________________
१२२२ सनियुक्ति-लघुभाष्य-वृत्तिके बृहत्कल्पसूत्र [कृतिकर्मप्रकृते सूत्रम् १८ तमेव दर्शयति
पक्कणकुले वसंतो, सउणीपारो वि गरहिओ होइ।।
इय गरहिया सुविहिया, मज्झि वसंता कुसीलाणं ॥ ४५२३ ॥ पकणकुलं-मातङ्गगृहं तत्र वसन् 'शकुनीपारगोऽपि' द्विजो गर्हितो भवति । शकुनी5 शब्देन चतुर्दश विद्यास्थानानि गृह्यन्ते, तानि चामूनि
अङ्गानि वेदाश्चत्वारो, मीमांसा न्यायविस्तरः ।
पुराणं धर्मशास्त्रं च, स्थानान्याहुश्चतुर्दश ॥ तत्राङ्गानि षट्-शिक्षा व्याकरणं कल्पः छन्दो निरुक्तिज्योतिषमिति ।
"इय' एवं 'सुविहिताः' साधवः 'कुशीलानां' पार्श्वस्थादीनां मध्ये वसन्तो गर्हिता 10 भवन्ति, अतो न तेषु वस्तव्यं न वा कृतिकर्मादि विधेयम् ॥ ४५२३ ॥
ननु च 'पार्श्वस्थादीनां कृतिकर्म न कर्त्तव्यम्' इति भवद्भिरभिहितम् तत्र पार्श्वखादीनां लक्षणं कचिदनपिण्डभोजित्वादि स्वल्पदोषरूपं कचित्तु स्त्रीसेवादि महादोषरूपमावश्यकादिशास्त्रेष्वभिधीयते तदत्र वयं तत्त्वं न जानीमहे कस्य कर्तव्यं कृतिकर्म ? कस्य वा न ? इत्याशङ्कावकाशमवलोक्य विषयविभागमुपदर्शयति
संकिन्नवराहपदे, अणाणुतावी अ होइ अवरद्धे।
उत्तरगुणपडिसेवी, आलंबणवजिओ वजो ॥ ४५२४ ॥ - इह यो मूलगुणप्रतिसेवी स नियमादचारित्रीति कृत्वा स्फुटमेवावन्दनीय इति न तद्विचारणा; परं य उत्तरगुणविषयैर्बहुभिरपराधपदैः सङ्कीर्णः-शबलीकृतचारित्रः, अपरं च 'अप
राद्धे' अशुद्धाहारग्रहणादावपराधे कृतेऽपि 'अननुतापी' 'हा ! दुष्टु कृतम्' इत्यादि पश्चाताप 20न करोति, निःशङ्को निर्दयश्च प्रवर्तत इत्यर्थः । एवंविध उत्तरगुणप्रतिसेवी यदि आलम्बनेन
ज्ञान-दर्शन-चारित्ररूपविशुद्धकारणेन वर्जितः, कारणमन्तरेण प्रतिसेवत इति भावः, तदाऽसौ 'वर्व्यः' कृतिकर्मकरणे वर्जनीयः । शिष्यः प्राह-नन्वेवमर्थादापन्नम्-आलम्बनसहित उत्तरगुणप्रतिसेव्यपि वन्दनीयः । सूरिराह-न केवलमुत्तरगुणप्रतिसेवी मूलगुणप्रतिसेव्यप्यालम्बन
सहितः पूज्यः ॥ ४५२४ ॥ कथम् ? इति चेद् उच्यते25 हिट्ठाणठितो वी, पावयणि-गणट्ठया उ अधरे उ ।
कडजोगि जं निसेवइ, आदिणिगंठो व्व सो पुजो ॥ ४५२५ ॥ 'अधस्तनस्थानेषु' जघन्यसंयमस्थानेषु स्थितोऽपि, मूलगुणप्रतिसेव्यपीति भावः, 'कृतयोगी' गीतार्थः प्रावचनिकस्य-आचार्यस्य गणस्य च-गच्छस्य अनुग्रहार्थम् "अधरे" आत्यन्तिके
कारणे समुपस्थिते यद् निषेवते तत्रासौ संयमश्रेण्यामेव वर्तते इति कृत्वा पूज्यः । क इव ? 30 इत्याह-'आदिनिर्ग्रन्थ इव'' इह पुलाक-बकुश-कुशील-निर्ग्रन्थ-सातकाख्याः पञ्च निर्ग्रन्थाः , तेषामादिभूतः पुलाकः तद्वत् । तस्य ह्येताहशी लब्धिर्यया चक्रवर्तिस्कन्धावारमपि अभिवादनादौ कुलादिकायें स्तन्नीयाद् वा विनाशयेद् वा, न च प्रायश्चित्तमामुयात् ॥ ४५२५ ॥
तथा चाह
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org