________________
भाष्यगाथाः ४४८१-८९] तृतीय उद्देशः ।
१२११ 'हन्दि' इतीहलोकसाधककारणोपप्रदर्शने । अतिशयादरेण 'वन्दे' प्रणमामि "ण"मिति एनमाचार्यम् , 'तेन च' वन्दनकप्रदानेन हेतुभूतेन पश्चादमुं किश्चिद् . वस्त्रादि 'प्रणयिष्ये' याचिष्ये, न चासौ मम 'प्रणयभङ्ग' प्रार्थनाभङ्गं करिष्यति । कथम्भूतः सन् ? इत्याहवन्दनकमेव मूल्यं तत्र भावः-अभिप्रायो यस्य सूरेः स तथाभूतः, वन्दनकमूल्यवशीकृत इत्यर्थः, इत्यभिप्रायवतः कारणवन्दनकं भवतीति ॥ ४४८४ ॥ षोडशं दोषमाह- 5
हाउं परस्स चक्खं, वंदंते तेणियं हवइ एतं ।
तेणो इव अत्ताणं, गृहइ ओभावणा मा मे ॥ ४४८५ ॥ 'हापयित्वा' वञ्चयित्वा 'परस्य' साधु-श्रावकादेः 'चक्षुः' दृष्टिं गुरुं वन्दमानस्य शिष्यस्य स्तैन्यं वन्दनकं भवति । एतदेव स्पष्टतरं व्याचष्टे-'स्तेन इव' तस्कर इवान्यसाध्वाद्यन्तर्धानेनात्मानं गृहयति, कस्मात् ? इत्याह-"ओभावणा मा मे" त्ति असावप्यतिविद्वान् किम-10 न्येषां वन्दनकं प्रयच्छति ? इत्येवम्भूताऽपभ्राजना मम मा भूदिति ॥ ४४८५ ।। सप्तदशं दोषमाह
आहारस्स उ काले, णीहारुस्सावि होइ पडिणीयं ।
रोसेण धमधमेंतो, जं वंदति रुटमेयं तु ॥ ४४८६ ॥ आहारस्य नीहारस्य वा 'उभयस्य' मूत्र-पुरीषलक्षणस्य काले यत्र वन्दते तत् प्रत्यनीकम् । 10 अष्टादशं दोषमाह-रोषेण' खविकल्पजनितेन क्रोधेन 'धमद्धमन्' जाज्वल्यमानो यद् वन्दते तद् रुष्टं वन्दनकमिति ॥ ४४८६ ॥ एकोनविंशं दोषमाह---
न वि कुप्पसि न पसीयसि, कट्ठसिवो चेव तज्जियं एयं ।
सीसंगुलिमादीहि व, तजेति गुरुं पणिवयंतो ॥ ४४८७ ॥ . काष्ठघटितशिवदेवताविशेष इवावन्द्यमानो न कुप्यसि, तथा वन्द्यमानोऽप्यविशेषज्ञतया न 20 प्रसीदसीत्येवं तर्जयन्-निर्भर्त्सयन् यत्र वन्दते तत् तर्जितम् । यदि वा 'मेलापकमध्ये वन्दनकं मां दापयस्तिष्ठस्याचार्य ! परं ज्ञास्यते तवैकाकिनः' इत्यभिप्रायवान् यदा शीर्षण अङ्गुल्या वा-प्रदेशिनीलक्षणया गुरुं 'प्रणिपतन्' वन्दमानस्तर्जयति तद् वा तर्जितम् ॥ ४४८७ ॥ - विंशतितमं दोषमाहवीसंभट्ठाणमिणं, सब्भावजढे सदं हवइ एतं ।
25 कवडं ति कययवं ति य, सढया वि य होंति एगट्ठा ॥ ४४८८ ॥ विश्रम्भः-विश्वासस्तस्य स्थानमिदं वन्दनकम् , एतस्मिन् यथावद् दीयमाने श्रावकादयो विश्वसन्तीत्यभिप्रायेणैव 'सद्भावरहिते' अन्तर्वासनाशून्ये वन्दमाने शिष्ये शठमेतद् वन्दनकं भवति । शठशब्दमेव पर्यायशब्दाचष्टे-कपटमिति वा कैतवमिति वा शठताऽपि वा इति एकार्थाः शब्दा भवन्ति ॥ ४४८८ ॥ एकविंशं दोषमाह
गणि! वायग! जिट्ठज्ज !, त्ति हीलियं किं तुमे पणमितेण ।
देसीकहवित्तंते, कधेति दरवंदिए कुंची ॥ ४४८९ ।। गणिन् ! वाचक ! ज्येष्ठार्य ! किं त्वया वन्दितेन ? इत्यादि सोत्यासं हीलयित्वा यत्र वन्दते
30
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org