________________
१२१८
सनियुक्ति-लघुभाष्य-वृत्तिके बृहत्कल्पसूत्रे [ कृति कर्मप्रकृते सूत्रम् १८
संयमस्थानानि तथैव वक्तव्यानि ततः पुनरप्येकमनन्तगुणाधिकं संयमस्थानं वक्तव्यम्; एवमनन्तगुणाधिकानि तावद् वक्तव्यानि यावत् कण्डकमात्राणि भवन्ति । ततो भूयोऽपि तेषामुपरि पञ्चवृच्यात्मकानि संयमस्थानानि मूलादारभ्य तथैव वक्तव्यानि यत् पुनरनन्तगुणवृद्धिस्थानं तन्न प्राप्यते, षट्स्थानस्य परिसमाप्तत्वात् । इत्थम्भूतान्यसङ्ख्येयानि कण्डकानि समुदितानि 5 षट्स्थानकं भवति । तस्माच्च प्रथमषट्स्थानकादूर्द्धमुक्तक्रमेणैव द्वितीयं षट्स्थानकमुत्तिष्ठति, एवमेव च तृतीयम् एवं षट्स्थानकान्यपि तावद् वाच्यानि यावदसङ्ख्ये यलोकाकाशप्रदेशप्रमाणानि भवन्ति । उक्तं च
10
15
छट्ठाणगअवसाणे, अन्नं छट्टाणयं पुणो अन्नं ।
एवमसंखा लोगा, छट्टाणाणं मुणेयव्वा ॥ [ पञ्चसं० गा० ४४४ ] इत्थम्भूतानि चासयेयलोकाकाशप्रदेशप्रमाणानि षट्स्थानकानि संयमश्रेणिरुच्यते । तथा चोक्तम्
प्रथमादसङ्ख्येयभागवृद्धात् स्थानादधः कियन्ति संयमस्थानान्यनन्तभागवृद्धानि ? उच्यतेकण्डकमात्राणि । तथा प्रथमात् सङ्ख्येयभागवृद्धात् स्थानादधः कियन्ति असङ्ख्येय भागवृद्धानि स्थानानि ? उच्यते - कण्डकमात्राणि । एवमुत्तरोत्तरस्थानादधोऽध आनन्तर्येण तावद् मार्गणा कर्त्तव्या यावत् प्रथमादनन्तगुणवृद्धात् स्थानादधः कियन्ति असङ्ख्येयगुणवृद्धानि ? उच्यतेकण्डकमात्राणि । इदानीमेकान्तरिता मार्गणा क्रियते तत्र प्रथमात् सङ्ख्येयभागवृद्धात् 20 स्थानादधः कियन्त्यनन्तभागवृद्धानि स्थानानि ? उच्यते - कण्डकवर्गः कण्डकं च । तथा प्रथमात् सङ्ख्येयगुणवृद्धात् स्थानादधः कियन्ति असङ्ख्येयभागवृद्धानि स्थानानि ? उच्यतेकण्डकवर्गः कण्डकं च । [ तथा प्रथमादसङ्ख्येयगुणवृद्धात् स्थानादधः कियन्ति सङ्ख्येयभागवृद्धानि स्थानानि ? उच्यते-- कण्डकवर्गः कण्डकं च । ] तथा प्रथमादनन्तगुणवृद्धात् स्थानादधः कियन्ति सङ्ख्येयगुणवृद्धानि स्थानानि : उच्यते — कण्डकवर्गः कण्डकं च । एवमुक्त25 प्रकारेण व्यन्तरिता त्र्यन्तरिता चतुरन्तरिता च मार्गणा खधिया परिभावनीया ।
अथ पर्यवसानद्वारम्—तत्रानन्तगुणवृद्धकण्डकादुपरि पञ्चवृज्यात्मकानि सर्वाणि स्थानानि गत्वा पुनरनन्तगुणवृद्धं स्थानं न प्राप्यते, षट्स्थानस्य परिसमाप्तत्वात् । ततस्तदेव सर्वान्तिमं स्थानं षट्स्थानकस्य पर्यवसानम् ॥ ४५१२ ॥
30
छट्टाणा उ असंखा, संजमसेढी मुणेयबा || [ पिण्डनि० भा० गा० २९] तदेवं कृता अविभागपरिच्छेद- स्थानान्तर - कण्डक - षट्स्थानकानां प्ररूपणा ४ । साम्प्रतमधःस्थानप्ररूपणा क्रियते -
अथ भाष्यकारः प्रकारान्तरेणाधः पर्यवसानद्वारयोर्युगपत् प्ररूपणामाह
एयं चरितसेर्दि, पडिवज्जर हिट्ठ कोइ उवरिं वा ।
जो हिट्ठा पडिवज, सिज्झइ नियमा जहा भरहो ।। ४५१३ ।। एतां चारित्रश्रेणि कश्चिद् जीवः 'अधस्ताद्' जघन्यसंयमस्थानेषु प्रतिपद्यते कश्चित् पुनः
१ 'वद् वक्तव्यानि या मो० ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org