________________
१२१४ सनियुक्ति-लघुभाष्य-वृत्तिके बृहत्कल्पसूत्रे [ कृतिकर्मप्रकृते सूत्रम् १८ यतां विशिष्टधृति-संहननादिबलाभावात् परिभमानां विपरिणाम इति ॥ ४४९८ ॥ अथाचीर्णस्यैव लक्षणमाह
असढेण समाइण्णं, जं कत्थई कारणे असावजं ।
__ण णिवारियमण्णेहिँ य, बहुमणुमयमेतमाइण्णं ॥ ४४९९ ॥ 5 'अंशठेन' राग-द्वेषरहितेन कालिकाचार्यादिवत् प्रमाणस्थेन सता 'समाचीर्णम्' आचरितं
यद् भाद्रपदशुद्धचतुर्थीपर्युषणापर्ववत् 'कुत्रचिद्' द्रव्य-क्षेत्र कालादौ 'कारणे' पुष्टालम्बने 'असावा' प्रकृत्या मूलोत्तरगुणाराधनाया अबाधकम् , 'न च' नैव निवारितम् 'अन्यैः' तथाविधैरेव तत्कालवर्तिभिर्गीतार्थैः, अपि तु बहु यथा भवति एवमनुमतमेतदाचीर्णमुच्यते
॥ ४४९९ ॥ अथ ये आचार्यस्यापि पर्यायज्येष्ठास्तैः किमाचार्यस्य वन्दनकं कर्तव्यम् ? उत न ? 10 इति अत्रोच्यते
वियडण पञ्चक्खाणे, सुए य रादीणिगा वि हु करिति ।
मज्झिल्ले न करिती, सो चेव करेइ तेसिं तु ॥ ४५००॥ विकटनम्-आलोचनं प्रत्याख्यानं प्रतीतं तयोः तथा श्रुते च उद्दिश्यमान-समुद्दिश्यमानादौ 'रात्निका अपि' ज्येष्ठाचार्या अप्युपसम्पदं प्रतिपन्ना अवमरानिकस्याचार्यस्य वन्दनकं कुर्वन्ति । यत्तु 15 मध्यमं क्षामणकवन्दनं तन्न कुर्वन्ति, किन्तु स एवाचार्यस्तेषां रात्निकानां करोति ॥ ४५०० ॥ अथ यदुक्तम् 'तिस्रः स्तुतयो दातव्याः' (गा० ४४९६) इति तत्र विधिमाह
थुइमंगलम्मि गणिणा, उच्चारितें सेसगा थुती बेंति ।
पम्हुट्ठमेरसारण, विणयो य ण फेडितो एवं ॥ ४५०१॥ पाक्षिकादिषु यद्यप्याचार्योऽवमरानिकस्तथापि स एवावश्यके समापिते प्रथमतस्तिस्रः 20 स्तुतीर्ददाति, दैवसिक-रात्रिकयोरपि प्रथममाचार्येण स्तुतिमङ्गलं प्रारम्भणीयम् , ततः शेषैः ।
अत एवाह-स्तुतिमङ्गले 'गणिना' आचार्येणोच्चारिते सति शेषाः साधवः स्तुतीब्रुवते, ददतीत्यर्थः, दत्त्वा च गुरुपादमूल एव कियन्तमपि कालं तिष्ठन्ति । किमर्थम् ! इति चेद् अत आह-काचिद् मर्यादा-सामाचारी “पम्हुट्ठा" विस्मृता भवेत् तस्याः स्मारणं गुरवः कुर्वीरन् । परमोपकारिणश्च गुरवः, तत एव प्रतिक्रमणानन्तरं कियन्तमपि कालं तेषु पर्युपास्य25 मानेषु विश्रामणादिविधानेन विनयोऽपि न स्फेटितः' न हापितो भवति ॥ ४५०१॥ अथ के पुनस्ते ये आचार्यस्यापि रत्नाधिका भवन्ति ? इति उच्यते
अन्नसिं गच्छाणं, उवसंपन्नाण वंदणं तहियं ।।
बहुमाण तस्स वयणं, ओमे वाऽऽलोयणा भणिया ॥ ४५०२॥ अन्येषां गच्छानां सम्बन्धिन आचार्या रत्नाधिकतराः सूत्रार्थनिमित्तं कमप्यवमरानिकमाचार्य१°इ केणई असा भा० ताभा० । एतदनुसारेणैव भा. टीका, दृश्यतां टिप्पणी २ ॥२ 'अशठेन' अमायाविना सता 'समाचीर्णम्' आचरितं यद् भाद्रपदशुक्लचतुर्थीपर्युषणापर्ववत् 'कुत्र. चिद् द्रव्य-क्षेत्र कालादौ 'केनचित्' प्रमाणस्थेन संविग्नगीतार्थादिगुणभाजा कालिकाचार्यादिना 'असावा' भा० ॥ ३ थुती दिति ताभा० विना ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org