________________
१२१९
भाष्यगाथाः ४५१३-१६] तृतीय उद्देशः । 'उपरि' उपरितनेषु पर्यन्तवर्तिषु, उपलक्षणत्वाद् मध्यमेषु वा संयमस्थानेषु प्रतिपद्यते । तत्र योऽधस्तनेषु संयमस्थानेषु चारित्रश्रेणिं प्रतिपद्यते स नियमात् तेनैव भवग्रहणेन सिध्यति, यथा भरतश्चक्रवर्ती ॥ १५१३ ॥
मज्झे वा उवरिं वा, नियमा गमणं तु हिट्ठिमं ठाणं । ___ अंतोमुहुत्त वुड्डी, हाणी वि तहेव नायव्या ॥४५१४॥ यः पुनः 'मध्ये वा' मध्यमेषु 'उपरि वा' उपरितनेषु संयमस्थानेषु चारित्रवेणि प्रतिपद्यते तस्य नियमाद् 'अधस्तनं' सर्वजघन्यं संयमस्थानं यावद् गमनं भवति, ततोऽसौ तेनान्येन वा भवग्रहणेन सर्वाणि संयमस्थानानि स्पृष्ट्वा सिध्यति । या पुनरधस्तनसंयमस्थानेभ्य उपरितनसंयमस्थानारोहणलक्षणा वृद्धिः साऽन्तर्मुहूर्तमात्रं भवति । या चोपरितनसंयमस्थानेभ्योऽधस्तनसंयमस्थानेष्ववरोहणरूपा हानिः साऽपि तथैव' अन्तर्मुहर्तमात्रैव ज्ञातव्या ५-६ । एतेन वृद्धिद्वार-10 प्ररूपणाऽपि कृता ७ । सम्प्रति अल्पबहुत्वद्वारं प्ररूप्यते-तत्र सर्वस्तोकान्यनन्तगुणवृद्धानि स्थानानि, कण्डकमात्रत्वात् तेषाम् । तेभ्योऽसङ्ख्येयगुणवृद्धानि स्थानानि असङ्ख्येयगुणानि, गुणकारश्चेह कण्डकप्रमाणो ज्ञातव्यः, एकैकस्यानन्तगुणवृद्धस्य स्थानस्याधस्तात् प्रत्येकमसङ्ख्येयगुणवृद्धानि स्थानानि कण्डकमात्राणि प्राप्यन्त इति कृत्वा; अनन्तगुणवृद्धस्थानकण्डकस्य चोपरि कण्डकमात्राण्यसङ्ख्येयगुणवृद्धानि प्राप्यन्ते, न बनन्तगुणवृद्धं स्थानम् , तेनोपरिष्टादेकस्य 15 कण्डकस्याधिकस्य प्रक्षेपः । तेभ्योऽप्यसङ्ख्येयगुणवृद्धेभ्यः स्थानेभ्यः सङ्ख्येयगुणवृद्धानि स्थानानि असङ्ख्येयगुणानि, तेभ्योऽपि सङ्ख्येयभागाधिकानि स्थानान्यसङ्ख्येयगुणानि, तेभ्योऽपि असङ्ख्येयभागाधिकानि स्थानान्यसङ्ख्येयगुणानि, तेभ्योऽप्यनन्तभागवृद्धानि स्थानानि असङ्ख्येयगुणानि । गुणकारश्च सर्वत्रापि कण्डकमुपरि चैककण्डकप्रक्षेपः । प्ररूपितमल्पबहुत्वद्वारम् ८ । जीवपदप्रतिबद्धानां त्वालाप-गणनादीनां द्वाराणां प्ररूपणा सम्प्रदायाभावाद् न 20 क्रियते ९॥ ४५१४ ॥ अथ प्रस्तुतयोजनां कुर्वन्नाह
सेढीठाणठियाणं, किइकम्म बाहिरे न कायव्वं ।
पासस्थादी चउरो, तत्थ वि आणादिणो दोसा ॥४५१५ ॥ अनन्तरोक्तायाः श्रेणेः सम्बन्धिषु संयमस्थानेषु स्थितानां साधूनां कृतिकर्म कर्तव्यम् , ये तु श्रेणे ह्यास्तेषां न कर्त्तव्यम् । के पुनस्ते ? इत्याह-पार्श्वस्थादयश्चत्वारः । तत्र पार्थस्था-ऽव- 25 सन्न-कुशील-संसक्त-यथाच्छन्दाः पञ्चाप्येको भेदः, काथिक-प्राग्निक-मामाक-सम्प्रसारका द्वितीयः, अन्यतीर्थिकास्तृतीयः, गृहस्थाश्चतुर्थः; एते चत्वारोऽपि श्रेणिबाह्या मन्तव्याः । 'तत्रापि' एतेषां कृतिकर्मकरणेऽपि, न केवलमभ्युत्थाने इत्यपिशब्दार्थः, आज्ञादयो दोपाः प्रायश्चित्तं च प्राग यथाऽभ्युत्थाने पार्श्वस्था-ऽन्यतीर्थिकादिविषयं वर्णितं तथैव वक्तव्यम् ॥ ४५१५॥ शिष्यः पृच्छति
लिंगेण निग्गतो जो, पागडलिंग धरेइ जो समणो।
किध होइ णिग्गतो ति य, दिटुंतो सकरकुडेहिं ।। ४५१६ ॥ 'लिङ्गेन' रजोहरणादिना यो मुक्तः स संयमश्रेण्या निर्गतः प्रतीयते, यन्तु श्रमण: प्रकट
30
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org