________________
भाष्यगाथाः ४४३७-४४] तृतीय उद्देशः ।
१९९९ अकारणा कार्यस्य सिद्धिः 'इह' अस्मिन् जगति नास्ति, यद् यस्य कार्यस्योपादानं कारणं तत् तेन विना न सिध्यतीत्यर्थः, यथा मृत्पिण्डं विना घट इति । कारणसद्भावेऽपि 'न च' नैव 'अनुपायेन' उपायाभावेन कार्यं भवतीति 'तज्ज्ञाः' कार्यसिद्धिवेदिनो वदन्ति, यथा मृत्पिण्डसद्भावेऽपि चक्र-चीवरोदकाद्युपायमन्तरेण घटो न सिध्यति । यः पुनरुपायवान् कारणसम्प्रयुक्तः प्रयत्नवांश्च भवति स कार्याणि साधयति, यथा कुम्भकारो मृत्पिण्डमासाद्य चक्र-5 चीवराद्युपायसाचिव्यजनितोपष्टम्भः खहस्तव्यापारणरूपं प्रयत्नं कुर्वन् घटमिति ॥ ४४४०॥ आह-यद्येवमुपायकारणयुक्तः कार्याणि साधयति ततः प्रस्तुते किमायातम् ? इत्याह
धम्मस्स मूलं विणयं वयंति, धम्मो य मूलं खलु सोग्गईए ।
सा सोग्गई जत्थ अबाहया ऊ, तम्हा निसेवी विणयो तदट्ठा ॥ ४४४१ ॥ 'धर्मस्य' श्रुत-चारित्ररूपस्य 'मूलं' प्रथममुत्पत्तिकारणं 'विनयम्' अभ्युत्थानादिरूपं वदन्ति 10 तीर्थकरादय इति गम्यते । स च धर्मः 'खलु' अवधारणे सुगतेः 'मूलं' कारणं मन्तव्यम् , दुर्गतौ प्रपतन्तं प्राणिनं धारयति सुगतौ च स्थापयतीति निरुक्तिसिद्धत्वात् तस्येति भावः । अथ सुगतिरिह कीदृशी गृह्यते ? इत्याह-सा सुगतिरभिधीयते यत्र 'अबाधता' क्षुत्पिपासारोग-शोकादीनां शारीर-मानसानां बाधानामभावः, सिद्धिरित्यर्थः । यत एवं तस्मात् 'तदर्थ सुगतिनिमित्तं विनयो निषेव्यः । इदमत्र हृदयम्-इह कार्य तावदव्याबाधसुखलक्षणो मोक्षः, 15 तस्य च कारणं श्रुत-चारित्ररूपः सर्वज्ञभाषितो धर्मः, स च गुरोरभ्युत्थान-वन्दनादिविनयलक्षणमुपायमन्तरेण न साधयितुं शक्यते, अतः परम्परया मोक्षकारणमेवायमिति मत्वा तदर्थ विनय आसेवितव्य इति ॥ ४ ४ ४१ ॥ आह-युक्तं पौरुषी-लेपप्रदानादिकारिणामभ्युत्थानम् , ग्लानोत्तमार्थप्रतिपन्नयोस्तु किमर्थमभ्युत्थानम् ? उच्यते--
मंगल-सद्धाजणणं, विरियायारो न हाविओ चे ।
एएहिं कारणेहिं, अतरंत परिण्ण उट्ठाणं ॥ ४४४२ ॥ 'अतरन्तः' ग्लानः “परिन्न" ति मतुप्रत्ययलोपात् 'परिज्ञावान्' अनशनी, एतयोर्गुरूणामभ्युत्थाने मङ्गलं भवति, ततश्च ग्लानस्याचिरादेव प्रगुणीभवनं कृतभक्तप्रत्याख्यानस्य तु निर्विघ्नमुत्तमार्थसाधनं स्यात् । तथा ग्लाने परिज्ञावति वा गुरुमभ्युत्तिष्ठति शेषाणामप्यभ्युत्थाने श्रद्धाजननं विहितं भवति, यद्येषोऽप्येवं गुरूनभ्युत्तिष्ठति ततोऽस्माभिः सुतरामभ्युत्थातव्यम् । 25 अपि च-एवं कुर्वता ग्लानेन परिज्ञावता च वीर्याचारो न हापितो भवति । अत एतैः कारणैरेताभ्यामभ्युत्थातव्यम् ॥ ४४४२ ॥ प्रकारान्तरेण प्रायश्चित्तमुपदर्शयन्नाह
चंकमणे पासवणे, वीयारे साहु संजई सन्नी।। सन्निणि वाइ अमचे, संघे वा रायसहिए वा ॥ ४४४३ ॥ पणगं च भिन्नमासो, मासो लहुगो य होइ गुरुगो य ।।
चत्तारि छ च लहु गुरु, छेदो मूलं तह दुगं च ॥ ४४४४ ॥ इह प्रथमगाथाया द्वितीयगाथायाश्च पदानां यथासङ्ख्येन योजना । तद्यथा--आचार्य चक्रमणं कुर्वाणं दृष्ट्वा नाभ्युत्तिष्ठति पञ्चक' पञ्चगनिन्दिवानि प्रायश्चित्तम् । प्रश्रवणभूम्या
20
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org