________________
१२२४
सनियुक्ति-लघुभाष्य-वृत्तिके बृहत्कल्पसूत्रे [कृतिकर्मप्रकृते सूत्रम् १८ अथापुष्टाल बनो निरालम्बनो वा प्रतिसेवते ततः संसारोपनिपातमासादयति, तथा चात्र दृष्टान्तमाह
तुच्छमवलंबमाणो, पडति णिरालंबणो य दुग्गम्मि ।
सालंब-निरालंबे, अहं दिटुंतो णिसेवंते ॥ ४५३१ ॥ • इहालम्बनं द्रव्य-भावभेदाद् द्विधा । तत्र गर्गदौ पतद्भिर्यद् द्रव्यमालम्ब्यते तद् द्रव्यालम्बनम् । तच्च द्विधा-पुष्टमपुष्टं च । अपुष्टं-दुर्बलं कुश-बल्ककादि, पुष्टं-बलिष्ठं तथाविधकठोरवल्यादि । एवं भावालम्बनमपि पुष्टा-ऽपुष्टभेदाद् द्विधा । पुष्टं तीर्थाव्यवच्छित्ति-ग्रन्थाध्ययनादि, अपुष्टं शठतया खमतिमात्रोत्प्रेक्षितमालम्बनमात्रम् । ततश्च द्रव्यालम्बनं 'तुच्छम्'
अपुष्टमवलम्बमानो निरालम्बनो वा यथा 'दुर्गे' गर्तादौ पतति, यस्तु पुष्टालम्बनमवलम्बते स 10 सुखेनैवात्मानं गर्तादौ पतन्तं धारयति, एवं सांधोरपि मूलगुणाद्यपराधान् निषेवमाणस्य साल
म्ब-निरालम्ब विषयः 'अथ' अयं दृष्टान्तो मन्तव्यः । किमुक्तं भवति ?-यो निरालम्बनोऽपुष्टालम्बनो वा प्रतिसेवते स आत्मानं संसारगायां पतन्तं न सन्धारयितुं शक्नोति, यस्तु पुष्टालम्बनः स तदवष्टम्भादेव संसारगर्ता सुखेनैवातिलङ्घयति । यत एवमतः पुष्टालम्बनवर्जितः कृतिकर्मणि वर्जनीय इति ॥ ४५३१ ॥ अथ श्रेणिस्थानस्थिता अपि ये कृतिकर्मणि नियमेन 1b भजनया चा न व्यवहियन्ते तान् प्रतिपादयति
सेढीठाणे सीमा, कजे चत्तारि बाहिरा होति ।
सेढीठाणे दुयमेययाएँ चत्तारि भइयव्वा ॥ ४५३२ ॥ श्रेणिस्थानं सीमास्थानमित्यनान्तरम् , तत्र वर्तमाना अपि 'चत्वारो जनाः' प्रत्येकबुद्धादयो वक्ष्यमाणाः कार्ये बाह्या भवन्ति । इह कार्य द्विधा-वन्दनकार्य कार्यकार्य च। तत्र वन्दनकायें 20 द्विधा-अभ्युत्थानं कृतिकर्म च । कार्यकार्य कुलकार्यादिभेदादनेकविधम् , कार्यम्-अवश्यकर्तव्यरूपं यत् कार्य तत् कार्यकार्यमिति व्युत्पत्तेः । एतद् द्विविधमपि प्रत्येकबुद्धादयो न कुर्वन्तीति भावः । तथा श्रेणिस्थाने वर्तमाना अपि गच्छप्रतिबद्धयथालन्दिकादयश्चत्वारो जनाः "दुयभेदयाए" ति द्विकभेदम् अनन्तरोक्तकार्यद्वयविधानमङ्गीकृत्य भक्तव्याः, तत्र व्यवह्रियन्ते वा न वेति भावः ॥ ४५३२ ॥ इदमेव स्फुटतरमाह
पत्तेयबुद्ध जिणकप्पिया य सुद्धपरिहारऽहालंदे । [ओ.नि. १२६]
एए चउरो दुगभेदयाएँ कजेसु बाहिरगा ॥४५३३ ॥ प्रत्येकबुद्धा जिनकल्पिकाः शुद्धपरिहारिणो अप्रतिबद्धयथालन्दिकाश्च, एते चत्वारो जना द्विकभेदान्तर्गतेषु कृतिकर्म-कुलकार्यादिषु कार्येषु बाह्या भवन्ति, न तद्विषयं व्यवहारपथमवतरन्तीति भावः ॥ ४५३३ ॥
गच्छम्मिणियमकजं, कजे चत्तारि होति भइयव्वा ।
गच्छपडिबद्ध आवण्ण पडिम तह संजतीतो य ॥ ४५३४ ॥ गच्छे नियमाद्-अवश्यन्तया कर्त्तव्यं यत् कार्य-कुल-गण-सङ्घविषयं तत्र कार्ये चत्वारो १°णो यथालन्दिकाचाप्रतिबद्धाः, पते भा० ॥
25
30
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org