________________
दाउ हिट्ठा छारं, सव्वत्तो कंटियाहि वेढित्ता ।
सकवाडमणाबाधे, पालेति तिसंझमिक्खंतो ।। ४५१७ ॥
तयोरेकः पुरुषस्तं राज्ञा समर्पितं घटं गृहीत्वा तस्याधः क्षारं दत्त्वा यथा कीटिका नागच्छेयुरिति भावः, ततः सर्वतः कण्टिकाभिस्तं वेष्टयित्वा 'सकपाटे' कपाट पिधानयुक्तेऽनाबाधे 10 प्रदेशे स्थापयित्वा त्रिसन्ध्यमीक्षमाणः सम्यक् पालयति ।। ४५१७ ॥
१२२०
सनिर्युक्ति-लघुभाष्य-वृत्तिके बृहत्कल्पसूत्रे [ कृतिकर्मप्रकृते सूत्रम् १८
मेव लिङ्गं धारयति स कथं 'निर्गतः' श्रेणिवाह्यो भवति ?, श्रमणलिङ्गस्योपलभ्यमानत्वाद् न भवतीति भावः । अत्र सूरिराह — दृष्टान्तः शर्कराकुटा भ्यामत्र क्रियते—
I
जहा कस्सइ रन्नो दो घडया सक्कराभरिया । ते अन्नया मुहं दाऊण दोन्हं पुरिसाणं समप्पिया भणिता य, जहा — सारक्खह, जया मग्गिज्जइ तथा दिज्जाह ॥ ४५१६ ॥ 6 ततः किमभूत् ? इत्याह
25
30
द्वितीयः पुनः किं कृतवान् ? इत्याह-----
द्वितीयः पुरुषस्तं घटं कीटिकानगरस्यादूरे स्थापयित्वा मध्यंमध्येनावलोकते, ततः शर्करा - 15 गन्धाघ्राणतः समायाताभिः कीटिकाभिर्मुद्राम विद्रवन्तीभिः 'सः' घटोऽधस्तात् कालेन जर्जरितः कृतः, शर्करा सर्वाऽपि भक्षिता । अन्यदा राज्ञा तौ पुरुषौ घटं याचितौ, ततो द्वाभ्यामप्यानीय दर्शितयोर्घटयोः “पमायकुडए" ति येन कुटरक्षणे प्रमादः कृतस्तस्य नृपेण दण्डः कृतः । उपलक्षणमिदम् तेन यस्तं सम्यक् पालितवान् तस्य विपुला पूजा विदधे । एष दृष्टान्तः, अयमर्थोपनयः - राजस्थानीया गुरवः, पुरुषस्थानीयाः साधवः, शर्करास्थानीयं चारित्रम्, 20 घटस्थानीय आत्मा, मुद्रास्थानीयं रजोहरणम्, कीटिकास्थानीयान्यपराधपदानि दण्डस्थानीया दुर्गतिप्राप्तिः, पूजास्थानीया स्वर्गादिसुखपरम्पराप्राप्तिः ॥ ४५१८ ॥
1
तथा चामुमेवोपनयं लेशतो भाष्यकारोऽप्याह
मुद्द. अविद्दवंतीहि कीडियाहिं स चालणी चैव । जञ्जरितो कालेणं, पमायकुडए निवे दंडो ।। ४५१८ ॥
निवसरिसो आयरितो, लिंगं मुद्दा उ सक्करा चरणं ।
पुरिसा य होंति साहू, चरित्तदोसा मुयिंगाओ ।। ४५१९ ।।
गतार्था । नवरं 'मुयिङ्गाः कीटिकाः । यथा तस्य प्रमत्तपुरुषस्य मुद्रा सद्भावेऽप्यधःप्रविशन्तीभिः कीटिकाभिर्घटं विभज्य शर्करा विनाशिता, एवं साधोरपि प्रमादिनो रजोहरणमुद्रासद्भावेऽप्यपराधपदैरात्मनि जर्जरिते शर्करातुल्यं चारित्रं कालेन वा सद्यो वा विनाशमाविशति ॥ ४५१९ ॥ तत्र कालेन यथा विनश्यति तथा दर्शयति
एस दोसे सीयइ, अणाणुतावी ण चैव वियडेइ ।
णेव य करेइ सोधिं, ण त विरमति कालतो भस्से । ४५२० ।। एषणदोषेषु सीदति, तद्दोषदुष्टं भक्त पानं गृह्णातीत्यर्थः । एवं कुर्वन्नपि पश्चात्तापं करिष्यति इत्याह- 'अननुतापी' पुरः कर्मादिदोषदुष्टाहारग्रहणाद् अनु - पश्चात् तनुं - 'हा ! दुष्ठु कृतं मया'
१ विभिद्य श° कां० ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org