________________
१२०० सनियुक्ति-लघुभाष्य-वृत्तिके वृहत्कल्पसूत्रे [कृतिकर्मप्रकृते सूत्रम् १८ आगतं नाभ्युत्तिष्ठति भिन्न मासः । 'विचार:' संज्ञा तां कृत्या समागतम्यानभ्युत्थाने मासलघु । अन्यैः साधुभिः समागतस्यानभ्युत्थाने मासगुरु । संयतीभिः सार्धमागतस्यानुत्थाने चतुर्लधु । संज्ञिनः-श्रावकास्तैः सममायातमनुत्तिष्ठतश्चतुर्गुरु । असंज्ञिभिः सममायातस्यानभ्युत्थाने षड्लघु । संज्ञिनीभिरसंज्ञिनीभिश्च स्त्रीभिः सममायान्तमनभ्युत्तिष्ठतः षड्गुरु । वादिना सार्धमायातेऽन. 5 भ्युत्थिते छेदः । अमात्येन सार्धमागते मूलम् । सङ्घन सार्धमायातेऽनुत्थितेऽनवस्थाप्यम् । राज्ञा सहितं सूरिमागतमनुत्तिष्ठतः पाराञ्चिकम् ॥ ४४४३ ॥ ४४४४ ॥ अथ किमर्थं स्त्रीभिः सममायाते गुरुतरं प्रायश्चित्तम् ? उच्यते
पूएंति पूइयं इत्थियाउ पाएण ताओं लहुसत्ता ।
___एएण कारणेणं, पुरिसेसुं इत्थिया पच्छा ॥ ४४४५ ॥ 10 इह स्त्रियः प्रायेण 'पूजितं पूजयन्ति' यमेवाचार्यादिकं साधु-श्रावकादिभिरभ्युत्थानादिना
पूज्यमानं पश्यन्ति तस्यैव पूजां विदधति, ताश्च स्त्रियः प्रायेण 'लघुसत्त्वाः' तुच्छाशया भवन्ति, ततः साधुभिरनभ्युत्यीयमानमाचार्य गाढतरं परिभवबुद्ध्या पश्यन्ति-न किमप्येष आचार्यों जानाति, न चायं विशिष्टगुणवान् सम्भाव्यते, अन्यथा किमेते साधवो नाभ्युत्तिष्ठन्ति ? । एवमेतेन कारणेन 'पुरुषेषु' साधु-श्रावकादिषु पूर्व लघुतरप्रायश्चितमुक्त्या पश्चात् 15 स्त्रियोऽधिकृत्य गुरुतरमुक्तम् ॥ ४४४५ ॥
अथ राज्ञा सार्धं समागतस्यानभ्युत्थाने किं कारणं पाराञ्चिकम् ? इत्याहपाएणिद्धा एंति महाणेण समं तू, फातिं दोसो गच्छइ एएसु तणू वि । गझं वकं होज कहं वा परिभूतो, वेडुजं वा कुच्छियवेसम्मि मणूसे ॥४४४६॥
'ऋद्धाः' राजादय ऋद्धिमन्तः 'प्रायेण' बाहुल्येन 'महाजनेन' सामन्त-मन्त्रि-महत्तमादीनां 20 महता समवायेन समं समागच्छन्ति, तत एतेषु 'तनुरपि' स्वल्पोऽप्यनभ्युत्थानमात्रलक्षणो दोषः स्फातिं गच्छति, सर्वत्र विस्तरतीति भावः । अपि च-साधुभिरनभ्युत्थीयमान आचार्यः परिभूतो भवति, परिभवपदमुपगच्छतीत्यर्थः । परिभूतस्य च 'वाक्यं वचनं कथं नाम राजादीनां 'ग्राह्यम्' उपादेयं भवेत् ? । वैडूर्यमिव रत्नं 'कुत्सितवेषे' कार्पटिकवेषधारिणि मनुष्ये वर्चमा
नम् ; यथा तदीये हस्ते स्थितं सद् अनयमपि तद्न जनस्योपादेयम् , एवं गुरूणामपि धर्मक25 थावाक्यं गाम्भीर्य-माधुर्यादिगुणैरनर्घ्यमपि परिभूततया न राजादीनामुपादेयं भवति । तदनुपादेयतायां च तेषां सम्यग्दर्शनादिप्रतिपत्तिरपि न भवति । अतो राज्ञा सार्धं समायातेऽनभ्युत्थीयमाने पाराञ्चिकम् ॥ ४४४६ ॥ परः प्राह-युक्तं प्रश्रवणभूम्यादेरागतस्याभ्युत्थानम् , यत्तु चक्रमणं कुर्वतोऽभ्युत्थानं तद् नास्माकं युक्तिक्षमं प्रतिभाति, यतः
अवस्सकिरियाजोगे, वट्टतो साहु पुजया । 80
परिफग्गुं तु पासामो, चंकम्मते वि उट्ठणं ॥ ४४४७ ॥ विचार-विहारादिको योऽवश्यं कर्त्तव्यः क्रियायोगस्तत्र वर्तमानो यदा समागच्छति तदा 'साध्वी' श्रेयसी तस्य पूज्यता । यदा तु चक्रमणं करोति तदा निरर्थके योगे वर्तते अतश्चक्रमत्यपि गुरौ यद् उत्थानं तत् 'परिफल्गु' निष्फलमेव पश्यामः । यत उक्तं भगवत्याम्
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org