Book Title: Agam 35 Chhed 02 Bruhatkalpa Sutra Part 04
Author(s): Bhadrabahuswami, Chaturvijay, Punyavijay
Publisher: Atmanand Jain Sabha
View full book text ________________
भाष्यगाथाः ४४२०-२८] तृतीय उद्देशः ।
११९५ . अथैतदेव प्रायश्चित्तं तपः-कालाभ्यां विशेषयन्नाह -
दोहि वि गुरुगा एते, आयरियस्सा तवेण कालेण ।
तवगुरुगा कालगुरू, दोहि वि लहुगा य खुड्डस्स ॥ ४४२४ ॥ आचार्यस्य 'एतानि' चतुर्गुरुकादीनि प्रायश्चित्तानि द्वाभ्यामपि गुरुकाणि कर्त्तव्यानि, तद्यथा-तपसा कालेन च । वृषभस्य तपोगुरुकाणि, भिक्षोः कालगुरुकाणि, क्षुल्लकस्य 5 'द्वाभ्यामपि' तपः-कालाभ्यां लघुकानि ॥ ४४२४ ॥
अहवा अविसिहँ चिय, पाहुणयाऽऽगंतुए गुरुगमादी।
पावेंति अणुट्टिता, चउगुरु लहुगा लहुग भिन्नं ॥ ४४२५ ॥ 'अथवा' इति प्रायश्चित्तस्य प्रकारान्तरताद्योतकः । 'अविशिष्टमेव' आचार्यादिविशेषैर्विरहितं प्राघूर्णकमागन्तुकमनुत्तिष्ठन्तः ‘गुर्वादयो' आचार्यप्रभृतयो यथाक्रमं चतुर्गुरुक-चतुर्लघुक-10 लघुमास-भिन्नमासान् प्राप्नुवन्ति । तद्यथा-आचार्यस्य यं वा तं वा प्राघूर्णकमागतमनभ्युत्तिष्ठतश्चतुर्गुरु, वृषभस्य चतुर्लघु, भिक्षोलघुमासः, क्षुल्लकस्य भिन्नमास इति ॥ ४४२५॥
अहवा जं वा तं वा, पाहुणगं गुरुमणुहिहं पावे ।
भिन्नं वसभो सुकं, भिक्खु लहू खुड्डए गुरुगा॥ ४४२६ ॥ अथवा यं वा तं वा प्राघूर्णकमनुत्तिष्ठन् 'गुरुः' आचार्यों भिन्नमासं प्राप्नोति, वृषभः 'शुक्ल-15 मासं' लघुमासमित्यर्थः, भिक्षुश्चतुर्लघुकम् , क्षुल्लकश्चतुर्गुरुकम् । एतेन "पडिलोम बिइएणं" (गा. ४४२१) ति पदं व्याख्यातम् ॥ ४४२६ ॥ अथ किमर्थमयं द्वितीयादेशः प्रवृत्तः ? इत्याह
चायण-वावारण-धम्मकहण-सुत्तत्थचिंतणासुं च । ..
वाउलिए आयरिए, बिइयादेसो उ. भिन्नाई ॥ ४४२७ ॥ . . . .20 इहाचार्यस्यानेकधा व्याक्षेपः, तद्यथा-वाचना नाम-अनुयोगः सा विनेयानां दातव्या, व्यापारणं साधूनां वैयावृत्यादिषु यथायोग्यं विधेयम् , श्राद्धानां धर्मकथनं विधातव्यम् , स्वयं च सूत्रा-ऽर्थयोश्चिन्तना--अनुप्रेक्षा कर्त्तव्या । एवमादिषु कार्येषु निरन्तरमाचार्यो व्याकुलितो भवति, वृषभादयस्तु न तथा व्याकुला इत्यतोऽयं भिन्नमासादिर्द्वितीय आदेशः प्रवृत्तः । इयमत्र भावना-आचार्यों बहुव्याकुलतया प्राघुणकमागच्छन्तं दृष्ट्वाऽपि नाभ्युत्थातुं पारयेत् , 25 अतस्तस्य स्वल्पतरं प्रायश्चित्तम् । वृषभ-भिक्षु-क्षुल्लकास्तु यथाक्रममल्पा-ऽल्पतरा-ऽल्पतमव्याक्षेपाः, ततो लघुमासादीनि प्रभूत-प्रभूततर-प्रभूततमानि तेषां प्रायश्चित्तानीति ॥ ४४२७ ॥ अथ क्षुल्लकस्य गुरुतमप्रायश्चित्तदाने विशेषकारणमाह
वेसइ लहुमुढेइ य, धूलीधवलो असंफुरो खुड्डो।
इति तस्स होति गुरुगा, पालेइ हु चंचलं दंडो॥ ४४२८॥ 30 'क्षुल्लकः' बालः सं लघुशरीरतया सुखेनैवोपविशति उत्तिष्ठति च, क्रीडनशीलतया च १ स क्रीडनशीलतया प्रायेण 'धूलीधवलः' रजोगुण्डितदेहो भवति, असंस्फुरश्चासौ, ततः 'लघु' शीघ्रमुप्रविशति उत्तिष्ठति च, अतो यद्यसा भा० ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org
Loading... Page Navigation 1 ... 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444