________________
भाष्यगाथाः ४४७१-८०] तृतीय उद्देशः ।
१२०९ ददद् न यन्त्रितो भवति । अयन्त्रितत्वेन यत्र तत्र वा स्थाने प्रथमप्रवेशादिलक्षणे असमाप्तमपि वन्दनकमुज्झति । क इव यथा किमुज्झति ? इत्याह-"कयकिच्चो वक्खरं चेव" ति, एतदुक्तं भवति-यथा केनचिद् भाटिकेन कुतश्चिद् नगराद् नगरान्तरे 'वक्खरं' भाण्डमुपनीतम् । वक्खरखामिना च भाटिकोऽभिहितः ---प्रतीक्षख कञ्चित् कालं यावदस्य वक्खरस्यावतारणस्थानं किञ्चिदन्वेषयामि । स प्राह-'मयाऽस्मिन्नेव नगरे समानेतव्यमिदमित्येवोक्तम्, अतः कृत-5 कृत्यत्वाद् नातः परं प्रतीक्षेऽहम्' इत्युक्त्वाऽस्थान एव तद् भाण्डमुज्झित्वा गच्छति । एवं साधुरप्यस्थान एव वन्दनकं परित्यज्य नश्यतीत्येतावता दृष्टान्त इति ॥ ४४७७ ॥ चतुर्थ दोषमाह
परिपिडिए व वंदइ, परिपिडियवयण-करणओ वा वि ।
टोलो व्य उफ्फिडंतो, ओसक-ऽहिसकणं दुहओ ॥ ४४७८ ॥ 10 यत्र 'परिपिण्डितान्' एकत्र मिलितानाचार्यादीनेकवन्दनकेनैव वन्दते न पृथक् पृथक् तत् परिपिण्डितमुच्यते; अथवा वचनानि-सूत्रोच्चारणगर्भाणि, करणानि-कर-चरणादीनि', परिपिण्डितानि-अव्यवच्छिन्नानि वचन-करणानि यस्य स तथा, ऊर्वोरुपरि हस्तौ व्यवस्थाप्य सम्पिण्डितकर-चरणोऽव्यक्तसूत्रोच्चारणपुरःसरं यत्र वन्दते तद् वा परिपिण्डितमिति भावः । पञ्चमं दोषमाह-उत्प्वष्कणम्-अग्रतः सरणम् अभिष्वष्कणं-पश्चादपसरणं "दुहओ" ति ते 15 द्वे अपि टोलवद् उत्प्लुत्योत्प्लुत्य करोति यत्र तत् टोलगतिवन्दनकमिति ॥ ४४७८ ।। षष्ठं दोषमाह
उवगरणे हत्थम्मि व, चित्तु णिवेसेति अंकुसं विति ।
ठित-विट्ठरिंगणं जं, तं कच्छभरिंगियं नाम ॥ ४४७९ ॥ यत्राङ्कशेन गजमिव शिष्य आचार्यमूर्द्धस्थितं शयितं प्रयोजनान्तरव्यग्रं वा 'उपकरणे 20 चोलपट्ट-कल्पादौ हस्ते वा अवज्ञया समाकृष्य वन्दनकदानार्थमासने उपवेशयति तद् अङ्कुशं ब्रुवते । नहि पूज्याः कदाचिदप्युपकरणाद्याकर्षणमर्हन्ति अविनयत्वात् , किन्तु प्रणामं कृत्वा कृताञ्जलिपुटैविनयपूर्वकमिदमुच्यते--उपविशन्तु भगवन्तो येन वन्दनकं प्रयच्छामीति अतो दोषदुष्टमिदम् । सप्तमं दोषमाह-स्थितस्योर्द्धस्थानेन "तित्तीसन्नयराए" इत्यादिसूत्रमुच्चारयत उपविष्टस्य वा-आसीनस्य "अहो कायं काय" इत्यादिसूत्रं भणतः कच्छपस्येव-25 जलचरजीवविशेषस्य रिङ्गणम्-अग्रतोऽभिमुखं यत्किञ्चित् चलनं तद् यत्र करोति शिष्यस्तदिदं कच्छपरिङ्गितं नामेति ॥ ४४७९ ॥ अष्टमं दोषमाह
उदित णिवेसंतो, उव्वत्तति मच्छउ व्व जलमज्झे।
वंदिउकामो वऽण्णं, झसो व्य परियत्तती तुरियं ॥ ४४८० ॥ उत्तिष्ठन् निविशमानो वा जलमध्ये मत्स्य इव 'उद्वर्तते' उद्वेल्लयति यत्र तद् मत्स्योद्भुतम् ; 30 अथवा एकमाचार्यादिकं वन्दित्वा तत्समीप एवापरं वन्दना, कञ्चन वन्दितुमिच्छंस्तत्समीपं जिगमिषुरुपविष्ट एव 'झप इव' मत्स्य इव त्वरितमङ्गं परावर्त्य यत्र गच्छति तद् वा मत्स्यो
१°नि सम्पिण्डि' भा०॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org