________________
भाष्यगाथाः ४५३१-३८] तृतीय उद्देशः ।
१२२५ जना भक्तव्या भवन्ति-गच्छप्रतिवद्धयथालन्दिकाः “आवन्न" ति आपत्रपरिहारिकाः प्रतिमाप्रतिपन्नाः संयत्यश्चेति । यदा सङ्घः कुलादिकार्य कर्तुं न शक्नोति तत एतेऽपि कुर्वन्तीति । वन्दनकार्य तु गच्छप्रतिबद्धयथालन्दिका यस्याचार्यस्य पार्श्वे सूत्रार्थग्रहणं कुर्वते तस्यावमस्यापि कुर्वन्ति, शेषसाधूनां तु न कुर्वन्ति । आपन्नपरिहारिणां प्रतिमाप्रतिपन्नानां संयतीनां च कृतिकर्म क्रियते वा न वा, तेऽपि कुर्वन्ति वा न वेति ।। ४५३४ ॥ इदमेव सविशेषमाह-5
अंतो वि होइ भयणा, ओमे आवण्ण संजतीओ य ।
बाहिं पि होइ भयणा, अतिवालगवायगे सीसा ॥ ४५३५॥ 'अन्तरपि' श्रेणेरभ्यन्तरतः स्थितानामपि वन्दनकं प्रतीत्य भजना भवति । कथम् ? इत्याह-"ओमि" ति योऽवमरानिकः स आलोचनादौ कार्ये वन्द्यते, अन्यदा तु नेति । "आवन्नि" ति आपन्नपरिहारिको न वन्द्यते, स पुनराचार्यान् वन्दते । “संजईउ" ति संय-10 त्योऽपि उत्सर्गतो न वन्द्यन्ते, अपवादपदे तु यदि बहुश्रुता महत्तरा काचिदपूर्वश्रुतस्कन्धं धारयति ततस्तस्याः सकाशात् तत्र ग्रहीतव्ये उद्देश-समुद्देशादिषु सा फेटावन्दनकेन वन्दनीया। न केवलमन्तः किन्तु श्रेणेर्बहिरपि स्थितानां कृतिकर्मणि भजना मन्तव्या, कारणे तेषामपि कृतिकर्म विधेयमिति भावः । अथ न कुर्वन्ति ततो महान् दोषो भवति, यथा अजापालकवाचकमवन्दमाना अगीतार्थाः शिष्या दोषं प्राप्तवन्त इति वाक्यशेषः । अथवा “सीस" ति15 संविमविहाराद् लिङ्गाद्वा परिच्युतं स्वगुरुं रहसि शीर्षेण प्रणम्य वक्तव्यम्-भगवन् ! युष्माभिः परित्यक्ताः सन्तः साम्प्रतमनाथा वयम् , अतः कुरुतोद्यमं भूयश्चरणकरणानुपालनायामिति ॥ ४५३५ ॥ अथ "ओमे आवण्ण संजईओ" ति गाथावयवं विवृणोति
आलोयण-सुत्तट्टा, खामण ओमे य संजतीसुं च।
आवण्णों कजकजं, करेइ ण य वंदती अगुरुं ॥ ४५३६ ॥ 20 आलोचनानिमित्तं सूत्रार्थग्रहणार्थ चावमस्यापि वन्दनकं दातव्यम् । क्षामणके तु स एव । रत्नाधिकानां वन्दनकं दद्यात् । संयतीनामप्यालोचना-सूत्रार्थनिमित्तं कृतिकर्म कर्त्तव्यम् । यः पुनरापन्नपरिहारिकः सः 'कार्यकार्य' कुलकार्यादि करोति । "अगुरुं" ति गुरुं मुक्त्वा न कमपि साधु वन्दते । उपलक्षणमिदम् , तेन न चासौ केनापि साधुना वन्द्यते ॥ ४५३६ ॥ अथ अजापालकदृष्टान्तमाह
पेसविया पचतं, गीतासति खित्तपेहग अगीया। पेहियखित्ता पुच्छंति वायगं कत्थ रण्णे ति ॥ ४५३७॥ ओसकते द९, संकच्छेती उ वातगो कुविओ ।
पल्लिवति कहण रुंभण, गुरु आगम वंदणं सेहा ॥ ४५३८ ॥ केनचिदाचार्येण गीतार्थाभावेऽगीतार्थाः साधवः प्रत्यन्तपळ्या क्षेत्रप्रत्युपेक्षकाः प्रेषिताः। 30 तत्र च भ्रष्टव्रत एको वाचको राजकुले यत्कृतप्रमाणः परिवसति । ते च प्रत्युपेक्षितक्षेत्राः साधवस्तं वाचकं लोकस्य समीपे पृच्छन्ति-कुत्रासौ तिष्ठति । । लोकेनोक्तम्-अरण्ये । तत१°हारिक प्रतिमाप्रतिपन्नसाधु-संयतीनां तु कृति भा० ॥
25
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org