________________
अप्प - परपचिएणं, मणप्पदोसो अगउडाणो ।
पंचे वेइयाओ, भयं तु णिज्जूहणाईयं ॥ ४४८१ ॥
मनः प्रद्वेषः 'अनेकोत्थानः' अनेकनिमित्तो भवति, स च सर्वोऽप्यात्मप्रत्ययेन परप्रत्ययेन b वा स्यात् । तत्रात्मप्रत्ययेन यदा शिष्य एव गुरुणा किञ्चित् परुषमभिहितो भवति, परप्रत्ययेन तु यदा तस्यैव शिष्यस्य सम्बन्धिनः सुहृदादेः सम्मुखं सूरिणा किमप्यप्रियमुक्तं भवतीति । एवंप्रकारैरन्यैरपि स्व-परप्रत्ययैः कारणान्तरैर्मानसः प्रद्वेषो भवति यत्र तद् मनसा प्रदुष्टमुच्यते । दशमं दोषमाह – “पंचेव वेइयाउ" त्ति जानुनोरुपरि हस्तौ निवेश्याधो वा पार्श्वयोर्वा उत्सङ्गे
१२१०
हृत्तम् ॥ ४४८० || नवममाह
सनिर्युक्ति-लघुभाष्य-वृत्तिके बृहत्कल्पसूत्रे [कृतिकर्मप्रकृते सूत्रम् १८
एकं वा जानुं दक्षिणं वामं वा करद्वयान्तः कृत्वा वन्दनकं यत्र करोति तद् वेदिकाबद्धम् । 10 एकादशं दोषमाह – “भयं तु निज्जूहणाईयं” ति निर्यूहणं गच्छान्निष्काशनं तदादिकं यद् भयं तेन यत्र वन्दते तद् भयवन्दनकम् ॥ ४४८१ ॥ द्वादशं दोषमाह -
25
भयति भयस्सति व ममं, इइ वंदति ण्होरगं णिवे संतो । एमेव यमेत्तीए, गारव सिक्खाविणीतोऽहं ॥ ४४८२ ॥
'स्मर्त्तव्यं भो आचार्य ! भवन्तं वन्दमाना वयं तिष्ठामः' इत्येवं निहोरकं निवेशयन् वदन्ते । 15 किमिति ? इत्याह-एष तावद् 'भजते' अनुवर्त्तयति माम्, सेवायां पतितो मे वर्त्तत इत्यर्थः, अग्रे वा मम भजनं करिष्यत्यसौ, ततश्चाहमपि वन्दनकसत्कं निहोरकं निवेशयामीत्यभिप्रायवान् यत्र वन्दते तद् भजमानवन्दनकम् । त्रयोदशं दोषमाह — एवमेवेति कोऽर्थः ? यथा निहोरकदोषदुष्टं वन्दते तथा मैत्र्याऽपि हेतुभूतया कश्चिद् वन्दते, आचार्येण समं मैत्री मम भविष्यतीत्यर्थः, तदिदं मैत्रीवन्दनकम् । चतुर्दशं दोषमाह - " गारव" त्ति सूचामात्रत्वाद् 20 गर्ववन्दनकमिति प्रत्येयम् । कथम्भूतं तत् ? इत्याह – “सिक्खाविणीओ हं" ति शिक्षावन्दनकप्रदानादिसामाचारीविषया तस्यां विनीतः - कुशलोऽहमित्यवगच्छन्त्वमी शेषसाध्वादय इत्यभिप्रायवान् ‘यथावद्' आवर्त्ताद्याराधयन् यत्र वन्दत इति ॥ ४४८२ ॥ पञ्चदशं दोषमाहनाणाइतिगं मुत्तुं कारणमिहलोगसाहगं होइ ।
पूया- गारवहेउं, णाणरगहणे व मेव || ४४८३ ॥
ज्ञान-दर्शन- चारित्रत्रयं मुक्त्वा यत् किमप्यन्यद् 'इहलोकसाधकं' वस्त्रादिकं वन्दनकदानात् साधुरभिलषति तत् कारणं भवतीति प्रतिपत्तव्यम् । ननु ज्ञानादिग्रहणार्थं यदा वन्दते तदा किमेकान्तेनैव कारणं न भवति ? इत्याशङ्कयाह – यदि पूजार्थं गौरवार्थ वा वन्दनकं दत्त्वा विनयपूर्वकं ज्ञानं श्रुतं गृह्णाति, येन लोके पूज्योऽन्येभ्यश्च श्रुतवरेभ्योऽधिकतरो भवामीति तदा तदपि 'एवमेव' कारणवन्दनकं भवतीति ॥ ४४८३ ॥
30
तत्र किमभिप्रायवत इहलोकसाधकं कारणं भवति : इत्याह
Jain Education International
आयरतरेण हंदि, वंदामि 'णं तेण पच्छ पणयिस्सं । वंदणग मोलभावो, ण करिस्सर मे पणयभंगं ॥ ४४८४ ॥
१ ण तो य पच्छ तामा० ॥
For Private & Personal Use Only
www.jainelibrary.org