Book Title: Agam 35 Chhed 02 Bruhatkalpa Sutra Part 04
Author(s): Bhadrabahuswami, Chaturvijay, Punyavijay
Publisher: Atmanand Jain Sabha

View full book text
Previous | Next

Page 353
________________ १२१८ सनियुक्ति-लघुभाष्य-वृत्तिके बृहत्कल्पसूत्रे [ कृति कर्मप्रकृते सूत्रम् १८ संयमस्थानानि तथैव वक्तव्यानि ततः पुनरप्येकमनन्तगुणाधिकं संयमस्थानं वक्तव्यम्; एवमनन्तगुणाधिकानि तावद् वक्तव्यानि यावत् कण्डकमात्राणि भवन्ति । ततो भूयोऽपि तेषामुपरि पञ्चवृच्यात्मकानि संयमस्थानानि मूलादारभ्य तथैव वक्तव्यानि यत् पुनरनन्तगुणवृद्धिस्थानं तन्न प्राप्यते, षट्स्थानस्य परिसमाप्तत्वात् । इत्थम्भूतान्यसङ्ख्येयानि कण्डकानि समुदितानि 5 षट्स्थानकं भवति । तस्माच्च प्रथमषट्स्थानकादूर्द्धमुक्तक्रमेणैव द्वितीयं षट्स्थानकमुत्तिष्ठति, एवमेव च तृतीयम् एवं षट्स्थानकान्यपि तावद् वाच्यानि यावदसङ्ख्ये यलोकाकाशप्रदेशप्रमाणानि भवन्ति । उक्तं च 10 15 छट्ठाणगअवसाणे, अन्नं छट्टाणयं पुणो अन्नं । एवमसंखा लोगा, छट्टाणाणं मुणेयव्वा ॥ [ पञ्चसं० गा० ४४४ ] इत्थम्भूतानि चासयेयलोकाकाशप्रदेशप्रमाणानि षट्स्थानकानि संयमश्रेणिरुच्यते । तथा चोक्तम् प्रथमादसङ्ख्येयभागवृद्धात् स्थानादधः कियन्ति संयमस्थानान्यनन्तभागवृद्धानि ? उच्यतेकण्डकमात्राणि । तथा प्रथमात् सङ्ख्येयभागवृद्धात् स्थानादधः कियन्ति असङ्ख्येय भागवृद्धानि स्थानानि ? उच्यते - कण्डकमात्राणि । एवमुत्तरोत्तरस्थानादधोऽध आनन्तर्येण तावद् मार्गणा कर्त्तव्या यावत् प्रथमादनन्तगुणवृद्धात् स्थानादधः कियन्ति असङ्ख्येयगुणवृद्धानि ? उच्यतेकण्डकमात्राणि । इदानीमेकान्तरिता मार्गणा क्रियते तत्र प्रथमात् सङ्ख्येयभागवृद्धात् 20 स्थानादधः कियन्त्यनन्तभागवृद्धानि स्थानानि ? उच्यते - कण्डकवर्गः कण्डकं च । तथा प्रथमात् सङ्ख्येयगुणवृद्धात् स्थानादधः कियन्ति असङ्ख्येयभागवृद्धानि स्थानानि ? उच्यतेकण्डकवर्गः कण्डकं च । [ तथा प्रथमादसङ्ख्येयगुणवृद्धात् स्थानादधः कियन्ति सङ्ख्येयभागवृद्धानि स्थानानि ? उच्यते-- कण्डकवर्गः कण्डकं च । ] तथा प्रथमादनन्तगुणवृद्धात् स्थानादधः कियन्ति सङ्ख्येयगुणवृद्धानि स्थानानि : उच्यते — कण्डकवर्गः कण्डकं च । एवमुक्त25 प्रकारेण व्यन्तरिता त्र्यन्तरिता चतुरन्तरिता च मार्गणा खधिया परिभावनीया । अथ पर्यवसानद्वारम्—तत्रानन्तगुणवृद्धकण्डकादुपरि पञ्चवृज्यात्मकानि सर्वाणि स्थानानि गत्वा पुनरनन्तगुणवृद्धं स्थानं न प्राप्यते, षट्स्थानस्य परिसमाप्तत्वात् । ततस्तदेव सर्वान्तिमं स्थानं षट्स्थानकस्य पर्यवसानम् ॥ ४५१२ ॥ 30 छट्टाणा उ असंखा, संजमसेढी मुणेयबा || [ पिण्डनि० भा० गा० २९] तदेवं कृता अविभागपरिच्छेद- स्थानान्तर - कण्डक - षट्स्थानकानां प्ररूपणा ४ । साम्प्रतमधःस्थानप्ररूपणा क्रियते - अथ भाष्यकारः प्रकारान्तरेणाधः पर्यवसानद्वारयोर्युगपत् प्ररूपणामाह एयं चरितसेर्दि, पडिवज्जर हिट्ठ कोइ उवरिं वा । जो हिट्ठा पडिवज, सिज्झइ नियमा जहा भरहो ।। ४५१३ ।। एतां चारित्रश्रेणि कश्चिद् जीवः 'अधस्ताद्' जघन्यसंयमस्थानेषु प्रतिपद्यते कश्चित् पुनः १ 'वद् वक्तव्यानि या मो० ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444