________________
5
10
१२०६
सनिर्युक्ति-लघुभाष्य-वृत्ति के बृहत्कल्पसूत्रे [ कृतिकर्मप्रकृते सूत्रम् १८
दृष्टमेव, एवमत्राप्येकस्यैवानभ्युत्थानस्य तथातथाक्षेत्र महाजनादिभेदेनानेकविधं प्रायश्चित्तमभिधीयमानं न विरुध्यते ॥ ४४६५ ॥ इत्थं पराभिप्रायं परिहृत्य प्रायश्चित्तमाह
देसिय राइय पक्खिय, चाउम्मासे तहेव वरिसे य । [आव.नि. १५०१ ] लहु गुरु लहुगा गुरुगा, वंदणए जाणि य पदाणि ॥ ४४६७ ॥ दैवसिके रात्रि के वा आवश्यके वन्दनकं न ददति मासलघु । पाक्षिके वन्दनकं न प्रयच्छन्ति मासगुरु । चातुर्मासिके वन्दनकमददतां चतुर्लघु । सांवत्सरिके वन्दनकादाने चतुर्गुरु । चशब्दाद् विपरीतं न्यूनाधिकं च कुर्वतां लघुमासः । यानि च वन्दनके व्यवनत-यथा15 जातादीनि पदानि तेषामप्यकरणेऽसामाचारी निष्पन्नं मासलघु ॥ ४४६७ ॥ - अथैतदेव प्रायश्चित्तं विशेषयन्नाह -
वार - साहु- संजइ - निगम-घडा - राय संघ सहिते तु ।
लहुगो लहुगा गुरुगा, छम्मासा छेद मूल दुगं ॥ ४४६६ ॥ आचार्यं विचारभूमेरागतं नाभ्युत्तिष्ठन्ति मासलघु, साधुभिः सममायातमनभ्युत्तिष्ठतां चतुलघवः, संयतीभिः समं चतुर्गुरवः, निगमैः- पौरवणिग्विशेषैः षड्लघवः, घटया - महत्तरा ऽनुमहत्तरादिगोष्ठीपुरुषसमवायलक्षणया समं छेदः, सङ्घेन समं मूलम् राज्ञा सममनवस्थाप्यम्, " सहिए तु" त्ति सङ्घसहितेन राज्ञा सममायातमनभ्युत्तिष्ठतां पाराञ्चिकम् ॥ ४४६६ ॥ गतमभ्युत्थानम् । अथ वन्दनकमभिधित्सुराह—
25
आयरियाइचउन्हं तव काल विसेसियं भवे एयं ।
अहवा पडिलोमेयं, तव कालविसेसओ होइ ॥ ४४६८ ॥
आचार्यादीनां चतुर्णामपि 'एतद्' अनन्तरोक्तं प्रायश्चित्तं तपः- कालविशेषितं भवति - 20 तत्राचार्यस्य द्वाभ्यामपि तपः- कालाभ्यां गुरुकम्, वृषभस्य तपोगुरुकम्, भिक्षोः कालगुरुकम्, क्षुल्लकस्य तपसा कालेन च लघुकम् । अथवा तपः- कालविशेषत एतदेव 'प्रतिलोमं' पश्चानुपूर्व्या वक्तव्यम् - आचार्यस्य द्वाभ्यामपि लघुकम्, वृषभस्य कालगुरुकम्, भिक्षोस्त पोगुरुकम्, क्षुल्लकस्य द्वाभ्यामपि गुरुकम् ॥ ४४६८ ॥
अथ "देसिय-राइय" ति पदद्वयं विशेषतो भावयति
दुगत किम्मस्स अकरणे होइ मासियं लहुगं । आवासगविवरीए, ऊणऽहिए चैव लहुओ उ ।। ४४६९ ॥
"दुगसत्तग” त्ति द्वे सप्तके चतुर्दश भवन्तीति कृत्वा पूर्वाह्ना - Sपराह्नयोश्चतुर्दश वन्दनानि भवन्ति । कथम् ? इति चेद् उच्यते - इह रात्रिप्रतिक्रमणे चत्वारि वन्दन कानि — तत्रैकमालोचनायाम्, द्वितीयं क्षामणके, तृतीयं षाण्मासिकतपश्चिन्तनकायोत्सर्गार्थम्, चतुर्थ प्रत्या30 ख्यानग्रहणार्थमिति । तथा स्वाध्याये त्रीणि वन्दनकानि, तत्र च वृद्धसम्प्रदायः
सज्झाए वंदित्ता पट्टवेइ, एयं पढमं । पवेयंतस्स बिइयं, पच्छा उद्दिनं समुद्दिट्टं पढइ, उद्देस·-समुद्देसवंदणाणमिहेवंत भावो । तओ जाहे च भागावसेसा पोरिसी ताहे पाए पडिले - १ एतचिहान्तर्गतमवतरणं भा० नास्ति ॥
Jain Education International
For Private & Personal Use Only
-
www.jainelibrary.org