Book Title: Agam 35 Chhed 02 Bruhatkalpa Sutra Part 04
Author(s): Bhadrabahuswami, Chaturvijay, Punyavijay
Publisher: Atmanand Jain Sabha

View full book text
Previous | Next

Page 374
________________ 10 भाष्यगाथाः ४५८५-९०] तृतीय उद्देशः। १२३९ मोहमयी फुम्फुका 'हसहसति' जाज्वल्यते सा कथा श्रमणेन न कथयितव्या ॥ ४५८८ ॥ समणेण कहेयव्वा, तब-णियमकहा विरागसंजुत्ता। जं सोऊण मणूसो, बच्चइ संवेग-णिवेयं ॥ ४५८९ ॥ तपः-अनशनादि नियमाः-इन्द्रिय-नोइन्द्रियनिग्रहास्तत्प्रधाना कथा तपो-नियमकथा 'विरागसंयुक्ता' न निदानादिना रागादिसङ्गता श्रमणेन कथयितव्या, यां श्रुत्वा 'मनुष्यः' । श्रोता संवेग-निर्वेदं व्रजति । संवेगः-मोक्षाभिलाषः, निर्वेदः-संसारवैराग्यम् ॥ ४५८९ ॥ सूत्रम् नो कप्पति निग्गंथाण वा निग्गंथीण वा अंतरगिहंसि इमाइं पंच महव्वयाइं सभावणाई आइक्खित्तए वा विभावित्तए वा किहित्तए वा पवेयत्तए वा, नऽन्नत्थ एगनाएण वा जाव सिलोएण वा, से वि य ठिच्चा नो चेव णं अठिच्चा २१ ॥ अस्य व्याख्या प्राक्सूत्रवद् द्रष्टव्या । नवरम् 'इमानि' खयमनुभूयमानानि पञ्च महाव्रतानि 'सभावनानि' प्रतिव्रतं भावनापञ्चकयुक्तान्याख्यातुं वा विभावयितुं वा कीर्चयितुं वा प्रवेदयितुं वा न कल्पन्ते । आख्यानं नाम-साधूनां पञ्च महाव्रतानि पञ्चविंशतिभावनायुक्तानि 15 षट्कायरक्षणसाराणि भवन्ति । विभावनं तु-प्राणातिपाताद् विरमणं यावत् परिग्रहाद् विरमणमिति । भावनास्तु-“इरियासमिए सया जए०" (आव० प्रति० संग्र० पत्र ६५८-२) इत्यादिगाथोक्तखरूपाः । षटकायास्तु-पृथिव्यादयः । कीर्तनं नाम-या प्रथमव्रतरूपा अहिंसा सा भगवती सदेव-मनुजा-ऽसुरस्य लोकस्य पूज्या द्वीपः त्राणं शरणं गतिः प्रतिष्ठेत्यादि, एवं सर्वेषामपि प्रश्नव्याकरणाङ्गोक्तान् (संवराध्ययनानि ५ तः १०) गुणान् कीर्तयति । प्रवेदनं 20 तु-महाव्रतानुपालनात् खर्गोऽपवर्गो वा प्राप्यत इति सूत्रार्थः ॥ परः प्राह-ननु पूर्वसूत्रेण गतार्थमिदम् अतः किमर्थमारभ्यते ? उच्यते-- गहिया-ऽगहियविसेसो, गाधासुत्तातों होति वयसुत्ते । णिद्देसकतो व भवे, परिमाणकतो व विण्णेतो ॥ ४५९० ॥ गाथासूत्राद् व्रतसूत्रे प्रथिता-ऽप्रथितविशेषो मन्तव्यः । किमुक्तं भवति ?--अनन्तरसूत्रे 25 "चउगाहं वा पंचगाहं वा" इत्युक्तं ताश्च गाथा ग्रथिता भवन्ति, इमानि तु महाव्रतानि प्रथितानि अग्रथितानि वा भवेयुः । प्रथितानि नाम-पद-पाठबन्धेन वा श्लोकबन्धेन वा बद्धानि, अग्रथितानि तु-मुत्कलैरेव वचनैर्यान्यभिधीयन्ते । यद्वा निर्देशकृतोऽत्र विशेषो भवति--- अनन्तरसूत्रे "चतुर्गाथं पञ्चगाथं वा कथयितुं न कल्पते" इत्युद्देशमात्रमेव कृतम् , अत्र तु "महाव्रतानि सभावनाकानि" इत्यनेन तस्यैव विशेषनिर्देशः क्रियते । परिमाणकृतो वा विशेषो 30 १ एतचिहान्तर्गतः पाठः भा० नास्ति । Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444