________________
भाष्यमाथाः ४५३१-१६] तृतीय उद्देशः ।
• १२२७ कुशलेन गणाधिपतिना ‘एवं' वक्ष्यमाणप्रकारेण सुखशीलाना-पार्श्वस्थादीनां गवेषणा कार्य ॥ ४५४२ ॥ तत्र येषु स्थानेषु कर्तव्या तानि दर्शयति
बाहिं आगमणपहे, उजाणे देउले सभाए वा।
रच्छ उवस्सय बहिया, अंतो जयणा इमा होइ ॥ ४५४३ ॥ यत्र ते ग्राम-नगरादौ तिष्ठन्ति तस्य बहिः स्थितो यदा तान् पश्यति तदा निराबाधवाना । गवेषयति । यदा वा ते भिक्षाचर्यादौ तत्रागच्छन्ति तदा तेषामागमनपथे स्थित्वा गवेषणं करोति । एवमुद्याने दृष्टानाम् , चैत्यवन्दननिमित्तं गतैर्देवकुले वा समवसरणे वा दृष्टानाम् , रथ्यायां वा भिक्षामटतामभिमुखागमने मिलितानां वार्ता गवेषणीया । कदाचित् ते पार्श्वस्थादयो ब्रवीरन्---अस्माकं प्रतिश्रयं कदाऽपि नागच्छत; ततस्तदनुवृत्त्या तेषां प्रतिश्रयमपि गत्वा तत्रोपाश्रयस्य बहिः स्थित्वा सर्वमपि निराबाधतादिकं गवेषयितव्यम् । अथ गाढतरं निर्बन्धं ते 10 कुर्वन्ति तत उपाश्रयस्य 'अन्तः' अभ्यन्तरतोऽपि प्रविश्य गवेषयतां साधूनाम् 'इयं' वक्ष्यमाणा पुरुषविशेषवन्दनविषया यतना भवति ॥ ४५४३ ॥ पुरुषविशेषं तावदाह
मुकधुरा संपागडअकिच्चे चरण-करणपरिहीणे । [आव.नि. ११२६]
लिंगावसेसमित्ते, जं कीरइ तारिसं वोच्छं ॥ ४५४४ ॥ धूः-संयमधुरा सा मुक्ता-परित्यक्ता येन स मुक्तधुरः, सम्प्रकटानि-प्रवचनोपघातनिरपेक्ष-15 तया समस्तजनप्रत्यक्षाणि अकृत्यानि-मूलोत्तरगुणप्रतिसेवनारूपाणि यस्य स सम्प्रकटाकृत्यः, अत एव चरणेन-व्रतादिना करणेन च-पिण्डविशुद्ध्यादिना परिहीनः, एतादृशे 'लिङ्गावशेषमात्रे' केवलद्रव्यलिङ्गयुक्ते 'यद्' यादृशं वन्दनं क्रियते तादृशमहं वक्ष्ये ॥ ४५४४ ॥
वायाएँ नमोकारो, हत्थुस्सेहो य सीसनमणं च । [आव.नि. ४३७२] __संपुच्छणऽच्छणं छोभवंदणं वंदणं वा वि ॥ ४५४५॥ बहिरागमनपथाद्विषु दृष्टस्य पावस्थादेर्वाचा, नमस्कारः क्रियते, 'वन्दामहे भवन्तं वयम्' इत्येवमुच्चार्यत इत्यर्थः । अथासौ विशिष्टतर उग्रतरखभावो वा ततो वाचा नमस्कृत्य 'हस्तोसेधम्' अञ्जलिं कुर्यात् । ततोऽपि विशिष्टतरेऽत्युग्रखभावे वा द्वावपि वाङ्नमस्कार-हस्तोत्सेधौ कृत्वा तृतीयं शिरःप्रणामं करोति । एवमुत्तरोत्तरविशेषकरणे पुरुष-कार्यभेदः प्राक्तनोपचारानुवृत्तिश्च द्रष्टव्या । "संपुच्छणं" ति पुरतः स्थित्वा भक्तिमिव दर्शयता शरीरवार्चायाः सम्प्र-25 च्छनं कर्त्तव्यम् , कुशलं भवतां वर्तत इति । "अच्छणं" ति शरीरवाता प्रश्नयित्वा क्षणमात्रं पर्युपासनम् । अथवा पुरुषविशेष ज्ञात्वा तदीयं प्रतिश्रयमपि गत्वा छोभवन्दनं सम्पूर्ण वा वन्दनं दातव्यम् ॥ ४५४५ ॥ अथ किमर्थं प्रथमतो वाचैव नमस्कारः क्रियते ? कारणाभावे का किमिति मूलत एव कृतिकर्म न क्रियते ? इत्याशङ्कयाह
ज़ह नाम सूइओ मि, ति वजितो वा वि परिहरति कोयी। 30
इति वि हु सुहसीलजणो, परिहजो अणुमती मा सा॥४५४६॥ यदि नाम कश्चित् पार्श्वस्थादिर्वाङ्नमस्कारमात्रकरणेन अहो ! 'सूचितः' तिरस्कृतोऽह्ममुना मजयन्तरेणेति, सर्वथा कृतिकर्माकरणेन वा 'वर्जितः' परित्यक्तोऽहममीभिरिति पराभवं
20
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org