________________
भाष्यगाथाः ४५१७-२२ ]
तृतीय_उद्देशः ।
१२२१
इत्यादिमानसिकतापं धर्तुं शीलमस्येत्यनुतापी, न तथा अननुतापी । कथमेतद् ज्ञायते ? इत्याह-- ' न चैव विकटयति' गुरूणां पुरतः स्वदोषं न प्रकाशयति, विकटयति वा परं तस्य 'शोधिं' प्रायश्चित्तं गुरुप्रदत्तं नैव करोति, 'न च' नैव अशुद्धाहारग्रहणाद् विरमति । एवं कुर्वन् 'कालतः ' कियताऽपि कालेन चारित्रात् परिभ्रश्येत् । यस्तु मूलगुणान् विराधयति स सद्यः परिभ्रश्यति ॥ ४५२० || अमुमेवार्थं सविशेषमाह
.5
मूलगुण उत्तरगुणे, मूलगुणेहिं तु पागडो हो । उत्तरगुणपडि सेवी, संचयऽवोच्छेदतो भस्से ॥। ४५२१ ॥
इह प्रतिसेवको द्विधा — मूलगुणप्रतिसेवक उत्तरगुणप्रति सेवकश्च । तत्र मूलगुणप्रतिसेवायां वर्तमानः प्रकट एव प्रतीयते यथा चारित्रात् परिभ्रश्यति । उत्तरगुणप्रतिसेवी तु सञ्चयेनबपराधमीलकेन योऽशुद्धाहारग्रहणादेरव्यवच्छेदः - परिणामस्यानुपरमस्ततः 'भ्रश्येत्' चारि - 10 त्रात् परिभ्रंशमाप्नुयात् ॥ ४५२१ ॥ अत्रैवार्थे दृष्टान्तमाह
अंतो भयणा बाहिं, तु निग्गते तत्थ मरुगदितो ।
संकर सरिसव सगडे, मंडव वत्थेण दिट्टंतो ।। ४५२२ ।।
इह सम्बन्धानुलोम्यतः प्रथममुत्तरार्धं व्याख्यायते
--
सङ्करः - तृणादिकचवरः तद्दृष्टान्तो यथा - आरामो सारणीए पाइज्जइ । ताए वहंतीए 15 एगं तणं सयं लग्गं तं न अवणीयं, अन्नं लग्गं तं पि न अवणीयं, एवं बहूहिं लग्गंतेहिं तत्थ तेण आश्रयेण चिक्खल्लधूलीए संचओ जाओ । तेणं संचयेणं तं पाणियं रुद्धं अन्नओ गंतुं पयट्ट, ताहे सो आरामो सुक्को । एवमभिक्खणमभिक्खणं उत्तरगुणपडि सेवाए अवराहसंचओ भवइ, तेण संजमजलं पवहमाणं निरुज्झइ, तओ चारितारामो सुक्कइ ॥
1
सर्षपशकट- मण्डपदृष्टान्तो यथा— शकटे मण्डपे वा क्वाप्येकः सर्षपः प्रक्षिप्तः स तत्र 20 मातः, अन्यः प्रक्षिप्तः सोऽपि मातः, एवं प्रक्षिप्यमाणैः सर्षपैर्भविष्यति स सर्षपो यस्तं शकटं मण्डपं वा भनक्ति । एवं चारित्रेऽप्यशुद्धाहारग्रहणादिरे कोऽपराधः प्रक्षिप्तः स तत्रावस्थितिं कृतवान्, द्वितीयः प्रक्षिप्तः सोऽप्यवस्थितः, एवमपरापरैरुत्तरगुणापराधैः प्रक्षिप्यमाणैर्भविष्यति स उत्तरगुणापराधो येन चारित्रं सर्वथा भङ्गमुपगच्छति ॥
अथ वस्त्रदृष्टान्तो भाव्यते— वस्त्रे क्वचिदेकस्तैलबिन्दुः कथमपि लग्नः स न शोधितः, 25 तदाश्रयेण रेणुपुद्गला अप्यवतस्थिरे, एवमन्यत्राप्यवकाशे तैलबिन्दुर्लभः सोऽपि न शोधितः, एवमन्यान्यैस्तैलबिन्दुभिर्लगद्भिरप्यशोध्यमानैः सर्वमपि तद् वस्त्रं मलिनीभूतम् । एवं चारित्र - वस्त्रमप्यपरा परैस्तरगुणापराधैरुपलिप्यमानमचिरादेव मलिनीभवतीति ॥
तदेवमुत्तरगुणप्रतिसेवी कालेन चारित्रात् परिभ्रश्यतीति स्थितम् । अथ कृतिकर्मविषयं विशेषं बिभणिषुराह – “अंतो भयणा" इत्यादि पूर्वार्धम् । यः संयमश्रेणेः 'अन्तः' मध्ये 30 स्थितस्तस्य कृतिकर्मकरणे भजना, सा चाग्रे दर्शयिष्यते । यस्तु श्रेणेर्बहिर्निगतस्तस्य कृति - कर्म न कर्तव्यम् । तथा च मरुकः - ब्राह्मणस्तस्य दृष्टान्तोऽत्र भवति ।। ४५२२ ॥
१ 'ष्टान्तः क्रियते ॥ ४५२२ ॥ पक्क° कां० विना ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org