________________
भाष्यगाथाः ४५०८-१२] तृतीय उदेशः ।
१२१७ भवति ?-प्रथमसंयमस्थानगतनिर्विभागभागापेक्षया द्वितीये संयमस्थाने निर्विभागा भागा अनन्ततमेन भागेनाधिका भवन्तीति । एषा स्थानान्तरप्ररूपणा २ ।
तस्मादपि यदनन्तरं तृतीयं तत् ततोऽनन्तभागवृद्धम् , एवं पूर्वस्मादुतरोतराणि अनन्ततमेन भागेन वृद्धानि निरन्तरं संयमस्थानानि तावद् वक्तव्यानि यावदङ्गुलमात्रक्षेत्रासङ्ख्येयभागगतप्रदेशराशिप्रमाणानि भवन्ति । एतावन्ति च समुदितानि स्थानानि कण्डकमित्युच्यते ।। एषा कण्डकप्ररूपणा ३ ।। __ अस्माच्च कण्डकात् परतो यदन्यदनन्तरं संयमस्थानं भवति तत् पूर्वस्मादसङ्ख्येयभागाधिकम् । एतदुक्तं भवति-पाश्चात्यकण्डकसत्कचरमसंयमस्थानगतनिर्विभागभागापेक्षया कण्डकानन्तरे संयमस्थाने निर्विभागा भागा असङ्ख्येयतमेन भागेनाधिकाः प्राप्यन्ते । ततः पराणि पुनरपि कण्डकमात्राणि संयमस्थानानि यथोत्तरमनन्तभागवृद्धानि भवन्ति, ततः पुनरेकमसङ्ख्येय-10 भागाधिकं संयमस्थानम् ; भूयोऽपि ततः पराणि कण्डकमात्राणि संयमस्थानानि यथोत्तरमनन्तभागवृद्धानि भवन्ति, ततः पुनरप्येकमसङ्ख्येयभागाधिकं संयमस्थानम् ; एवमनन्तभागाधिकैः कण्डकप्रमाणैः संयमस्थानैर्व्यवहितानि असङ्ख्येयभागाधिकानि संयमस्थानानि तावद् वक्तव्यानि यावत् तान्यपि कण्डकप्रमाणानि भवन्ति । ततश्चरमादसङ्ख्येयभागाधिकसंयमस्थानात् पराणि यथोत्तरमनन्तभागवृद्धानि कण्डकमात्राणि संयमस्थानानि भवन्ति, ततः परमेकं सङ्ख्येयभागा-15 धिकं संयमस्थानम् ; ततो मूलादारभ्य यावन्ति संयमस्थानानि प्रागतिक्रान्तानि तावन्ति भूयोऽपि तेनैव क्रमेणाभिधाय पुनरप्येकं सहयेयभागाधिकं संयमस्थानं वक्तव्यम्, इदं द्वितीयं सहयेयभागाधिकं संयमस्थानम् ; अनेनैव क्रमेण तृतीयम् , यावत् सद्ध्येयभागाधिकानि संयमस्थानानि कण्डकमात्राणि भवन्ति तावद् वाच्यम् । तत उक्तक्रमेण भूयोऽपि सङ्ख्येयभागाधिकसंयमस्थानप्रसङ्गे सङ्ख्येयगुणाधिकमेकं संयमस्थानं वक्तव्यम् , ततः पुनरपि मूलादारभ्य यावन्ति संयम-20 स्थानानि प्रागतिक्रान्तानि तावन्ति भूयोऽपि वक्तव्यानि, ततः पुनरप्येकं सङ्ख्येयगुणाधिकं संयमस्थानं वक्तव्यम् । ततो भूयोऽपि मूलादारभ्य तावन्ति संयमस्थानानि तथैव वक्तव्यानि, ततः पुनरप्येकं सहयेयगुणाधिकं संयमस्थानम् ; अमून्यप्येवं सहयेयगुणाधिकानि संयमस्थानानि तावद् वक्तव्यानि यावत् कण्डकमात्राणि भवन्ति । तत उक्तक्रमेण पुनरपि सहयेयगुणाधिकसंयमस्थानप्रसङ्गेऽसङ्ख्येयगुणाधिकं संयमस्थानं वक्तव्यम् , ततः पुनरपि मूलादारभ्य यावन्ति संयम-25 स्थानानि प्रागतिक्रान्तानि तावन्ति तेनैव क्रमेण भूयोऽपि वक्तव्यानि, ततः पुनरप्येकमसङ्ख्येयगुणाधिकं संयमस्थानं वक्तव्यम् । ततो भूयोऽपि मूलादारभ्य तावन्ति संयमस्थानानि तथैव वक्तव्यानि, ततः पुनरप्येकमसङ्ख्येयगुणाधिकं संयमस्थानं वक्तव्यम् ; अमूनि चैवमसङ्ख्येयगुणाधिकसंयमस्थानानि तावद् वक्तव्यानि यावत् कण्डकप्रमाणानि भवन्ति । ततः पूर्वपरिपाट्या पुनरप्यसङ्ख्येयगुणाधिकसंयमस्थानप्रसङ्गे अनन्तगुणाधिकं संयमस्थानं वक्तव्यम् , ततो भूयोऽपि 30 मूलादारभ्य यावन्ति संयमस्थानानि प्रागतिक्रान्तानि तावन्ति तथैव क्रमेण भूयोऽपि वक्तव्यानि, ततः पुनरप्येकमनन्तगुणाधिकं संयमस्थानं वक्तव्यम् ; ततो भूयोऽपि मूलादारभ्य तावन्ति १ ततः पुनरपि मू° ताटी. मो० ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org