________________
१२१२ सनियुक्ति-लघुभाष्य-वृत्तिके बृहत्कल्पसूत्रे [कृतिक र्मप्रकृते सूत्रम् १८ तद् हीलितवन्दनकम् । द्वाविंशं दोषमाह--'दरवन्दिते' अर्धवन्दनके दत्ते सति देशीकथावृत्तान्तान् यत्र करोति तद् विपरिकुञ्चितम् ॥ ४४८९ ॥ दृष्टादृष्टदोष शृङ्गदोषं चाह
अंतरितो तमसे वा, ण वंदती वंदती उ दीसंतो।।
एयं दिट्ठमदिटुं, सिंगं पुण कुंभगणिवातो॥ ४४९० ॥ । बहुषु वन्दमानेषु साध्वादिना केनचिदन्तरितः 'तमसि वा' सान्धकारप्रदेशे व्यवस्थितो मौनं विधाय उपविश्य वाऽऽस्ते न तु वन्दते, दृश्यमानस्तु वन्दते यत्र तद् दृष्टादृष्टवन्दनकम् । तथा कुम्भशब्देनेह ललाटमुच्यते, तस्य वाम-दक्षिणपार्श्वयोर्यो निपातः-हस्ताभ्यां स्पर्शनं तद्युक्तं वन्दनकं शृङ्गमुच्यते । एतदुक्तं भवति-"अहोकायं" इत्याद्यावान् कुर्वन् कराभ्यां
न ललाटस्य मध्यदेशं स्पृशति किन्तु वामपाय दक्षिणपार्था वा स्पृशतीति ॥ ४४९० ॥ 10 गाथापूर्वार्धन करलक्षणं पश्चार्धेन तु मोचनलक्षणं दोषमाह
करमिव मन्नइ दितो, वंदणगं आरहंतिय करु त्ति ।
लोइयकरस्स मुक्का, न मुच्चिमो वंदणकरस्स ॥ ४४९१ ॥ वन्दनकं ददत् 'करमिव' राजदेयभागमिव मन्यते, आईतोऽयं कर इति । गृहीतव्रताश्च वयं लौकिककराद् मुक्तास्तावन्न मुच्यामहे वन्दनकरस्याहतस्येति ॥ ४४९१ ॥ 18 सप्तविंशं दोषमाह
__ आलिट्ठमणालिट्टे, रयहर सीसे य होति चउभंगो।
वयण-करणेहिँ ऊणं, जहन्नकाले व सेसेहिं ॥ ४४९२ ॥ आश्लिष्टमनाश्लिष्टं चेति पदद्वयमाश्रित्य रजोहरण-शिरसोर्विषये चतुर्भङ्गिका भवति, सा च "अहोकायं काय” इत्याद्यावर्तकाले सम्भवति--रजोहरणं कराभ्यामाश्लिष्यति शिरश्चे20 त्येकः, रजोहरणं श्लिष्यति न शिर इति द्वितीयः, शिरः श्लिष्यति न रजोहरणमिति तृतीयः, न रजोहरणं न शिरश्च श्लिष्यति इति चतुर्थो भङ्ग इति । अत्राद्यो भङ्गः शुद्धः, शेषभङ्गत्रये आश्लिष्टानाश्लिष्टदोषदुष्टं प्रकृतवन्दनमवतरति । अष्टाविंशं दोषमाह-वचनैः-आलापकैः करणैर्वा-अवनामादिभिरावश्यकैः 'न्यून' हीनं यद् वन्दते, यद्वा कश्चिदत्युत्सुकतया 'जघन्येनैव' स्वल्पेनैव कालेन वन्दनं समापयति शेषैर्वा साधुभिर्वन्दिते सति पश्चाद् वन्दते तद् न्यूनं 25 नाम वन्दनकम् ॥ ४४९२ ॥ एकोनत्रिंशं त्रिशं च दोषमाह
दाऊण वंदणं मत्थएण वंदामि चूलिया एसा।
तुसिणी आवत्ते पुण, कुणमाणो होइ मूयं तु ॥ ४४९३ ॥ यद् वन्दनकं दत्त्वा पश्चाद् महता शब्देन 'मस्तकेन वन्दे" इति ब्रूते एषा उत्तरचूलिका मन्तव्या । यत् 'तूष्णीकतया' मौनेन आवर्तान् द्वादशापि कुर्वाणो वन्दते तद् मूकवन्दनक 30 भवति ॥ ४४९३ ।। एकत्रिंशं द्वात्रिंशं च दोषमाह
__उच्चसरेणं वंदइ, ढड्डर एयं तु होइ बोधव्यं । १श्यकैः शेषैः' अवशिष्यमाणैरपि यत्रात्युत्सुकतया 'जघन्येनैव' स्वल्पेनैव कालेन वन्दनं समापयति तद् न्यूनम् ॥ ४४९२ ॥ एको' भा० ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org