Book Title: Agam 35 Chhed 02 Bruhatkalpa Sutra Part 04
Author(s): Bhadrabahuswami, Chaturvijay, Punyavijay
Publisher: Atmanand Jain Sabha

View full book text
Previous | Next

Page 347
________________ १२१२ सनियुक्ति-लघुभाष्य-वृत्तिके बृहत्कल्पसूत्रे [कृतिक र्मप्रकृते सूत्रम् १८ तद् हीलितवन्दनकम् । द्वाविंशं दोषमाह--'दरवन्दिते' अर्धवन्दनके दत्ते सति देशीकथावृत्तान्तान् यत्र करोति तद् विपरिकुञ्चितम् ॥ ४४८९ ॥ दृष्टादृष्टदोष शृङ्गदोषं चाह अंतरितो तमसे वा, ण वंदती वंदती उ दीसंतो।। एयं दिट्ठमदिटुं, सिंगं पुण कुंभगणिवातो॥ ४४९० ॥ । बहुषु वन्दमानेषु साध्वादिना केनचिदन्तरितः 'तमसि वा' सान्धकारप्रदेशे व्यवस्थितो मौनं विधाय उपविश्य वाऽऽस्ते न तु वन्दते, दृश्यमानस्तु वन्दते यत्र तद् दृष्टादृष्टवन्दनकम् । तथा कुम्भशब्देनेह ललाटमुच्यते, तस्य वाम-दक्षिणपार्श्वयोर्यो निपातः-हस्ताभ्यां स्पर्शनं तद्युक्तं वन्दनकं शृङ्गमुच्यते । एतदुक्तं भवति-"अहोकायं" इत्याद्यावान् कुर्वन् कराभ्यां न ललाटस्य मध्यदेशं स्पृशति किन्तु वामपाय दक्षिणपार्था वा स्पृशतीति ॥ ४४९० ॥ 10 गाथापूर्वार्धन करलक्षणं पश्चार्धेन तु मोचनलक्षणं दोषमाह करमिव मन्नइ दितो, वंदणगं आरहंतिय करु त्ति । लोइयकरस्स मुक्का, न मुच्चिमो वंदणकरस्स ॥ ४४९१ ॥ वन्दनकं ददत् 'करमिव' राजदेयभागमिव मन्यते, आईतोऽयं कर इति । गृहीतव्रताश्च वयं लौकिककराद् मुक्तास्तावन्न मुच्यामहे वन्दनकरस्याहतस्येति ॥ ४४९१ ॥ 18 सप्तविंशं दोषमाह __ आलिट्ठमणालिट्टे, रयहर सीसे य होति चउभंगो। वयण-करणेहिँ ऊणं, जहन्नकाले व सेसेहिं ॥ ४४९२ ॥ आश्लिष्टमनाश्लिष्टं चेति पदद्वयमाश्रित्य रजोहरण-शिरसोर्विषये चतुर्भङ्गिका भवति, सा च "अहोकायं काय” इत्याद्यावर्तकाले सम्भवति--रजोहरणं कराभ्यामाश्लिष्यति शिरश्चे20 त्येकः, रजोहरणं श्लिष्यति न शिर इति द्वितीयः, शिरः श्लिष्यति न रजोहरणमिति तृतीयः, न रजोहरणं न शिरश्च श्लिष्यति इति चतुर्थो भङ्ग इति । अत्राद्यो भङ्गः शुद्धः, शेषभङ्गत्रये आश्लिष्टानाश्लिष्टदोषदुष्टं प्रकृतवन्दनमवतरति । अष्टाविंशं दोषमाह-वचनैः-आलापकैः करणैर्वा-अवनामादिभिरावश्यकैः 'न्यून' हीनं यद् वन्दते, यद्वा कश्चिदत्युत्सुकतया 'जघन्येनैव' स्वल्पेनैव कालेन वन्दनं समापयति शेषैर्वा साधुभिर्वन्दिते सति पश्चाद् वन्दते तद् न्यूनं 25 नाम वन्दनकम् ॥ ४४९२ ॥ एकोनत्रिंशं त्रिशं च दोषमाह दाऊण वंदणं मत्थएण वंदामि चूलिया एसा। तुसिणी आवत्ते पुण, कुणमाणो होइ मूयं तु ॥ ४४९३ ॥ यद् वन्दनकं दत्त्वा पश्चाद् महता शब्देन 'मस्तकेन वन्दे" इति ब्रूते एषा उत्तरचूलिका मन्तव्या । यत् 'तूष्णीकतया' मौनेन आवर्तान् द्वादशापि कुर्वाणो वन्दते तद् मूकवन्दनक 30 भवति ॥ ४४९३ ।। एकत्रिंशं द्वात्रिंशं च दोषमाह __उच्चसरेणं वंदइ, ढड्डर एयं तु होइ बोधव्यं । १श्यकैः शेषैः' अवशिष्यमाणैरपि यत्रात्युत्सुकतया 'जघन्येनैव' स्वल्पेनैव कालेन वन्दनं समापयति तद् न्यूनम् ॥ ४४९२ ॥ एको' भा० ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444