________________
10
भाष्यगाथाः ४४५९-६५) तृतीय उद्देशः ।
१२०५ अथ संयमाभिमुखोऽसौ समागतस्ततः किम् ? इत्याह
चरणोदासीणे पुण, जो विप्पजहाय आगतो समगो।
सो तेसु पविसमाणो, सद्धं वड्डेइ उभओ वि॥ ४४६२॥ __ यः पुनः श्रमणः 'चरणोदासीनान्' पार्श्वस्थादीन् सुखशीलविहारिणो विप्रहाय संयमाभिमुखः समागतः सः 'तेषु' गच्छान्तरीयेषु साधुषु प्रविशन् उभयेषामपि साधूनां श्रद्धां वर्धयति । 3 तथाहि-यत्र गच्छेऽसौ प्रविशति तदीयाः साधवश्चिन्तयन्ति-एषः 'सुन्दरा अमी' इति परिभाव्यास्माकं मध्ये प्रविशति अतः सुन्दरतरं कुर्महे । यस्मादपि गच्छादायातस्तदीया अपि चिन्तयन्ति-अस्मान् 'सुखशीलान्' इति विज्ञायैष गच्छान्तरं गच्छति अतो वयमुद्यता भवाम इति ॥ ४४६२ ॥ अथासौ संयमाभिमुखस्तत्रापि सामाचारीहापनं प्रतिनोदनाया अभावं च पश्यति ततश्चिन्तयति
इत्थ वि मेराहाणी, एते वि हु सार-वारणामुक्का ।
अन्ने वयइ अभिमुहो, तप्पच्चयनिजराहाणी ॥ ४४६३ ॥ अत्रापि गच्छे न केवलं पूर्वस्मिन् इत्यपिशब्दार्थः, मर्यादायाः-अभ्युत्थानादिसामाचार्या हानिरवलोक्यते, 'एतेऽपि च' साधवः स्मारणा-वारणामुक्ताः परिस्फुटं प्राक्तनगच्छसाधव इव निरर्गलाः समीक्ष्यन्ते, अतः को नामामीषां समीपे स्थास्यति ? इति मत्वा स संयमाभिमुखः 15 साधुः 'अन्यान्' गच्छान्तरीयान् साधून् 'व्रजति' प्रविशति । प्रविशतु नाम गच्छान्तरं का नो हानिः ? इति चेद् अत आह----'तत्प्रत्यया' तस्य-साधोः संयमानुपालनोपष्टम्भकरणहेतुका या निर्जरा तस्या हानिः प्राप्नोति, सा न भवतीत्यर्थः ।। ४४६३ ॥ आह किं कारणमसौ तेषु न प्रविशति ? इत्याह
जहिँ नत्थि सारणा वारणा य पडिचोयणा य गच्छम्मि । 20
सो उ अगच्छो गच्छो, संजमकामीण मोत्तव्यो ॥ ४४६४ ॥ विस्मृते कचित् कर्तव्ये 'भवतेदं न कृतम्' इत्येवंरूपा स्मारणा सारणा, अकर्तव्यनिषेधो वारणा, उपलक्षणत्वाद् अन्यथा कर्त्तव्यमनाभोगादिना अन्यथा कुर्वतः सम्यक्प्रवर्तना प्रेरणा, निवारितस्यापि पुनः पुनः प्रवर्त्तमानस्य खर-परुषोक्तिभिः शिक्षणं प्रतिनोदना । एताः सारणादयो यत्र गच्छे न सन्ति स गच्छो गच्छकार्याकरणादगच्छो मन्तव्यः, अत एव 'संयमका- 25 मिना' संयमाभिमुखन साधुना मोक्तव्योऽसौ, नाश्रयणीय इति भावः । गाथायां प्राकृतत्वाद् इकारस्य दीर्घत्वम् ॥ ४४६४ ॥ प्रकारान्तरेण प्रायश्चित्तमभिधित्सुः प्रस्तावनामाह
अयमपरो उ विकप्पो, पुवावरवाहय त्ति ते बुद्धी ।
___ लोए वि अणेगविहं, नणु मेसज मो रुजोवसमे ॥ ४४६५ ॥ __ 'अयम्' अग्रेतनगाथायां वक्ष्यमाणोऽपरः प्रायश्चित्तस्य 'विकल्पः' प्रकारः । अत्र परः 30 प्राह-'पूर्वापरव्याहतमिदं' पूर्वमन्यादृशं प्रायश्चित्तमुक्त्वा यदिदानीमन्यादृशमभिधीयते तदेतत् पूर्वापरविरुद्धम् इति 'ते' तव बुद्धिः स्यात् तत्रोच्यते-ननु लोकेऽपि रुजोपशमे विधातव्ये तथाविधे त्रिफला-त्रिकटुकादिभेदादनेकविधं भेषजं “मो" इति पादपूरणे प्रयुज्यमानं
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org