Book Title: Agam 35 Chhed 02 Bruhatkalpa Sutra Part 04
Author(s): Bhadrabahuswami, Chaturvijay, Punyavijay
Publisher: Atmanand Jain Sabha

View full book text
Previous | Next

Page 368
________________ भाष्यगाथाः ४५६०-६६] तृतीय उद्देशः । १२३३ आयाणगुत्ता विकहाविहीणा, अच्छण्ण छण्णे व ठिया व विट्ठा । अच्छंति ते संतमुहा णिविटुं, भजंति वा सेसपदे जहुत्ते ॥ ४५६४ ॥ आदानैः-इन्द्रियैर्गुप्ताः तथा विकथया-भक्तकथादिरूपया विशेषेण हस्तसंज्ञादेरपि परिहारेण हीनाः-त्यक्ताः तत्र गृहान्तरेऽच्छन्ने वा छन्ने वा प्रदेशे ऊर्द्धस्थिता उपविष्टा वा 'ते' साधवः शान्तमुखा आसते। 'निविश्य च' उपविश्य शेषाण्यपि-खाध्यायविधानादीनि यथोक्तानि । पदानि यथायोगं भजन्ते, न च दोषमापद्यन्ते ॥ ४५६४ ॥ कथम् ? इति चेद् उच्यते थाणं च कालं च तहेव वत्थु, आसज जे दोसकरे तु ठाणे । ते चेव अण्णस्स अदोसवंते, भवंति रोगिस्स व ओसहाई ॥ ४५६५ ॥ 'स्थानं च' स्त्री-पशु-पण्डकसंसक्तभूभागादि 'कालं च' ऋतुबद्धादिकं तथैव 'वस्तु' तरुण-नीरोगादिकं पुरुषद्रव्यमासाद्य यान्येकस्य गृहान्तरे स्थान-निषदनादीनि स्थानानि दोष-10 कारीणि भवन्ति तान्येवान्यस्य पूर्वोक्तविपरीतस्थान-काल-पुरुषवस्तुसाचिव्याद् अदोषवन्ति भवन्ति । रोगिण इवौषधानि-यथा किल यान्यौषधान्येकस्य पित्तरोगिणो दोषाय भवन्ति तान्येवापरस्य वातरोगिणो न कमपि दोषमुपजनयन्ति, एवमत्रापि भावनीयम् ॥ ४५६५ ।। ॥ अन्तरगृहस्थानादिप्रकृतं समाप्तम् ॥ 20 अन्त र गृ हा ख्या ना दि प्रकृतम् सूत्रम् नो कप्पति निग्गंथाण वा निग्गंथीण वा अंतरगिहंसि जाव चउगाहं वा पंचगाहं वा आइक्खित्तए वा विभावित्तए वा किहित्तए वा पवेइत्तए वा; न. ऽन्नत्थ एगणाएण वा एगवागरणेण वा एगगाहाए वा एगसिलोएण वा; से वि य ठिच्चा नो चेव णं अट्ठिच्चा २०॥ अस्य सम्बन्धमाह अइप्पसत्तो खलु एस अत्थो, जं रोगिमादीण कता अणुण्णा । अण्णो वि मा भिक्खगतो करिजा, गाहोवदेसादि अतो तु सुत्तं ॥ ४५६६ ॥ 25 अतिप्रसक्तः खल्वेषोऽर्थः, यदनन्तरसूत्रे रोगिप्रभृतीनामन्तरगृहे स्थानादीनामनुज्ञा कृता । एवं हि तत्र स्थानादिपदानि कुर्वन् कश्चिद् धर्मकथामपि कुर्वीत, ततश्चातिप्रसङ्गो भवति, अतोऽन्योऽपि भैक्षगतो मा गाथोपदेशादिकं कार्षीदितीदं सूत्रमारभ्यते ॥ ४५६६ ॥ अनेन सम्बन्धेनायातस्यास्य व्याख्या-नो कल्पते निम्रन्थानां वा निम्रन्थीनां वा अन्तर Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444