Book Title: Agam 35 Chhed 02 Bruhatkalpa Sutra Part 04
Author(s): Bhadrabahuswami, Chaturvijay, Punyavijay
Publisher: Atmanand Jain Sabha

View full book text
Previous | Next

Page 363
________________ १२२८ सनिर्युक्ति-लघुभाष्य-वृत्तिके बृहत्कल्पसूत्रे [कृतिकर्मत्रकृते सूत्रम् १८ मन्यमानः सुखशीलविहारितां परिहरति । " इय" एवंविधमपि कारणमवलम्ब्य परिहार्यः कृतिकर्मणि सुखशीलजनः, न केवलं पूर्वोक्तं दोषजालमाश्रित्येत्यपिशब्दार्थः । अपि च तस्य कृतिकर्मणि विधीयमाने तदीयायाः सावद्यक्रियाया अप्यनुमतिः कृता भवति, अतः सा मा भूदिति बुद्ध्याऽपि न वन्दनीयोऽसौ || ४५४६ ॥ किञ्च— लोए वेदे समए, दिट्ठो दंडो अकजकारीणं । [ आव.नि. १६०५ ] दम्मंति दारुणा वि हु, दंडेण जहावराहेण ॥। ४५४७ ।। 'लोके' लोकाचारे 'वेदे' समस्तदर्शनिनां सिद्धान्ते 'समये' राजनीतिशास्त्रे 'अकार्यकारिणां ' चौरिकाद्यपराधविधायिनां ‘दण्ड : ' असम्भाव्यता - शलाका - निर्यूहणादिलक्षणः प्रयुज्यमानो दृष्टः । कुतः पुनरसौ प्रयुज्यते ? इत्याह – 'दारुणाः' रौद्रास्तेऽपि 'यथापराधेन' अपराधानुरूपेण 10 दण्डेन दीयमानेन 'दम्यन्ते' वशीक्रियन्ते । अत इहापि मूलगुणाद्यपराधकारिणां कृतिकर्मवर्जनादिको दण्डः प्रयुज्यते । एतच्च कारणाभावमङ्गीकृत्योक्तम्, कारणे तु वाइनमस्कारादिकं वन्दनकपर्यन्तं सर्वमपि कर्तव्यम् ॥ ४५४७ ॥ यत आह वायाए कम्मुणावा, तह चिट्ठति जह ण होति से मनुं । पस्सति जतो अवायं, तदभावे दूरतो वजे ।। ४५४८ ॥ 15 'यतः' पार्श्वस्थादेः सकाशात् कृतिकर्मण्यविधीयमाने 'अपायं' संयमा - ऽऽत्मविराधनादिकं पश्यति तं प्रति 'वाचा' मधुरसम्भाषणादिना 'कर्मणा' शिरः प्रणामक्रियया तथा चेष्टते यथा तस्य 'मन्युः ' स्वल्पमप्यप्रीतिकं न भवति । अथावन्दनेऽपि संयमोपघातादिरपायो न भवति ततस्तस्य- अपायस्याभावे दूरतस्तं सुखशीलजनं वर्जयेत्, एष विषयविभागः कृतिकर्मकरणाSकरणयोरिति भावः ॥ ४५४८ ॥ न पुनस्तेषां वन्दने कारणानीत्याह एताइँ अकुव्वतो, जहारिहं अरिहदेसिए मग्गे । 5 20 ण भवति पवयणभत्ती, अभत्तिमता दिया दोसा ।। ४५४९ ।। ‘एतानि' वाङ्नमस्कारादीनि पार्श्वस्थादीनां 'यथाऽर्ह' यथायोग्यमर्हद्देशिते मार्गे स्थितः सन् कषायोत्कटतया यो न करोति तेन प्रवचने भक्तिः कृता न भवति, किन्तु अभक्तिमत्त्वादयो दोषा भवन्ति; तत्राऽऽज्ञाभङ्गेन भगवतामभक्तिमत्त्वं भवति, आदिशब्दात् स्वार्थपरिभ्रंशः 26 चारिक - हेरिकाद्यभ्याख्यानप्राप्तिः बन्धनादयश्च दोषा भवन्ति ॥ ४५४९ ॥ पुनस्तेषां वन्दने कारणानि ? इत्याह परिवार परिस पुरिसं, खित्तं कालं च आगमं नाउं । कारणजाते जाते, जहारिहं जस्स कायव्वं ॥ ४५५० ।। परिवारं पर्षदं पुरुषं क्षेत्रं कालं च आगमं ज्ञात्वा तथा कारणानि - कुल-गणादिप्रयोजनानि 20 तेषां जातं - प्रकारः कारणजातं तत्र 'जाते' उत्पन्ने सति 'यथार्ह' यस्य पुरुषस्य यद वाचिकं कायिकं वा वन्दनमनुकूलं तस्य तत् कर्त्तव्यम् ॥ ४५५० ॥ अथ परिवारादीनि पदानि व्याचष्टे किञ्च - परिवार भा० ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444