________________
भाष्यगाथाः ४४६६-७०] तृतीय उद्देशः ।।
१२०७ हेइ, जइ न पढिउकामो तो वंदइ, अह पढिउकामो ताहे अवंदित्ता पाए पडिलेहेइ, पडिलेहित्ता पच्छा पढइ, कालवेलाए वंदिउं पडिकमइ, एयं तइयं । ___ एवं पूर्वाह्ने सप्त वन्दनानि । अपराह्नेऽप्येवमेव सप्त भवन्ति-तत्र चत्वारि दैवसिकप्रतिक्रमणे, त्रीणि स्वाध्याये, अनुज्ञावन्दनानां खाध्यायवन्दनेष्वेवान्तर्भावादिति सर्वसङ्ख्यया चतुर्दश वन्दनकानि भवन्ति । एतच्चाभक्तार्थिकमङ्गीकृत्योक्तम् । यस्तु भक्तार्थिकस्तस्य भोजना-3 नन्तरभाविप्रत्याख्यानवन्दनकसहितानि पञ्चदश भवन्तीति । एतेषां मध्यादेकतरस्यापि कृतिकर्मणोऽकरणे मासिकं लघुकं प्रायश्चित्तं भवति । तथा आवश्यकं कुर्वन् विपरीतमालापकोच्चारणं करोति, तद्यथा-दैवसिके आवश्यके 'क्षामयामि क्षमाश्रमण ! रात्रिकं व्यतिक्रमम्' इत्युच्चरति, रात्रिके वा दैवसिकाभिलापं करोति, एवं पाक्षिक-चातुर्मासिक-सांवत्सरिकेष्वपि प्रतिक्रमणेषु वक्तव्यम् , अत्र सर्वत्राप्यसामाचारी निष्पन्नं मासलघु । "ऊणऽहिए चेव" त्ति ऊनानि वा-10 एकट्यादिभिर्वन्दनकैहीनानि अधिकानि वा-यथोक्तप्रमाणादतिरिक्तानि दैवसिकादिप्रतिक्रमणेषु वन्दनकानि प्रयच्छतो मासलघु ॥ ४४६९ ॥ __ अथ "वंदणए जाणि य पयाणि' (गा० ४४६७) त्ति पदेन यानि यवनतादीनि पञ्चविंशतिर्वन्दनकस्यावश्यकपदानि सूचितानि तानि दर्शयति
दुओणयं अहाजायं, किइकम्म बारसावयं ।।
चउसिरं तिगुत्तं च, दुपवेसं एगनिक्खमणं ॥ ४४७० ॥ अवनतिरवनतम्-उत्तमाङ्गप्रधानं प्रणमनम् , द्वे अवनते यस्मिन् तद् व्यवनतम् एकं यदा .. प्रथममेव "इच्छामि खमासमणो ! वंदिउं जावणिजाए निसीहियाए" इत्यभिधाय छन्दोऽनुज्ञापनायावनमति १, द्वितीयं पुनरेवमेव द्वितीयप्रवेशे इति २ । 'यथाजातं नाम' यथा प्रथमतो जननीजठरान्निर्गतो यथा च श्रमणो जातस्तथैव वन्दनकं दातव्यम्-तत्र रजोहरण-मुखवस्त्रिका- 20 चोलपट्टकमात्रया श्रमणः सञ्जातः, रचितकरसम्पुटस्तु योन्या विनिर्गतः, एवम्भूत एव वन्दनकं दत्ते ३ । 'कृतिकर्म' वन्दनकं "बारसावयं" ति द्वादशावतं भवति-इंह प्रथमतः प्रविष्टस्य "अहो-कायं, काय, जता भे, जवणि-जं च भे" इति सूत्राभिधानगर्भा गुरुचरणन्यस्तहस्त-शिरःस्थापनरूपाः षडावर्ता भवन्ति, अवग्रहान्निर्गत्य पुनःप्रविष्टस्याप्येवमेव षडिति द्वादशावर्तवन्दनकमुच्यते १५ । चत्वारि शिरांसि-उपचारात् शिरोऽवनमनानि यस्मिन् तत् 25 चतुःशिरः-तत्र संफासनमणे एगं, खामणानमणे सीसस्स बीयं, एवं बीयपवेसे वि दोन्नि त्ति १९ । तथा त्रयः-मनो-वाक्-काययोगा गुप्ताः-सुप्रणिहिता यस्मिन् तत् त्रिगुप्तम् , इयमत्र भावना-मनसा सम्यक्प्रणिहितो वाचा अस्खलितानि सूत्रपदानि विकथादिनिरोधेनोच्चारयन् कायेनावर्तान् सम्यक् प्रयुञ्जानो वन्दनं ददाति २२ । द्वौ प्रवेशौ गुरोरवग्रहेऽनुज्ञाप्य प्रविशतो यस्मिन् तद् द्विप्रवेशम् २४ । एकं निष्क्रमणं गुरोरवग्रहादावश्यिक्या निर्गच्छतो यत्र तद् एकनि- 30 एक्रमणम् २५ । एतेषां पञ्चविंशतेरावश्यकानामकरणे प्रत्येकं मासलघु प्रायश्चितम् । अथवा "वन्दनके यानि पदानि" (गा० ४४६७) इत्यत्र अनादृतादीनि द्वात्रिंशत्सङ्ख्याकानि दोषपदानि मन्तव्यानि ॥ ४४७० ॥ तानि चामूनि---
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org