________________
5
भाष्यगाथाः ४५२३-३०] तृतीय उद्देशः ।
१२२३ कुणमाणो वि य कडणं, कतकरणो णेव दोसमन्मेति ।
अप्पेण बहुं इच्छइ, विसुद्धआलंबणो समणो ॥ ४५२६ ॥ "कडणं" कटकमदं कुर्वाणोऽपि 'कृतकरणः' पुलाको नैव खल्पमपि दोषम् 'अभ्येति' प्रामोति । कुतः ? इत्याह-यतोऽसौ श्रमणो विशुद्धालम्बनः सन् अल्पेन संयमव्ययेन बहुं संयमलाभमिच्छति ॥ ४५२६ ॥ अमुमेवार्थ समर्थयन्नाह
संजमहेउं अजतत्तणं पि ण हु दोसकारगं बिति ।
पायण वोच्छेयं ना, समाहिकारो वणादीणं ॥ ४५२७ ॥ - प्रावचनिकादेः प्राणव्यपरोपणाद्युपद्रवरक्षणेन यः संयमस्तद्धेतोः-तन्निमित्रं पुलाकादेरयतत्वमपि 'नहि' नैव दोषकारकं ब्रुवते । यथा 'समाधिकारः' वैद्यो व्रणादीनां यत् तथाविधौषधप्रलेपनेन पाचनं यच्च शस्त्रादिना विच्छेदनं यद् वा 'व्यवच्छेदं' लङ्घनं कारयति तत् तदानीं 10 पीडाकरमपि परिणामसुन्दरमिति कृत्वा न, सदोषम् एवमिदमपीति ॥ ४५२७ ॥ अथ परस्याभिप्रायमाशङ्कमान आह
तत्थ भवे जति एवं, अणं अण्णेण रक्खए भिक्खू ।
अस्संजया वि एवं, अन्नं अनेण रक्खंति ॥ ४५२८ ।। 'तत्र' इत्यनन्तरोक्तेऽर्थेऽभिहिते सति भवेत् परस्याभिप्राय इति वाक्यशेषः-यद्येवं 10 'भिक्षुः' पुलाकादिः 'अन्यम्' आचार्यादिकम् 'अन्येन' स्कन्धावारादिना कृत्वा रक्षति, एकस्य विनाशेनापरं पालयतीति भावः, तत एवम् 'असंयता' गृहस्था अप्यन्यमन्येन रक्षन्त्येव, अतो न कश्चिदसंयतानां संयतानां च प्रतिविशेषः ।। ४५२८ ॥ एवं परेणोक्ते सूरिराहनहु ते संजमहेउं, पालिति असंजता अजतभावे ।
20 अच्छित्ति-संजमहा, पालिँति जती जतिजणं तु ॥ ४५२९॥ 'नहि' नैव 'ते' असंयताः 'अयतभावव्यवस्थितान्' गृहस्थान् संयमहेतोः पालयन्ति, किन्तु खात्मनो जीविकादिनिमित्तम् । ये तु यतयस्ते या तीर्थस्याव्यवच्छित्तिर्यश्च तेषां रक्ष्यमाणानामात्मनश्चान्योऽन्योपकारद्वारेण संयमस्तदर्थ यतिजनं पालयन्ति । तुशब्दो विशेषणार्थः, एष विशेषः साधूनां गृहस्थानां चेति ॥ ४५२९ ॥ किञ्च
25 कुणइ वयं धणहेउं, धणस्स धणितो उ.आगमं गाउं ।
इय संजमस्स वि वतो, तस्सेवऽट्टा ण दोसाय ॥ ४५३०॥ ___ यथा धनिको वाणिज्यं कुर्वन् 'आगम' लाभं ज्ञात्वा 'धनहेतोः' द्रव्योपार्जनार्थ शुल्क-कर्मकरवृत्ति-भाटकादिप्रदानेन धनस्य व्ययं करोति, "इय" एवं पुलाकादेर्मूलगुणप्रतिसेवनां कुर्वाणस्य यः कोऽपि संयमस्य व्ययः सः 'तस्यैव' संयमस्यार्थाय विधीयमानो न दोषाय 30 सञ्जायते, ततः पुष्टालम्बनसहितो मूलगुणप्रतिसेव्यपि शुद्ध इति स्थितम् ॥ १५३० ॥
१°स्स वणि भा० ताभा०। एतदनुसारेणैव भा. टीका, दृश्यतां टिप्पणी २॥ २°था वणिय वाणि भा०॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org