Book Title: Agam 35 Chhed 02 Bruhatkalpa Sutra Part 04
Author(s): Bhadrabahuswami, Chaturvijay, Punyavijay
Publisher: Atmanand Jain Sabha

View full book text
Previous | Next

Page 358
________________ 5 भाष्यगाथाः ४५२३-३०] तृतीय उद्देशः । १२२३ कुणमाणो वि य कडणं, कतकरणो णेव दोसमन्मेति । अप्पेण बहुं इच्छइ, विसुद्धआलंबणो समणो ॥ ४५२६ ॥ "कडणं" कटकमदं कुर्वाणोऽपि 'कृतकरणः' पुलाको नैव खल्पमपि दोषम् 'अभ्येति' प्रामोति । कुतः ? इत्याह-यतोऽसौ श्रमणो विशुद्धालम्बनः सन् अल्पेन संयमव्ययेन बहुं संयमलाभमिच्छति ॥ ४५२६ ॥ अमुमेवार्थ समर्थयन्नाह संजमहेउं अजतत्तणं पि ण हु दोसकारगं बिति । पायण वोच्छेयं ना, समाहिकारो वणादीणं ॥ ४५२७ ॥ - प्रावचनिकादेः प्राणव्यपरोपणाद्युपद्रवरक्षणेन यः संयमस्तद्धेतोः-तन्निमित्रं पुलाकादेरयतत्वमपि 'नहि' नैव दोषकारकं ब्रुवते । यथा 'समाधिकारः' वैद्यो व्रणादीनां यत् तथाविधौषधप्रलेपनेन पाचनं यच्च शस्त्रादिना विच्छेदनं यद् वा 'व्यवच्छेदं' लङ्घनं कारयति तत् तदानीं 10 पीडाकरमपि परिणामसुन्दरमिति कृत्वा न, सदोषम् एवमिदमपीति ॥ ४५२७ ॥ अथ परस्याभिप्रायमाशङ्कमान आह तत्थ भवे जति एवं, अणं अण्णेण रक्खए भिक्खू । अस्संजया वि एवं, अन्नं अनेण रक्खंति ॥ ४५२८ ।। 'तत्र' इत्यनन्तरोक्तेऽर्थेऽभिहिते सति भवेत् परस्याभिप्राय इति वाक्यशेषः-यद्येवं 10 'भिक्षुः' पुलाकादिः 'अन्यम्' आचार्यादिकम् 'अन्येन' स्कन्धावारादिना कृत्वा रक्षति, एकस्य विनाशेनापरं पालयतीति भावः, तत एवम् 'असंयता' गृहस्था अप्यन्यमन्येन रक्षन्त्येव, अतो न कश्चिदसंयतानां संयतानां च प्रतिविशेषः ।। ४५२८ ॥ एवं परेणोक्ते सूरिराहनहु ते संजमहेउं, पालिति असंजता अजतभावे । 20 अच्छित्ति-संजमहा, पालिँति जती जतिजणं तु ॥ ४५२९॥ 'नहि' नैव 'ते' असंयताः 'अयतभावव्यवस्थितान्' गृहस्थान् संयमहेतोः पालयन्ति, किन्तु खात्मनो जीविकादिनिमित्तम् । ये तु यतयस्ते या तीर्थस्याव्यवच्छित्तिर्यश्च तेषां रक्ष्यमाणानामात्मनश्चान्योऽन्योपकारद्वारेण संयमस्तदर्थ यतिजनं पालयन्ति । तुशब्दो विशेषणार्थः, एष विशेषः साधूनां गृहस्थानां चेति ॥ ४५२९ ॥ किञ्च 25 कुणइ वयं धणहेउं, धणस्स धणितो उ.आगमं गाउं । इय संजमस्स वि वतो, तस्सेवऽट्टा ण दोसाय ॥ ४५३०॥ ___ यथा धनिको वाणिज्यं कुर्वन् 'आगम' लाभं ज्ञात्वा 'धनहेतोः' द्रव्योपार्जनार्थ शुल्क-कर्मकरवृत्ति-भाटकादिप्रदानेन धनस्य व्ययं करोति, "इय" एवं पुलाकादेर्मूलगुणप्रतिसेवनां कुर्वाणस्य यः कोऽपि संयमस्य व्ययः सः 'तस्यैव' संयमस्यार्थाय विधीयमानो न दोषाय 30 सञ्जायते, ततः पुष्टालम्बनसहितो मूलगुणप्रतिसेव्यपि शुद्ध इति स्थितम् ॥ १५३० ॥ १°स्स वणि भा० ताभा०। एतदनुसारेणैव भा. टीका, दृश्यतां टिप्पणी २॥ २°था वणिय वाणि भा०॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444