Book Title: Agam 35 Chhed 02 Bruhatkalpa Sutra Part 04
Author(s): Bhadrabahuswami, Chaturvijay, Punyavijay
Publisher: Atmanand Jain Sabha
View full book text ________________
भाष्यगाथाः ४३२७-३५] तृतीय उद्देशः ।
१९७३ प्रकारेण 'छन्दित-प्रेषितः' पूर्व छन्दितः यस्य रोचते तस्मै दातव्यानीत्येवमनुज्ञातच्छन्दः ततः प्रेषितः-मुत्कलितः सन् स क्षपकस्तत्रावसरे ऋषीणामम्बराणि प्रयच्छति । इह सर्वत्रापि रकारस्य लकारादेशः "र-सोर्ल-शौ” (सिद्धहे० ८-४-२८८) इति मागधभाषालक्षणवशात् ॥ ४३३० ॥ ४३३१ ।। ततश्च
खमएण आणियाणं, दिजंतेगस्स वारणावयणं ।
गहणं तुमं न याणसि, वंदिय पुच्छा तओ कहणं ॥ ४३३२ ॥ क्षपकेणानीतानां तेनैव दीयमानानां वस्त्राणाम् 'एकस्य' कस्यचिद् लुब्धस्य वारणावचनम् , 'एवममीषां रत्नाधिकानां दीयमानानि मां यावद् न समागमिष्यन्ति' इति बुद्ध्या वस्त्रग्राहकसाधून 'मा आर्याः ! गृह्णीध्वम्' इत्येवं कोऽपि निवारितवानिति भावः । ततः क्षपकः प्राहकिं मदीयानि वस्त्राणि न गृह्यन्ते । । इतरः प्राह-ग्रहणमेव तावत् त्वं न जानीषे । क्षपको 10 ब्रवीति-जानामि । इतरो भणति-यद्येवं ततः कीदृशम् ? । क्षपक आह-वन्दित्वा विनयेन पृच्छ येनाहं कथयामि । ततस्तेन क्षपको वन्दित्वा पृष्टः सन् कथयितुमारब्धवान् ॥ ४३३२॥
तिविहं च होइ गहणं, सचित्ताऽचित्त मीसगं चेव ।।
एएसिं नाणत्तं, वोच्छामि अहाणुपुवीए ॥ ४३३३ ।। त्रिविधं च भवति ग्रहणम् , तद्यथा-सचित्तग्रहणमचित्तग्रहणं मिश्रग्रहणं चेति । एतेषां 15 त्रयाणामपि नानात्वं यथाऽऽनुपूर्व्या वक्ष्यामि ॥ ४३३३ ॥ तत्र सच्चित्तग्रहणं तावदाह
सचित्तं पुण दुविहं, पुरिसाणं चेव तह य इत्थीणं ।
एकेक पि य इत्तो, पंचविहं होइ नायव्वं ।। ४३३४ ॥ सचित्तग्रहणं पुनर्द्विविधम् , तद्यथा-'पुरुषाणां च' आचार्यादीनां 'स्त्रीणां च' प्रवर्तिनीप्रभृतीनाम् । एकैकमपि 'इतः' मूलभेदापेक्षया 'पञ्चविधं वक्ष्यमाणनीत्या पञ्चप्रकारं भवति 20 ज्ञातव्यम् ॥ ४३३४ ॥ कुतः पुनस्तेषां पुरुषाणां स्त्रीणां वा ग्रहणं क्रियते ! इत्याह
उदगाऽगणि तेणोमे, अद्धाण गिलाण सावय पदुद्धे ।
तित्थाणुसज्जणाए, अइसेसिगमुद्धरे विहिणा ॥ ४३३५ ॥ उदके वाहकेन आचार्यादयो नेतुमारब्धाः, "अगणि" ति महानगरप्रदीपनके वा दाहस्तेषां समुपस्थितः, "तेण" त्ति शरीरस्तेना आचार्यादीन् व्यपरोपयितुमिच्छन्ति, अवमं-दुर्भिक्षं तत्र 25 भक्त-पानलाभाभावात् प्राणसंशयस्तेषामुपतस्थे, अध्वा नाम-छिन्नापातं महदरण्यं तं प्रपन्नानामपान्तराले बुभुक्षा-परिश्रमादिभिरग्रतो गन्तुमशक्नुवतां जीवितं संशयतुलामधिरूढम् , "गिलाण" ति शूल-विष-विशूचिकादिकमागाढग्लानत्वमुदपादि, श्वापदाः-सिंह-व्याघ्रादयस्तैरुपद्रोतुमारब्धाः, प्रद्विष्टः-प्रद्वेषमापन्नो राजा साधूनां प्राणापहारं कर्तुमभिलषति । एतेष्वागाढकारणेषु 'तीर्थानुषजनायै' तीर्थस्याव्यवच्छेदेनानुवर्तनाय योऽतिशायी-विशिष्टपात्रभूतः प्रव-30 चनाधारः पुरुषस्तं 'विधिना' वक्ष्यमाणनीत्या समुद्धरेत् ॥ ४३३५ ॥ अथ यदुक्तम्- 'एकैकं पञ्चविधं ग्रहणं भवति' तत्र पुरुषविषयं तावदाह
आयरिए अभिसेगे, भिक्खू खुड्डे तहेव थेरे य ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org
Loading... Page Navigation 1 ... 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444