Book Title: Agam 35 Chhed 02 Bruhatkalpa Sutra Part 04
Author(s): Bhadrabahuswami, Chaturvijay, Punyavijay
Publisher: Atmanand Jain Sabha

View full book text
Previous | Next

Page 360
________________ भाष्यगाथाः ४५३१-३८] तृतीय उद्देशः । १२२५ जना भक्तव्या भवन्ति-गच्छप्रतिवद्धयथालन्दिकाः “आवन्न" ति आपत्रपरिहारिकाः प्रतिमाप्रतिपन्नाः संयत्यश्चेति । यदा सङ्घः कुलादिकार्य कर्तुं न शक्नोति तत एतेऽपि कुर्वन्तीति । वन्दनकार्य तु गच्छप्रतिबद्धयथालन्दिका यस्याचार्यस्य पार्श्वे सूत्रार्थग्रहणं कुर्वते तस्यावमस्यापि कुर्वन्ति, शेषसाधूनां तु न कुर्वन्ति । आपन्नपरिहारिणां प्रतिमाप्रतिपन्नानां संयतीनां च कृतिकर्म क्रियते वा न वा, तेऽपि कुर्वन्ति वा न वेति ।। ४५३४ ॥ इदमेव सविशेषमाह-5 अंतो वि होइ भयणा, ओमे आवण्ण संजतीओ य । बाहिं पि होइ भयणा, अतिवालगवायगे सीसा ॥ ४५३५॥ 'अन्तरपि' श्रेणेरभ्यन्तरतः स्थितानामपि वन्दनकं प्रतीत्य भजना भवति । कथम् ? इत्याह-"ओमि" ति योऽवमरानिकः स आलोचनादौ कार्ये वन्द्यते, अन्यदा तु नेति । "आवन्नि" ति आपन्नपरिहारिको न वन्द्यते, स पुनराचार्यान् वन्दते । “संजईउ" ति संय-10 त्योऽपि उत्सर्गतो न वन्द्यन्ते, अपवादपदे तु यदि बहुश्रुता महत्तरा काचिदपूर्वश्रुतस्कन्धं धारयति ततस्तस्याः सकाशात् तत्र ग्रहीतव्ये उद्देश-समुद्देशादिषु सा फेटावन्दनकेन वन्दनीया। न केवलमन्तः किन्तु श्रेणेर्बहिरपि स्थितानां कृतिकर्मणि भजना मन्तव्या, कारणे तेषामपि कृतिकर्म विधेयमिति भावः । अथ न कुर्वन्ति ततो महान् दोषो भवति, यथा अजापालकवाचकमवन्दमाना अगीतार्थाः शिष्या दोषं प्राप्तवन्त इति वाक्यशेषः । अथवा “सीस" ति15 संविमविहाराद् लिङ्गाद्वा परिच्युतं स्वगुरुं रहसि शीर्षेण प्रणम्य वक्तव्यम्-भगवन् ! युष्माभिः परित्यक्ताः सन्तः साम्प्रतमनाथा वयम् , अतः कुरुतोद्यमं भूयश्चरणकरणानुपालनायामिति ॥ ४५३५ ॥ अथ "ओमे आवण्ण संजईओ" ति गाथावयवं विवृणोति आलोयण-सुत्तट्टा, खामण ओमे य संजतीसुं च। आवण्णों कजकजं, करेइ ण य वंदती अगुरुं ॥ ४५३६ ॥ 20 आलोचनानिमित्तं सूत्रार्थग्रहणार्थ चावमस्यापि वन्दनकं दातव्यम् । क्षामणके तु स एव । रत्नाधिकानां वन्दनकं दद्यात् । संयतीनामप्यालोचना-सूत्रार्थनिमित्तं कृतिकर्म कर्त्तव्यम् । यः पुनरापन्नपरिहारिकः सः 'कार्यकार्य' कुलकार्यादि करोति । "अगुरुं" ति गुरुं मुक्त्वा न कमपि साधु वन्दते । उपलक्षणमिदम् , तेन न चासौ केनापि साधुना वन्द्यते ॥ ४५३६ ॥ अथ अजापालकदृष्टान्तमाह पेसविया पचतं, गीतासति खित्तपेहग अगीया। पेहियखित्ता पुच्छंति वायगं कत्थ रण्णे ति ॥ ४५३७॥ ओसकते द९, संकच्छेती उ वातगो कुविओ । पल्लिवति कहण रुंभण, गुरु आगम वंदणं सेहा ॥ ४५३८ ॥ केनचिदाचार्येण गीतार्थाभावेऽगीतार्थाः साधवः प्रत्यन्तपळ्या क्षेत्रप्रत्युपेक्षकाः प्रेषिताः। 30 तत्र च भ्रष्टव्रत एको वाचको राजकुले यत्कृतप्रमाणः परिवसति । ते च प्रत्युपेक्षितक्षेत्राः साधवस्तं वाचकं लोकस्य समीपे पृच्छन्ति-कुत्रासौ तिष्ठति । । लोकेनोक्तम्-अरण्ये । तत१°हारिक प्रतिमाप्रतिपन्नसाधु-संयतीनां तु कृति भा० ॥ 25 Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444