________________
१२०१
भाष्यगाथाः ४४४५-५१] तृतीय उद्देशः ।
जावं च णं से जीवे सयासमियं एयइ० तावं च णं से जीवे आरंभे वट्टइ संरंभे वट्टइ० । जावं च णं से जीवे आरंभे चट्टइ० तावं च णं तस्म जीवम्स अंतकिरिया न भवइ (श० ३
॥४४४७ ।। अत्र सूरिः प्रतिविधानमाहकामं तु एअमाणो, आरंभाईसु वट्टई जीवो।
सो उ अणट्ठा णेट्टो, अवि बाहूणं पि उक्खेवो ॥४४४८॥ 'कामम्' अनुमतमिदं यद् एष जीवः 'एजमानः' स्पन्दमानः 'आरम्भादिषु' कर्मबन्धकारणेषु वर्त्तते, 'स तु' स पुनः परिस्पन्दः 'अनर्थ' निष्कारणं 'नेष्टः' नाभिमतः अपि 'बाह्वोरु
क्षेपः' बाहूत्क्षेपमात्रोऽपि, किं पुनश्चमणादिरित्यपिशब्दार्थः, १ अर्थादापन्नम्-यः सार्थकश्चमणादिव्यापारः स इष्ट एवेति ॥ ४४४८ ॥ ___ अथ सार्थकोऽपि व्यापारः कथमिष्टः ? इत्यस्यां जिज्ञासायां यथा योगत्रयेऽपि व्यापार्यमाणे 10 दोषां यथा च गुणा भवन्ति तदेतत् प्रतिपादयति
मणो य वाया काओ अ, तिविहो जोगसंगहो ।
ते अजुत्तस्स दोसाय, जुत्तस्स उ गुणावहा ॥ ४४४९ ॥ मनोयोगो वाग्योगः काययोगश्चेति त्रिविधो योगसङ्ग्रहो भवति, सङ्केपतस्त्रिधा योगो भवतीत्यर्थः। ते च' मनो-वाक्-काययोगाः 'अयुक्तस्य' अनुपयुक्तस्य 'दोषाय' कर्मबन्धाय भवन्ति, 15 युक्तस्य तु त एव 'गुणावहाः' कर्मनिर्जराकारिणः सम्पद्यन्ते ॥४४४९॥ इदमेव भावयति
जह गुत्तस्सिरियाई, न होंति दोसा तहेव समियस्स ।
गुत्तीट्ठिय प्पमायं, रंभइ समिई सचेझुस्स ॥ ४४५०॥ यथा किल मनो-वाक्-कायगुप्तस्य ईर्यादिप्रत्यया अनुपयुक्तगमना-ऽऽगमनादिक्रियासमुत्था दोषा न भवन्ति तथैव 'समितस्यापि' चङ्क्रमणं कुर्वत ईयोदिप्रत्यया दोषा न भवन्त्येव । किं 20 कारणम् ? इत्याह-यदा किल गुप्तिषु-मनोगुप्त्यादिषु स्थितो भवति तदा योऽगुप्तिप्रत्ययः प्रमादस्तं निरुणद्धि, तन्निरोधाच्च तत्प्रत्ययं कर्मापि न बध्नाति । यस्तु समितौ स्थितः स सचेष्टस्य यः प्रमादो यश्च तत्प्रत्ययः कर्मबन्धस्तयोनिरोधं विदधाति ॥ ४४५० ॥ परः प्राह-यो गुप्तः स समितो भवति उत न ? इति यो वा समितः स गुप्तो भवति उत न ? इति अत्रोच्यते
समितो नियमा गुत्तो, गुत्तो समियत्तणम्मि भइअव्यो। 25
कुसलवइमुदीरंतो, जं वइसमितो वि गुत्तो वि ॥ ४४५१॥ इह समितयः प्रवीचाररूपा इण्यन्ते, गुप्तयस्तु प्रवीचारा-ऽप्रवी चारोभयरूपाः । प्रवीचारो नाम-कायिको वाचिको वा व्यापारः । ततो यः 'समितः' सम्यग्गमन-भाषणादिचेष्टायां प्रवृतः स नियमाद् 'गुप्तः' गुप्तियुक्तो मन्तव्यः, यस्तु गुप्तः स समितत्वे 'भक्तव्यः' विकल्पनीयः । तत्र व सेमितः कथं नियमाद् गुप्तः ? इत्याह-» 'कुशलां' निरवद्यादिगुणोपेतां वाचमुदी-30 रयन् 'यद्' यस्माद् वाक्समितोऽपि गुप्तोऽपि । किमुक्तं भवति ?-यः सम्यगनुविचिन्त्य निरवद्यां भाषां भाषते स भाषासमितोऽपि वाग्गुप्तोऽपि च भवति, गुप्तेः प्रवीचाररूपतयाऽप्य
१-२ - एतचिहान्तर्गतः पाटः भा० नास्ति ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org