SearchBrowseAboutContactDonate
Page Preview
Page 361
Loading...
Download File
Download File
Page Text
________________ १२२६ सनियुक्ति-लघुभाष्य-वृत्तिके बृहत्कल्पसूत्रे [कृतिकर्मप्रकृते सूत्रम् १८ स्तेऽपि तत्र गताः, तं चाजारक्षणप्रवृत्तं भ्रष्टव्रतं दृष्ट्वा 'अद्रष्टव्योऽयम्' इति विमृश्यागीतार्थत्वेन शनैः शनैरवष्वष्कन्ति । ताँश्च तथा दृष्ट्वा वाचकस्य शङ्का-किमेतेऽपसर्पन्ति ? इति, नूनं मां भ्रष्टव्रतं ज्ञात्वा । ततः शङ्काच्छेदी स वाचकः कुपितः सन् पल्लीपतेः कथयित्वा तेषामगीतार्थानां "रुम्भणं" गुप्तौ प्रक्षेपणं कृतवान् । ततस्तदन्वेषणार्थ गुरूणां तत्रागमनम् । ते च 5 तं वाचकं वन्दित्वा 'शिक्षकाः' अगीतार्था एते इत्याद्युक्त्वा खशिष्यान् मोचितवन्तः । एवं श्रेणिबाह्यानामपि वन्दनकं कर्तव्यम् ॥ ४५३७ ॥ ४५३८ ।। अथ "सीस" ति पदं प्रकारान्तरेण व्याचष्टे __ अहवा लिंग-विहाराओं पच्चयं पणिवयत्तु सीसेणं । ___ भणति रहे पंजलिओ, उज्जम भंते ! तव-गुणेहिं ॥ ४५३९ ॥ 10 अथवा लिङ्गाद् वा संविमविहाराद् वा प्रच्युतं खगुरुं रहसि शीर्षेण प्रणिपत्य 'प्राञ्जलिकः' रचिताञ्जलिपुटो भणति-भदन्त ! प्रसादं विधाय उद्यच्छ तपो-गुणेषु, अनशनादौ तपःकर्मणि मूलगुणोत्तरगुणेषु च प्रयत्नं कुर्विति भावः । एवमादिके कारणे श्रेणिबाह्यानामपि 'कृतिकर्म' वन्दनकं कर्तव्यम् ॥ ४५३९ ॥ अथ न करोति तत इदं प्रायश्चित्तम् उप्पन्न कारणम्मि, कितिकम्मं जो न कुज दुविहं पि । पासत्थादीयाणं, उग्घाया तस्स चत्तारि ॥४५४०॥ ___ उत्पन्ने वक्ष्यमाणे कारणे यः कृतिकर्म 'द्विविधमपि' अभ्युत्थान-वन्दनकरूपं पार्श्वस्थादीनां न कुर्यात् तस्य चत्वार उद्धाता मासा भवन्ति, चतुर्लघुकमित्यर्थः ॥४५४०॥ शिष्यः प्राह दुविहे किइकम्मम्मि, वाउलिया मो णिरुद्धबुद्धीया । आतिपडिसेहितम्मि, उवरि आरोवणा गुविला ॥ ४५४१॥ 20 एवं 'द्विविधे' अभ्युत्थान-वन्दनलक्षणे कृतिकर्मणि पूर्व प्रतिषिध्य पश्चादनुज्ञाते सति 'व्याकुलिताः' आकुलीभूता वयम् , अत एव निरुद्धा-संशयक्रोडीकृता बुद्धिर्येषां ते निरुद्धबुद्धिकाः सञ्जाता वयम् । कुतः ? इत्याह-आदौ-प्रथमं प्रतिषिद्धं-'द्विविधमपि कृतिकर्म न वर्त्तते पार्श्वस्थादीनां कर्तुम्' आरोपणा च महती तत् कुर्वतो निर्दिष्टा; “उवरि" ति इदानीं पुनस्तेषां वन्दनकमप्रयच्छतो या चतुर्लघुकाल्या आरोपणा प्रतिपाद्यते सा 'गुपिला' गम्भीरा, 28 नास्या भावार्थ वयमवबुध्यामहे इति भावः ॥ ४५४१ ॥ सूरिराह-उत्सर्गतो न कल्पते पार्श्वस्थादीन् वन्दितुम् , परम् गच्छपरिरक्खणट्ठा, अणागतं आउवायकुसलेण । एवं गणाधिवतिणा, सुहसीलगवेसणा कजा ॥ ४५४२॥ अवम-राजद्विष्टादिषु म्लानत्वे वा यदशन-पानाद्युपग्रहकरणेन गच्छस्य परिपालनं तदर्थम् 50 'अनागतम्' अवमादिकारणे अनुत्पन्न एव 'आयोपायकुशलेन' आयो नाम-पार्श्वस्थादेः पाद् निःप्रत्यूहसंयमपालनादिको लाभः उपायो नाम-तथा कथमपि करोति यथा तेषां वन्दनकमददान एव शरीरवार्ता गवेषयति; न च तथा क्रियमाणे तेषामप्रीतिकमुपजायते प्रत्युत खचेतसि ते चिन्तयन्ति-अहो! एते स्वयं तपस्विनोऽपि एवमलासु नियन्ति; तत एतयोरायोपाययोः Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002513
Book TitleAgam 35 Chhed 02 Bruhatkalpa Sutra Part 04
Original Sutra AuthorBhadrabahuswami
AuthorChaturvijay, Punyavijay
PublisherAtmanand Jain Sabha
Publication Year2002
Total Pages444
LanguageSanskrit, Prakrit
ClassificationBook_Devnagari, Agam, Canon, & agam_bruhatkalpa
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy