________________
10
१२०८ सनियुक्ति-लघुभाष्य-वृत्तिके बृहत्कल्पसूत्रे [कृतिकर्मप्रकृते सूत्रम् १८
अणाढियं च थद्धं च, पविद्धं परिपिडियं । [आव.नि.१२०७] टोलगइ अंकुसं चेव, तहा कच्छभरिंगियं ॥४४७१॥ मच्छुव्वत्तं मणसा, य पउटुं तह य वेइयाबद्धं । [आव.नि.१२०८] भयसा चेव भयंतं, मित्ती-गारव-कारणा ॥ ४४७२ ।। तेणियं पडिणियं चेव, रुटुं तजियमेव य । [आव.नि.१२०९] सढं च हीलियं चेव, तहा विप्पलिउंचियं ॥ ४४७३ ॥ दिट्ठमदिटुं च तहा, सिंगं च कर मोअणं । [आव.नि.१२१०] आलिट्ठमणालिटुं, ऊणं उत्तरचूलियं ॥ ४४७४ ॥ मूयं च ढड्डरं चेव, चुडलिं च अपच्छिमं । [आव.नि.१२११]
बत्तीसदोसपरिसुद्धं, किइकम्मं पउंजए ॥४४७५ ॥ अनादृतं च स्तब्धं च प्रवृद्धं परिपिण्डितं टोलगतिः अङ्कुशं चैव तथा कच्छपरिङ्गितमिति प्रथमगाथायां सप्त दोषाः ॥ ४४७१ ॥.
मत्स्योद्वत्तं मनसा प्रद्विष्टं तथा च वेदिकाबद्धं "भयसा चेव" त्ति भयेनैव 'भयंत" ति भजतो वन्दनमपि भजेत् तथा मैत्री गौरवं कारणं चाश्रित्य वन्दनकमिति द्वितीयगाथायामष्टौ 15 दोषाः ॥ ४४७२ ॥
स्तैन्येन-चौर्येण कृतं वन्दनमपि स्तैन्यं प्रत्यनीकवन्दनं रुष्टवन्दनं तर्जयन् वन्दत इति तर्जितवन्दनं शठवन्दनं हीलितवन्दनं तथा विपरिकुञ्चितमिति तृतीयगाथायां सप्त दोषाः ॥ ४४७३॥
दृष्टादृष्टं तथा शृङ्गं करो मोचनम् आश्लिष्टा-ऽनाश्लिष्टं न्यूनं उत्तरचूलिकमिति चतुर्थगाथायां सप्त दोषाः ॥ ४४७४ ॥ 20 मूकं ढड्डरं चुडलिकम् 'अपश्चिमं' पर्यन्तवर्ति इति पञ्चमगाथार्धे त्रयो दोषाः । एवं द्वात्रिंशदोषपरिशुद्धं कृतिकर्म प्रयुञ्जीत साधुरिति दोषनामोत्कीर्तनायां पञ्च गाथाः ।। ४४७५॥ इदानीमेतानेव यथाक्रमं व्याचष्टे
आयरकरणं आढा, तबिवरीयं अणाढियं होइ ।
दव्वे भावे थद्धो, चउभंगो दबतो भइतो ॥ ४४७६ ॥ 20 आदरः-सम्भ्रमस्तस्करणमादृतता सा यत्र न भवति तदनादृतमुच्यते । द्वितीयं दोषमाहस्तब्धस्तावद् द्रव्यतो भावतश्च भवति । अत्र चतुर्भङ्गिका, तद्यथा-द्रव्यतः स्तब्धो न भावतः १ भावतः स्तब्धो न द्रव्यतः २ अपरो द्रव्यतो भावतश्च ३ अन्यस्तु न द्रव्यतो नापि भावतः ४ इति । अत्र चरमो भङ्गः शुद्धः । शेषभङ्गकेष्वपि भावतः स्तब्धोऽशुद्ध एव, द्रव्यतस्तु 'भक्तः' विकल्पितः, उदर-पृष्ठशूलव्यथादिबाधितोऽवनामं कर्तुमशक्तः कारणिकः स्यादपि स्तब्धो न 30 तु निष्कारणिक इति भावः ॥ ४४७६ ॥ तृतीयं दोषमाह
पविद्धमणुवयारं, जं अपितो ण जंतितो होति ।
जत्थ व तत्थ व उज्झति, कतकिच्चो वक्खरं चेव ॥ ४४७७ ।। प्रवृद्धं नाम यद् उपचाररहितम् । एतदेव व्याचष्टे-यद् वन्दनकं गुरुभ्यः 'अर्पयन्'
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org