________________
१२१३
भाष्यगाथाः ४४९०-९८] तृतीय उद्देशः ।
चुडुलि व्य गिहिऊणं, रयहरणं होइ चुडुलीओ॥ ४४९४ ॥ 'उच्चस्वरेण' महता शब्देन वन्दनकसूत्रमुच्चारयन् यद् वन्दते तदेतद् ढङ्करमिति बोद्धव्यम् । चुडली नाम-उल्का तामिव पर्यन्ते गृहीत्वा रजोहरणं भ्रामयन् यद् वन्दते स चुडुलिका नाम द्वात्रिंशो दोष इति ॥ ४४९४ ॥ साम्प्रतमेतेष्वेव प्रायश्चित्तमाहथद्धे गारव तेणिय, हीलिय रुट्ठ लहुगा सढे गुरुगो।
। दुट्ट पडिणीय तजित, गुरुगा सेसेसु लहुगो तु ॥ ४४९५ ॥ स्तब्ध-गौरव-स्तेनित-हीलित-रुष्टेषु प्रत्येकं चतुर्लघवः । शठे मायादोषप्रत्ययं मासगुरुकम् । दुष्ट-प्रत्यनीक-तर्जितेषु चत्वारो गुरुकाः । शेषेषु' अनादृत-प्रविद्ध-परिपिण्डितादिषु त्रयोविंशतौ दोषेषु प्रत्येकमसामाचारीनिष्पन्नं मासलघु ॥ ४४९५ ॥ अथ कृतिकर्मकरणविधिमाह
आयरिय-उवज्झाए, काऊणं सेसगाण कायव्वं । पिं.नि. ४७५] 10
उप्परिवाडी मासिग, मदरहिए तिणि य थुतीओ ॥ ४४९६ ॥ प्रतिक्रमणसूत्राकर्षणानन्तरमाचार्योपाध्याययोः प्रथमं कृतिकर्म कृत्वा ततः शेषसाधूनां यथारनाधिकक्रमं कर्त्तव्यम् । अथोत्परिपाट्या वन्दते ततो लघुमासिकम् । तेनापि चाचार्यादिना मदरहितेन वन्दनकं प्रतीच्छनीयम् । प्रतिक्रमणे च समापिते तिस्रः स्तुतयः खरेण च्छन्दसा च प्रवर्धमाना दातव्याः ॥ ४४९६ ॥
15 आह-शेषसाधूनां किं सर्वेषामपि वन्दनं विधेयम् ? उत न ? इति अत्रोच्यते
जा दुचरिमो त्ति ता होइ वंदणं तीरिए पडिकमणे।।
आइण्णं पुण तिण्हं, गुरुस्स दुण्डं च देवसिए ॥४४९७ ॥ 'प्रतिक्रमणे' प्रतिक्रमणसूत्रे 'तीरिते' पारं प्रापिते सति वन्दनं भवति यावद् द्विचरमः साधुः, द्वौ साधू अवशिष्यमाणौ यावत् सर्वेषामपि वन्दनं कृत्वा क्षामणकं कर्त्तव्यमिति भावः । 20 एष विधिः पूर्वं चतुर्दशपूर्वधर-दशपूर्वधरादिकाले आसीत् , सम्प्रति पुनः पूर्वाचाराचीर्णमिदम्-त्रयाणां साधूनां वन्दनकं कर्त्तव्यम् , तत्रैकस्य गुरोर्द्वयोश्च शेषसाध्वोः पर्यायज्येष्ठयोदेवसिके उपलक्षणत्वाद् रात्रिके चावश्यकेऽयं विधिरवगन्तव्यः । पाक्षिके तु पञ्च साधवो वन्दित्वा क्षमयितव्याः, चातुर्मासिके सांवत्सरिके च सप्त । आह चावश्यकचूर्णिकृत्पक्खिए पंच अवस्सं, चतुमासिए संवत्सरे य सत्त अवस्सं ति ॥ ४४९७॥ 25
आह–किमत्र कारणं मौलं विधिमुल्लङ्य पूर्वसूरय इत्थमभिनवां सामाचारी स्थापयन्ति ? इति उच्यते
धिइ-संघयणादीणं, मेराहाणिं च जाणि थेरा ।
सेह-अगीतट्ठा वि य, ठवणा आइण्णकप्पस्स ॥ ४४९८ ॥ धृतिः-मानसावष्टम्भरूपा संहननं-वज्रऋषभनाराचादि तयोः आदिशब्दाद् द्रव्य-क्षेत्र- 30 कालादीनां च या परिहाणिर्या च मर्यादायाः-सिद्धान्ताभिहितनिरपवादसामाचारीरूपाया हानिस्तां ज्ञात्वा पूर्वसूरय ऐदंयुगीनसाधुजनोचितस्याचीर्णकल्पस्य स्थापनां कुर्वन्ति । किमर्थम् ? इत्याह-शैक्षाणामगीतार्थानां चानुग्रहार्थम् , मा भूदमीषां बहुतरसाधून् वन्दित्वा क्षम.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org