________________
भाष्यगाथाः १४९९-४५०७] तृतीय उद्देशः ।
१२१५ मुपसम्पन्नास्तेषां मध्यमवन्दनकमवमरानिकेन दातव्यम् । शेषकालं तेऽपि रानिकाः 'तस्य' अधमरानिकस्य 'बहुमान' 'पूज्योऽयमस्माकं गुणाधिकतया' इति लक्षणं 'वचनं च' आज्ञानिर्देशं कुर्वन्ति । अवमेऽपि च तत्रालोचना भणिता भगवद्भिः । किमुक्तं भवति ?-तस्य पुरत आलोचनं प्रत्याख्यानं च वन्दनकं दत्त्वा विधेयमिति भगवतामुपदेशः ॥ ४५०२ ॥ अथ परः प्राह-कस्य पुनः कृतिकर्म कर्तव्यम् ? कस्य वा न ? इति उच्यते- 5
सेढीठाणठियाणं, कितिकम्म बाहिराण भयितव्वं ।
सुत्त-ऽत्थजाणएणं, कायव्वं आणुपुवीए ॥ ४५०३ ॥ संयमश्रेण्याः सम्बन्धीनि विशुद्धिप्रकर्षापकर्षकृतखरूपभेदरूपाणि यानि स्थानानि तेषु स्थितानां साधूनां कृतिकर्म कर्त्तव्यम् । ये तु संयमश्रेणिस्थानेभ्यो बाह्यास्तेषां 'भक्तव्यं' कर्त्तव्यं वा न वेति भावः । तत्र कारणे समुत्पन्ने 'सूत्रार्थज्ञेन' गीतार्थेन 'आनुपूर्व्या' “वायाइ नमो- 10 कारो" (गा० ४५४५) इत्यादिकया वक्ष्यमाणपरिपाट्या कर्त्तव्यम् , अन्यथा तु नेति पुरातनगाथासमासार्थः ॥ ४५०३ ॥ साम्प्रतमेनामेव विवरीषुराह
सेढीठाणठियाणं, कितिकम्मं सेढि इच्छिमो गाउं ।
तम्हा खलु सेढीए, कायव्य परूवणा इणमो॥ ४५०४॥ संयमश्रेणिस्थानस्थितानां कृतिकर्म कर्त्तव्यमित्युक्ते कश्चिद् विनेयो ब्रूयात्-वयं तामेव 15 श्रेणिं प्रथमतो ज्ञातुमिच्छामः । सूरिराह-यत एवं भवतः श्रेणिविषया जिज्ञासा तस्मादस्माभिरपि कर्तव्या श्रेणेः प्ररूपणा 'इयं' वक्ष्यमाणलक्षणा ॥ ४५०४ ॥ अतस्तामेव चिकीर्षुः प्रथमतः श्रेणिस्थितानां कृतिकर्मकरणे विधिमाह
पुव्वं चरित्तसेढीठियस्स पच्छाठिएण कायव्वं । __ सो पुण तुल्लचरित्तो, हविज ऊणो व अहिओ वा ॥ ४५०५ ॥ 20 'पूर्व प्रथमं यः सामायिकस्य छेदोपस्थापनीयस्य वा प्रतिपत्त्या चारित्रश्रेण्यां स्थितस्तस्य पश्चास्थितेन कृतिकर्म कर्त्तव्यम् । ‘स पुनः' पूर्वस्थितस्तं पश्चास्थितमपेक्ष्य निश्चयतस्तुल्यचारित्रो न्यूनो वाऽधिको वा भवेत् ॥ ४५०५ ॥ यतः
निच्छयओ दुन्नेयं, को भावे कम्मि वट्टई समणो ।
ववहारओ य कीरइ, जो पुव्वठिओ चरित्तम्मि ॥ ४५१६॥ 'निश्चयतः' तत्त्ववृत्त्या कः पूर्वस्थितः पश्चास्थितो वा श्रमणः कस्मिन् 'भाव' चारित्राध्यवसायरूपे मन्दे मध्ये तीव्र वा वर्त्तते इति दुर्जेयम् , तदपरिज्ञानाच्च कथं निश्चयनयाभिप्रायेण कृतिकर्म कत्तुं शक्यम् ? । 'व्यवहारतस्तु' व्यवहारनयमङ्गीकृत्य पुनः क्रियते कृतिकर्म यः पूर्व चारित्रे स्थितस्तस्येति ॥ ४५०६ ॥ ननु फलसाधकत्वाद् निश्चयस्यैव प्रामाण्यं न व्यवहारस्य इत्याह
30 ववहारो वि हु बलवं, जं छउमत्थं पि वंदई अरिहा ।
जा होइ अणाभिन्नो, जाणंतो धम्मयं एवं ॥४५०७॥ व्यवहारोऽपि, आस्तां निश्चय इत्यपिशव्दार्थः 'हुः' निश्चितं बलवान् , यद् यस्मात्
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org