Book Title: Agam 35 Chhed 02 Bruhatkalpa Sutra Part 04
Author(s): Bhadrabahuswami, Chaturvijay, Punyavijay
Publisher: Atmanand Jain Sabha

View full book text
Previous | Next

Page 334
________________ भाष्यगाथाः ४४३७-४४] तृतीय उद्देशः । १९९९ अकारणा कार्यस्य सिद्धिः 'इह' अस्मिन् जगति नास्ति, यद् यस्य कार्यस्योपादानं कारणं तत् तेन विना न सिध्यतीत्यर्थः, यथा मृत्पिण्डं विना घट इति । कारणसद्भावेऽपि 'न च' नैव 'अनुपायेन' उपायाभावेन कार्यं भवतीति 'तज्ज्ञाः' कार्यसिद्धिवेदिनो वदन्ति, यथा मृत्पिण्डसद्भावेऽपि चक्र-चीवरोदकाद्युपायमन्तरेण घटो न सिध्यति । यः पुनरुपायवान् कारणसम्प्रयुक्तः प्रयत्नवांश्च भवति स कार्याणि साधयति, यथा कुम्भकारो मृत्पिण्डमासाद्य चक्र-5 चीवराद्युपायसाचिव्यजनितोपष्टम्भः खहस्तव्यापारणरूपं प्रयत्नं कुर्वन् घटमिति ॥ ४४४०॥ आह-यद्येवमुपायकारणयुक्तः कार्याणि साधयति ततः प्रस्तुते किमायातम् ? इत्याह धम्मस्स मूलं विणयं वयंति, धम्मो य मूलं खलु सोग्गईए । सा सोग्गई जत्थ अबाहया ऊ, तम्हा निसेवी विणयो तदट्ठा ॥ ४४४१ ॥ 'धर्मस्य' श्रुत-चारित्ररूपस्य 'मूलं' प्रथममुत्पत्तिकारणं 'विनयम्' अभ्युत्थानादिरूपं वदन्ति 10 तीर्थकरादय इति गम्यते । स च धर्मः 'खलु' अवधारणे सुगतेः 'मूलं' कारणं मन्तव्यम् , दुर्गतौ प्रपतन्तं प्राणिनं धारयति सुगतौ च स्थापयतीति निरुक्तिसिद्धत्वात् तस्येति भावः । अथ सुगतिरिह कीदृशी गृह्यते ? इत्याह-सा सुगतिरभिधीयते यत्र 'अबाधता' क्षुत्पिपासारोग-शोकादीनां शारीर-मानसानां बाधानामभावः, सिद्धिरित्यर्थः । यत एवं तस्मात् 'तदर्थ सुगतिनिमित्तं विनयो निषेव्यः । इदमत्र हृदयम्-इह कार्य तावदव्याबाधसुखलक्षणो मोक्षः, 15 तस्य च कारणं श्रुत-चारित्ररूपः सर्वज्ञभाषितो धर्मः, स च गुरोरभ्युत्थान-वन्दनादिविनयलक्षणमुपायमन्तरेण न साधयितुं शक्यते, अतः परम्परया मोक्षकारणमेवायमिति मत्वा तदर्थ विनय आसेवितव्य इति ॥ ४ ४ ४१ ॥ आह-युक्तं पौरुषी-लेपप्रदानादिकारिणामभ्युत्थानम् , ग्लानोत्तमार्थप्रतिपन्नयोस्तु किमर्थमभ्युत्थानम् ? उच्यते-- मंगल-सद्धाजणणं, विरियायारो न हाविओ चे । एएहिं कारणेहिं, अतरंत परिण्ण उट्ठाणं ॥ ४४४२ ॥ 'अतरन्तः' ग्लानः “परिन्न" ति मतुप्रत्ययलोपात् 'परिज्ञावान्' अनशनी, एतयोर्गुरूणामभ्युत्थाने मङ्गलं भवति, ततश्च ग्लानस्याचिरादेव प्रगुणीभवनं कृतभक्तप्रत्याख्यानस्य तु निर्विघ्नमुत्तमार्थसाधनं स्यात् । तथा ग्लाने परिज्ञावति वा गुरुमभ्युत्तिष्ठति शेषाणामप्यभ्युत्थाने श्रद्धाजननं विहितं भवति, यद्येषोऽप्येवं गुरूनभ्युत्तिष्ठति ततोऽस्माभिः सुतरामभ्युत्थातव्यम् । 25 अपि च-एवं कुर्वता ग्लानेन परिज्ञावता च वीर्याचारो न हापितो भवति । अत एतैः कारणैरेताभ्यामभ्युत्थातव्यम् ॥ ४४४२ ॥ प्रकारान्तरेण प्रायश्चित्तमुपदर्शयन्नाह चंकमणे पासवणे, वीयारे साहु संजई सन्नी।। सन्निणि वाइ अमचे, संघे वा रायसहिए वा ॥ ४४४३ ॥ पणगं च भिन्नमासो, मासो लहुगो य होइ गुरुगो य ।। चत्तारि छ च लहु गुरु, छेदो मूलं तह दुगं च ॥ ४४४४ ॥ इह प्रथमगाथाया द्वितीयगाथायाश्च पदानां यथासङ्ख्येन योजना । तद्यथा--आचार्य चक्रमणं कुर्वाणं दृष्ट्वा नाभ्युत्तिष्ठति पञ्चक' पञ्चगनिन्दिवानि प्रायश्चित्तम् । प्रश्रवणभूम्या 20 Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444