Book Title: Agam 35 Chhed 02 Bruhatkalpa Sutra Part 04
Author(s): Bhadrabahuswami, Chaturvijay, Punyavijay
Publisher: Atmanand Jain Sabha

View full book text
Previous | Next

Page 356
________________ भाष्यगाथाः ४५१७-२२ ] तृतीय_उद्देशः । १२२१ इत्यादिमानसिकतापं धर्तुं शीलमस्येत्यनुतापी, न तथा अननुतापी । कथमेतद् ज्ञायते ? इत्याह-- ' न चैव विकटयति' गुरूणां पुरतः स्वदोषं न प्रकाशयति, विकटयति वा परं तस्य 'शोधिं' प्रायश्चित्तं गुरुप्रदत्तं नैव करोति, 'न च' नैव अशुद्धाहारग्रहणाद् विरमति । एवं कुर्वन् 'कालतः ' कियताऽपि कालेन चारित्रात् परिभ्रश्येत् । यस्तु मूलगुणान् विराधयति स सद्यः परिभ्रश्यति ॥ ४५२० || अमुमेवार्थं सविशेषमाह .5 मूलगुण उत्तरगुणे, मूलगुणेहिं तु पागडो हो । उत्तरगुणपडि सेवी, संचयऽवोच्छेदतो भस्से ॥। ४५२१ ॥ इह प्रतिसेवको द्विधा — मूलगुणप्रतिसेवक उत्तरगुणप्रति सेवकश्च । तत्र मूलगुणप्रतिसेवायां वर्तमानः प्रकट एव प्रतीयते यथा चारित्रात् परिभ्रश्यति । उत्तरगुणप्रतिसेवी तु सञ्चयेनबपराधमीलकेन योऽशुद्धाहारग्रहणादेरव्यवच्छेदः - परिणामस्यानुपरमस्ततः 'भ्रश्येत्' चारि - 10 त्रात् परिभ्रंशमाप्नुयात् ॥ ४५२१ ॥ अत्रैवार्थे दृष्टान्तमाह अंतो भयणा बाहिं, तु निग्गते तत्थ मरुगदितो । संकर सरिसव सगडे, मंडव वत्थेण दिट्टंतो ।। ४५२२ ।। इह सम्बन्धानुलोम्यतः प्रथममुत्तरार्धं व्याख्यायते -- सङ्करः - तृणादिकचवरः तद्दृष्टान्तो यथा - आरामो सारणीए पाइज्जइ । ताए वहंतीए 15 एगं तणं सयं लग्गं तं न अवणीयं, अन्नं लग्गं तं पि न अवणीयं, एवं बहूहिं लग्गंतेहिं तत्थ तेण आश्रयेण चिक्खल्लधूलीए संचओ जाओ । तेणं संचयेणं तं पाणियं रुद्धं अन्नओ गंतुं पयट्ट, ताहे सो आरामो सुक्को । एवमभिक्खणमभिक्खणं उत्तरगुणपडि सेवाए अवराहसंचओ भवइ, तेण संजमजलं पवहमाणं निरुज्झइ, तओ चारितारामो सुक्कइ ॥ 1 सर्षपशकट- मण्डपदृष्टान्तो यथा— शकटे मण्डपे वा क्वाप्येकः सर्षपः प्रक्षिप्तः स तत्र 20 मातः, अन्यः प्रक्षिप्तः सोऽपि मातः, एवं प्रक्षिप्यमाणैः सर्षपैर्भविष्यति स सर्षपो यस्तं शकटं मण्डपं वा भनक्ति । एवं चारित्रेऽप्यशुद्धाहारग्रहणादिरे कोऽपराधः प्रक्षिप्तः स तत्रावस्थितिं कृतवान्, द्वितीयः प्रक्षिप्तः सोऽप्यवस्थितः, एवमपरापरैरुत्तरगुणापराधैः प्रक्षिप्यमाणैर्भविष्यति स उत्तरगुणापराधो येन चारित्रं सर्वथा भङ्गमुपगच्छति ॥ अथ वस्त्रदृष्टान्तो भाव्यते— वस्त्रे क्वचिदेकस्तैलबिन्दुः कथमपि लग्नः स न शोधितः, 25 तदाश्रयेण रेणुपुद्गला अप्यवतस्थिरे, एवमन्यत्राप्यवकाशे तैलबिन्दुर्लभः सोऽपि न शोधितः, एवमन्यान्यैस्तैलबिन्दुभिर्लगद्भिरप्यशोध्यमानैः सर्वमपि तद् वस्त्रं मलिनीभूतम् । एवं चारित्र - वस्त्रमप्यपरा परैस्तरगुणापराधैरुपलिप्यमानमचिरादेव मलिनीभवतीति ॥ तदेवमुत्तरगुणप्रतिसेवी कालेन चारित्रात् परिभ्रश्यतीति स्थितम् । अथ कृतिकर्मविषयं विशेषं बिभणिषुराह – “अंतो भयणा" इत्यादि पूर्वार्धम् । यः संयमश्रेणेः 'अन्तः' मध्ये 30 स्थितस्तस्य कृतिकर्मकरणे भजना, सा चाग्रे दर्शयिष्यते । यस्तु श्रेणेर्बहिर्निगतस्तस्य कृति - कर्म न कर्तव्यम् । तथा च मरुकः - ब्राह्मणस्तस्य दृष्टान्तोऽत्र भवति ।। ४५२२ ॥ १ 'ष्टान्तः क्रियते ॥ ४५२२ ॥ पक्क° कां० विना ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444