्थपरिभ्रंशः 26 चारिक - हेरिकाद्यभ्याख्यानप्राप्तिः बन्धनादयश्च दोषा भवन्ति ॥ ४५४९ ॥
पुनस्तेषां वन्दने कारणानि ? इत्याह
परिवार परिस पुरिसं, खित्तं कालं च आगमं नाउं ।
कारणजाते जाते, जहारिहं जस्स कायव्वं ॥ ४५५० ।।
परिवारं पर्षदं पुरुषं क्षेत्रं कालं च आगमं ज्ञात्वा तथा कारणानि - कुल-गणादिप्रयोजनानि 20 तेषां जातं - प्रकारः कारणजातं तत्र 'जाते' उत्पन्ने सति 'यथार्ह' यस्य पुरुषस्य यद वाचिकं कायिकं वा वन्दनमनुकूलं तस्य तत् कर्त्तव्यम् ॥ ४५५० ॥
अथ परिवारादीनि पदानि व्याचष्टे
किञ्च - परिवार भा० ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org